पुरान्तेषु वनान्तेषु दिगन्तेषु सरस्सु च । जङ्गलेषु दिनान्तेषु जम्बूजम्बीरशालिषु
बभूवाह्लादकं सर्वं तयोर् अन्योऽन्यचेष्टितम् । सद्वर्षणाध्वराचारैर् द्युभूम्योर् इव कान्तयोः
नित्यम् एवावियुक्तत्वात् प्रियत्वाच् चेष्टितस्य च । मिथः कलाकलापस्य कोविदौ तौ बभूवतुः
स्वरूपम् एकम् एवैतौ दधतुर् मिश्रतां गतौ । अन्योऽन्यं हृदयस्थत्वाद् इव सङ्क्रान्तम् अक्षतम्
सर्वशास्त्रादिवैदग्ध्यं चित्राद्य् अपि मुखात् प्रभोः । बाला भाण्डाद् इवागृह्णाद् आसीत् सर्वार्थपण्डिता
नृत्तं वाद्यादि गेयादि चूडालावदनाद् असौ । अशिक्षत बभूवाथ कलानाम् अतिकोविदः
आमावास्याव् इवेन्द्वर्काव् अन्योऽन्यं विलसत्कलौ । मिथो हृदयसंस्थौ तौ द्वाव् अप्य् ऐक्यम् इवास्थितौ
तौ संस्थिताव् एकरसाव् अनन्यदयिताव् उभौ । पुष्पामोदाव् इवाभिन्नौ भूतलस्थौ शिवाव् इव
वैदग्ध्यसुन्दरमती सर्वशास्त्रार्थकोविदौ । क्रीडयेव भुवं प्राप्तौ कमलाकमलाधवौ
स्नेहात् प्रसन्नमधुरौ समविज्ञानवेदिनौ । अनुवृत्तिपराव् आस्तां लोकवृत्तान्ततद्विदौ
कलाकलापसम्पन्नौ लसद्रसरसायनौ । शीतलस्निग्धमुग्धाङ्गौ शशाङ्कौ द्वाव् इवोदितौ
रेजे लसन्नृपतिभोगविलासकान्तम् अन्तःपुरेषु मिथुनं तद् अनुत्तमश्रि । ब्रह्माब्जषण्डकुहरेष्व् इव राजहंसयुग्मं विकासिमदमन्मथमन्दचारि
एवं बहूनि वर्षाणि मिथुनं निर्भरस्पृहम् । रेमे यौवनलीलाभिर् अनन्ताभिर् दिने दिने
अथ यातेषु वर्षेषु बहुष्व् आवृत्तिशालिषु । शनैर् गलति तारुण्ये भिन्नकुम्भाद् इवाम्भसि
शारदस्येव पर्णस्य मिथुनस्यास्य कालतः । ईषद्विरागो हृदयं सम्यक्प्राग्रसम् अस्पृशत्
विरागवासनाक्रान्तम् एकान्तस्थम् अचिन्तयत् । मिथुनं तज् जगद्यात्राम् इमाम् इत्थम् अशाश्वतीम्
किं नामेह मनोहारि संसारकुहरभ्रमे । तरङ्गनिकराकारभङ्गुरव्यवहारिणि
पातः पक्वफलस्येव मरणं दुर्निवारणम् । हिमाशनिर् इवाम्भोजे जरा निपतनोन्मुखी
आयुर् गलत्य् अविरतं जलं करतलाद् इव । प्रावृषीव लतातुम्बी तृष्णैका दीर्घतां गता
शैलनद्या रय इव सम्प्रयात्य् एव यौवनम् । इन्द्रजालम् इवासत्यं जीवितं क्षणसंस्थिति
सुखानि प्रपलायन्ते शरा इव गुणच्युताः । पतन्ति चेतो दुःखानि धृष्टा गृध्रा इवामिषम्
बुद्बुदः प्रावृषीवाप्सु शरीरं क्षणभङ्गुरम् । रम्भागर्भ इवासारो व्यवहारो विरागदः
सत्वरं युवता याता कान्तेवाप्रियकामिनः । बलाद् अरतिर् आयाता वैरस्यम् इव पादपम्
तद् इह स्यात् कुसंसारे किं नाम बत शोभनम् । यद् आसाद्य पुनश् चेतो दशासु न विदूयते
इति निर्णीय युग्मं तत् संसारव्याधिभेषजम् । चिरं विचारयाम् आस शास्त्रम् अध्यात्म सम्मतम्
आत्मज्ञानैकमन्त्रेण संसृत्याख्या विषूचिका । संशाम्यतीति निश्चित्य ताव् आस्तां तत्परायणौ
तच्चित्तौ तद्गतप्राणौ तत्कथौ तद्विदाश्रयौ । तद्विदेकार्चनपरौ तदीहौ तौ बभूवतुः
तत्रैवातिघनाभ्यासौ बोधयन्तौ परस्परम् । तत्प्रीतौ तत्समारम्भौ चिरकालं बभूवतुः
अथ साविरतं बाला रमणीयपदक्रमान् । श्रुत्वाध्यात्मविदां वक्त्राच् छास्त्रार्थांस् तारणक्षमान्
इत्थं विचारयाम् आस स्वम् आत्मानम् अहर्निशम् । अव्यापृता व्यापृता च धिया धवलयाशये