प्रेक्षे तावत् स्वम् आत्मानं किम् इदं स्याम् इति स्वयम् । कस्यायं जागतो मोहः कथम् अभ्युत्थितः क्व वा
देहस् तावज् जडो मूको नाहम् इत्य् एव निश्चयः । आबालम् एतत् संसिद्धं मृतौ चैवानुभूयते
कर्मेन्द्रियगणश् चास्य न भिन्नो ऽवयवात्मकः । अवयवावयविनोर् अभेदाज् जड एव च
बुद्धीन्द्रियगणो ऽप्य् एवं जड एवेति दृश्यते । प्रेर्यते मनसा यस्माद् यष्ट्येव भुवि लोष्टकः
मनश् चैव जडं मन्ये सङ्कल्पात्मकशक्तिमत् । क्षेपणैर् इव पाषाणः प्रेर्यते बुद्धिनिश्चयैः
बुद्धिर् निश्चयरूपैवं जडासत्येति निश्चयः । खातेनेव सरित् स्वैरम् अहङ्कारेण वाह्यते
अहङ्कारो ऽपि निस्सारो जड एवं शवात्मकः । जीवेन जन्यते यक्षो बालेनेव भ्रमात्मकः
जीवश् च कलनाकारो वातात्मा हृदये स्थितः । शुक्रसारो ऽन्तर् अन्येन केनापि परिजीवति
आम् अहो ज्ञातम् एतेन चेत्योल्लेखकलङ्किना । जीवो जीवति जीवेन चिद्रूपेणात्मरूपिणा
चेत्यभ्रमवता जीवश् चिद्रूपेणैव जीवति । आमोदः पवनेनेव खातेनेव सरिद्रयः
असत्यजडचेत्यांशश्रयणाच् चिद्वपुर् जडम् । महाजडगतो ह्य् अग्निर् अपि रूपं स्वम् उज्झति
सद् वासद् वा यद् आभासि चित् समाचामति स्वतः । स्वं रूपम् अलम् उत्सृज्य तद् एव भवति क्षणात्
एवं चिद्रूपम् अप्य् एतच् चेत्योन्मुखतया स्वयम् । जडं शून्यम् असङ्कल्पं चेतत्य् अन्यप्रबोधितम्
इति सञ्चिन्त्य चूडाला केनैषा चित् प्रचेतते । इति सञ्चिन्तयाम् आस चिराच् चेत्थं व्यबुध्यत
अहो नु चिरकालेन ज्ञातं ज्ञेयम् अनामयम् । यद् वै चिच्चमितं कृत्वा न किञ्चिद् दूयते पुनः
एते हि चिद्विलासान्ता मनोबुद्धीन्द्रियादयः । असन्तस् सन्त एवाहो द्वितीयेन्दुवद् आस्थिताः
महाचिद् एकैवास्तीह महासत्तेति योच्यते । निष्कलङ्का समा शुद्धा निरहङ्काररूपिणी
शुद्धसंवेदनाकारा शिवं चिन्मात्रम् अच्युता । सकृद्विभाता विमला नित्योदयवती स्थिता
सद्ब्रह्मपरमात्मादिनामभिर् याभिधीयते । चेत्यचेतनचित्तादि नास्या भिन्नं न सा ततः
तयैषा चेत्यते चिच्छ्रीस् सैषाद्या चिद् इति स्मृता । अचेत्यं यद् इदं चित्त्वं तत् तस्या रूपम् अक्षतम्
मनोबुद्धीन्द्रियाद्यर्थरूपैस् सैवं विजृम्भते । तरङ्गकणकल्लोलवलनैर् अम्ब्व् इवात्मनि
जगद्भूतपदार्थानां सत्ता स्फुरति सान्तरे । यद् इदं तत् परं रूपं तस्याः खलु महाचितेः
शुद्धसंविन्महासिंही सेयं समसमोदिता । अनन्ययैवान्ययेव जगज्जृम्भिकया स्थिता
सत्ता तद्व्यतिरेकेण नान्या सम्भवतीह हि । विचित्रहेमभाण्डानां ननु हेमेतरा यथा
सा यथोदेति तद्रूपम् आत्मानं चेतति स्वयम् । स्वचित्त्वेन द्रवत्वेन तरङ्गादित्वम् अम्ब्व् इव
महाचितो जगच् चित्त्वाद् उदेतीवानुदय्य् अपि । तदात्मैव यथावर्तो रूपवाञ् जलधौ द्रवात्
एवं चिन्मात्रम् एवाहम् अनहम्भावम् आततम् । न तस्य जन्ममरणे न च स्तस् सदसद्गती
न नाशस् सम्भवत्य् अस्य चिन्मात्रनभसः क्वचित् । अच्छेद्यो ऽयम् अदाह्यो ऽयं चिदात्मा नित्यनिर्मलः
अहो नु चिरकालेन शान्तास्मि परिनिर्वृता । निर्वासितमतिर् मुक्तम् आसे निर्मन्दराब्धिवत्
असदाभासम् अत्यच्छम् अनन्तम् अजम् अच्युतम् । आत्माकाशम् अनायासम् अवलम्ब्य रमे चिरम्