शीर्णपत्त्रं भ्रष्टनष्टं ग्रीष्मे वनम् इवारसम् । मरणव्यग्रनृत्ताभं शिलास्त्रीहास्यहासदम्
अन्धकारगृहैकैकनृत्तम् उन्मत्तचेष्टितम् । प्रशान्ताज्ञाननीहारं विज्ञानशरदम्बरम्
समुत्कीर्णम् इव स्तम्भे चित्रभित्ताव् इवेहितम् । पङ्काद् इवाभिरचितं सचेतनम् अचेतनम्
ततस् स्थितिप्रकरणं चतुर्थं परिकल्पितम् । त्रीणि ग्रन्थसहस्राणि स्वाख्यानाख्यायिकामयम्
इत्थं जगद् अहम्भावरूपं स्थितिम् उपागतम् । द्रष्टृदृश्यक्रमप्रौढम् इत्य् अत्र परिवर्णितम्
दशदिङ्मण्डलाभोगभासुरो ऽयं जगद्भ्रमः । इत्थम् अभ्यागतो वृद्धिम् इति तत्रोच्यते चिरम्
उपशान्तिप्रकरणं ततः पञ्चसहस्रिकम् । पञ्चमं पावनं प्रोक्तं मुनिसन्ततिसुन्दरम्
इदं जगद् अहं त्वं च स इति भ्रान्तिर् उत्थिता । इत्य् असौ शाम्यतीत्य् अस्मिन् कथ्यते श्लोकसङ्ग्रहे
उपशान्तिप्रकरणे श्रुते शाम्यति संसृतिः । प्रस्पष्टा विभ्रमेणैव किञ्चिल्लभ्योपलम्भना
शतांशशिष्टा भवति संशान्तभ्रान्तिरूपिणी । अन्यसङ्कल्पचित्तस्था नगरश्रीर् इवासती
अलभ्यैव स्वपार्श्वस्थस्वप्नयुद्धविराववत् । शान्तसङ्कल्पमत्ताभ्रभीषणाशनिशब्दवत्
विस्मृतस्वप्नसङ्कल्पनिर्माणनगरोपमा । भविष्यन्नगरोद्यानसोत्सवश्यामलाङ्गिका
नश्यज्जिह्वोच्यमानोग्रकथार्थानुभवोपमा । अनुल्लिखितचित्तस्थचित्रव्याप्तेव भित्तिभूः
परिविस्मर्यमाणाच्छकल्पनानगरीनिभा । सर्वर्तुमदनुत्पन्नवरमर्दास्फुटाकृतिः
भाविपुष्पवराकारवसन्तरसरञ्जना । अन्तर्लीनतरङ्गौघसौम्यवारिसरित्समा
निर्वाणाख्यं प्रकरणं ततष् षष्ठम् उदाहृतम् । शिष्टो ग्रन्थः परीमाणं तस्य ज्ञेयं महार्थदम्
बुद्धे तस्मिन् भवेच् छ्रोता निर्वाणश् शान्तकल्पनः । अचेत्यचित्प्रकाशात्मा विज्ञानात्मा निरामयः
परमाकाशकोशाच्छश् शान्तसर्वभवभ्रमः । निर्वाहितजगद्यात्रः कृतकर्तव्यसुस्थितः
समस्तविततारम्भवज्रस्तम्भो नभोनिभः । विनिगीर्णयथासंस्थजगज्जालातितृप्तिमान्
आकाशीभूतनिश्शेषरूपालोकमनस्कृतिः । कार्यकारणकर्तृत्वहेयादेयदशोज्झितः
सदेह एव निर्देहस् ससंसारो ऽप्य् असंसृतिः । चिन्मयो घनपाषाणजठराजठरोपमः
चिदादित्यस् तपंल् लोके ऽप्य् अन्धकारोदरोपमः । परप्रकाशरूपो ऽपि परम् आन्ध्यम् इवागतः
रुद्धसंसृतिदुर्लीलः प्रक्षीणाशाविषूचिकः । नष्टाहङ्कारवेतालो देहवान् अकलेवरः
कस्मिंश्चिद् रोमकोट्यग्रे तस्येयम् अवतिष्ठते । जगल्लक्ष्मीर् महामेरोः पुष्पे क्वचिद् इवालिनी
परमाणौ परमाणौ चिदाकाशस्य कोटरे । जगल्लक्ष्मीसहस्राणि धत्ते कृत्वा च पश्यति
प्रवितता हृदयस्य महामते हरिहराब्जजलक्षशतैर् अपि । तुलनम् एति न मुक्तिमतो बत प्रविततास्ति न नूनम् अवस्तुनः
अस्यां वा चितिमात्रायां परो बोधः प्रवर्तते । बीजाद् इव यतो व्युप्ताद् अवश्यम्भावि सत्फलम्
अपि पौरुषम् आदेयं शास्त्रं चेद् युक्तिबोधकम् । अन्यत्रार्षम् अपि त्याज्यं भाव्यं न्यायैकसेविना
युक्तियुक्तम् उपादेयं वचनं बालकाद् अपि । अन्यत् तृणम् इव त्याज्यम् अप्य् उक्तं पद्मजन्मना
यो ऽम्भस् तातस्य कूपो ऽयम् इति कौपं पिबेत् कटु । त्यक्त्वा गाङ्गं पुरस्स्थं तं को ऽनुशासति रागिणम्