मञ्जरीजालदोलासु विटपान्तःपुरान्तरे । रजःकर्पूरधवले चलद्दलकवाटके
आमोदिनि लसत्पुष्पगुलुच्छकवितानके । गायत्सु गहनेषूच्चैर् मिथुनेष्व् अलिनां मिथः
आयाति मधुरे वायौ शशिशीकरशीतले । कदलीकन्दलीकच्छतलपल्लवलासिनि
कान्तां प्रति बभूवास्य नवं चेतस् समुत्सुकम् । क्षीवं कुसुमसम्भारसौगन्धिमधुरासवैः
मनोराज्यम् इदं चक्रे स वसन्तमदैधितः । उद्यानवनदोलासु लीलाकमलिनीषु च
कदा प्रणयिनीं मुग्धां बालाब्जमुकुलस्तनीम् । करिष्ये कामिनीम् अङ्के पर्यङ्के कुसुमाङ्किताम्
कदा कमलवल्लीनां दोलास्व् अलिर् इवालिनीम् । आलोलतां विनेष्यामि बालां भुजलतानुगाम्
मृणालहारकुन्देन्दुवृन्दतल्पाभिलाषिणी । मत्कृते मदनातप्ता कदा स्याद् इन्दुसुन्दरी
इति चिन्तापरो भूत्वा कुसुमावलनोन्मुखः । विजहार वनान्तेषु कुसुमोपवनेषु च
वेलोपवनदोलासु लीलाकमलिनीषु च । वल्लीवलयगेहेषु विविधोद्यानभूमिषु
वनोपवनविन्यासवर्णनावलितासु च । शृङ्गाररसगर्भासु कथास्व् अरमतोन्मनाः
हारिहासलसच्छ्वासविलोलालकवल्लरीः । कुमारीः पूजयाम् आस सुवर्णकलशस्तनीः
एवम् अस्य विदुर् भव्या मन्त्रिणो नवनिश्चयम् । इङ्गिताकारवेदित्वम् एव मन्त्रिपदं परम्
अथ तस्य विवाहाय मन्त्रिवर्गो विचारवान् । सुराष्ट्राधिपतिं कन्यां ययाचे यौवनान्विताम्
रूपयौवनसम्पन्नां भार्यात्वे विधिनोत्तमाम् । उपयेमे स ताम् आत्मसदृशीं प्रतिमाम् इव
चूडालेति भुवि ख्याता नाम्ना नृपतिसुन्दरी । सा तं भर्तारम् आसाद्य रेजे फुल्लेव पद्मिनी
नीलनीरजनेत्रां तां चूडालां स शिखिध्वजः । स्नेहाद् विकासयाम् आस शोभयार्क इवाब्जिनीं
अवर्धत तयोः प्रीतिर् अन्योऽन्यार्पितचेतसोः । हावभावविलासाद्यैस् सेकैर् नवलतेव सा
स मन्त्र्यर्पितसर्वार्थस् सुसुखी सुस्थितप्रजः । राजहंस इवाब्जिन्या रेमे दयितया तया
अन्तःपुरेषु दोलासु चन्दनागुरुवीथिषु । मन्दारदामदोलासु कदलीकन्दलीषु च
पुरान्तेषु वनान्तेषु दिगन्तेषु सरस्सु च । जङ्गलेषु दिनान्तेषु जम्बूजम्बीरशालिषु
बभूवाह्लादकं सर्वं तयोर् अन्योऽन्यचेष्टितम् । सद्वर्षणाध्वराचारैर् द्युभूम्योर् इव कान्तयोः
नित्यम् एवावियुक्तत्वात् प्रियत्वाच् चेष्टितस्य च । मिथः कलाकलापस्य कोविदौ तौ बभूवतुः
स्वरूपम् एकम् एवैतौ दधतुर् मिश्रतां गतौ । अन्योऽन्यं हृदयस्थत्वाद् इव सङ्क्रान्तम् अक्षतम्
सर्वशास्त्रादिवैदग्ध्यं चित्राद्य् अपि मुखात् प्रभोः । बाला भाण्डाद् इवागृह्णाद् आसीत् सर्वार्थपण्डिता
नृत्तं वाद्यादि गेयादि चूडालावदनाद् असौ । अशिक्षत बभूवाथ कलानाम् अतिकोविदः
आमावास्याव् इवेन्द्वर्काव् अन्योऽन्यं विलसत्कलौ । मिथो हृदयसंस्थौ तौ द्वाव् अप्य् ऐक्यम् इवास्थितौ
तौ संस्थिताव् एकरसाव् अनन्यदयिताव् उभौ । पुष्पामोदाव् इवाभिन्नौ भूतलस्थौ शिवाव् इव
वैदग्ध्यसुन्दरमती सर्वशास्त्रार्थकोविदौ । क्रीडयेव भुवं प्राप्तौ कमलाकमलाधवौ
स्नेहात् प्रसन्नमधुरौ समविज्ञानवेदिनौ । अनुवृत्तिपराव् आस्तां लोकवृत्तान्ततद्विदौ