अनन्तम् इदम् आकाशं भूतौघश् चाचलादिकः । सुरासुरयुतं विश्वम् एतन्मयम् अकृत्रिमम्
पुस्तकर्ममयी सेना सर्वा मृण्मात्रकं यथा । द्रष्टृदृश्यदृशां सत्ता चिन्मात्रैकमयी तथा
इदम् ऐक्यम् इदं द्वित्वम् अहं नाहम् इतीति च । क इह भ्रमसम्मोहः कथं कस्य कुतः क्व वा
तद् अनन्तम् अनायासम् उपशान्तास्मि खं स्थिता । निर्वामि परिनिर्वाणा सत्यम् आसे गतज्वरम्
अचेतनं चेतनं वा यो यो नामाभिचेतति । सत्तामात्रात्म तद्रूपं स्वं महाचिति संस्थितम्
तेनेह नाहम् नान्यश् च न भावाभावसम्भवः । शान्तं सर्वं निरालम्बं केवलं संस्थितं परम्
इत्थं विचारणपरा परमावबोधाद् बुद्ध्वा यथास्थितम् इदं परमात्मतत्त्वम् । संशान्तरागभयमोहमनोविलासा शान्ता बभूव शरदम्बरलेखिकेव
दिनानुदिनम् एषाथ स्वात्मारामतया तया । नित्यम् अन्तर्मुखतया बभूव प्रकृतिस्थितिः
नीरागा नीरुजासङ्गा निर्द्वन्द्वा निस्समीहिता । न जहाति न चादत्ते प्रकृताचारचारिणी
परितीर्णा भवाम्भोधिं शान्तसन्देहजालिका । परमात्ममहालाभपरिपूर्णतरान्तरा
विश्रान्ता सुचिरश्रान्ता घनलब्धपदात्मनि । सर्वोपमातीततया जगामाव्यपदेश्यताम्
इति सा महिषी तस्य चूडाला वरवर्णिनी । स्वल्पेनैव हि कालेन ययौ विदितवेद्यताम्
यथायम् आगतः कश्चिज् जागतस् स्पन्दविभ्रमः । यथा च लीयते सर्वं तत् तज् ज्ञातवती बभौ
अदृष्टसकलभ्रान्तौ पदे विश्रान्तिम् एत्य सा । रराज शरदच्छाभ्रमालेव गतसम्भ्रमा
अनाकुलसमालोके आशश्वासात्मनात्मनि । जरद्गुर् इव शैलाग्रं सतृणं प्राप्य संस्थिता
स्वविवेकघनाभ्यासवशाद् आत्मोदयेन सा । शुशुभे शोभना पुष्पलतेवाभिनवोद्गता
अथ ताम् अनवद्याङ्गीं कदाचित् स शिखिध्वजः । अपूर्वशोभाम् आलोक्य स्मयमान उवाच ह
भूयो यौवनयुक्तेव मण्डितेव पुनः पुनः । अधिकं राजसे तन्वि जगद्राज्यवती यथा
प्रपीतामृतसारेव लब्धालभ्यपदेव च । आनन्दापूरपूर्णेव राजसे ऽतितरां प्रिये
उपशान्तं च कान्तं च दधाना सुन्दरं वपुः । अभिभूयेन्दुम् आयासि श्रियं काम् अपि कामिनि
अभोगकृपणं शान्तम् ऊर्जितं समतां गतम् । गम्भीरं च प्रसन्नं च चेतः पश्यामि ते प्रिये
तृणीकृतत्रिभुवनं पीताखिलजगत्त्रयम् । अनन्तोद्भासुरं सौम्यं मनः पश्यामि ते प्रिये
न केनचिन् महाभागे विभवानन्दवस्तुना । चेतस् तव तुलाम् एति मेरुक्षीराब्धिसुन्दरम्
तैर् एव बालकदलीमृणालाङ्कुरकोमलैः । अङ्गैस् स्थितिम् अनुज्झद्भिर् वृद्धिं यातेव लक्ष्यसे
तथा तेनैव तेनैव सन्निवेशेन संस्थिता । अन्यताम् उपयातासि लतेवर्तुविपर्यये
किं त्वया पीतम् अमृतं प्राप्तं साम्राज्यम् एव वा । अमृत्यवे वा सम्प्राप्तः प्रयोगो योगयुक्तिभिः
राज्याच् चिन्तामणेर् वापि त्रैलोक्याद् वा त्वयाधिकम् । अप्राप्यं किम् अनुप्राप्तं नीलोत्पलविलोचने
नकिञ्चित् किञ्चिदाकारम् इदं त्यक्त्वाहम् आगता । नकिञ्चित्किञ्चिदाकारं तेनास्मि श्रीमती स्थिता
यत् किञ्चिद् यन् नकिञ्चिच् च तज् जानामि यथास्थितम् । यथोदयं यथानाशं तेनास्मि श्रीमती स्थिता
भोगैर् अभुक्तैस् तुष्यामि भुक्तैर् इव सुदूरगैः । न हृष्यामि न कुप्यामि तेनास्मि श्रीमती स्थिता