तत् तत् पालयितुं राज्यं प्रसादं कर्तुम् अर्हसि । अप्रार्थितोपपन्नानां त्यागो ऽर्थानां तु नोचितः
इति सम्प्रार्थितो राजा तद् अङ्गीकृत्य तद्वचः । सर्वसागरचिह्नायास् स बभूव पतिर् भुवः
समश् शान्तमना मौनी वीतरागो विमत्सरः । कार्यकार्यैककरणरतिर् आहितविस्मयः
पातालतलनष्टानां सागराकारकारिणाम् । पितामहानां गङ्गाम्बु शुश्रावोत्तारणक्षमम्
तदा किल स्वर्गनदी वहति स्म न भूतले । पितॄणां दुर्लभस् सो ऽभूत् तेन गङ्गाजलाञ्जलिः
भगीरथेनाथ महीम् अवतारयितुं दिवः । गङ्गां गृहीतो नियमस् तदा प्रभृति भूभृता
ततो राज्यं परित्यज्य मन्त्रिणां भूपतिश् शमी । तपसे कार्यकार्येहो जगाम गहनं वनम्
तत्र वर्षसहस्रैस् स समाराध्य पुनः पुनः । ब्रह्माणं शङ्करं जह्नुं भुवि गङ्गाम् अयोजयत्
ततः प्रभृत्य् अमलतरङ्गभङ्गिनी जगत्पतेश् शशिविशदाङ्गसङ्गिनी । नभस्तलान् निपतति गां त्रिमार्गगा महात्मनाम् इव बहुपुण्यसन्ततिः
स्फुरत्तरङ्गभङ्गिनी स्वफेनपुञ्जहासिनी प्रसन्नपुण्यमञ्जरी द्रुतेव धर्मसन्ततिः । भगीरथे महीपतौ यशःप्रचारवीथिका तदादि सा त्रिमार्गगा महीतले बभूव ह
एताम् अवष्टभ्य दृशं भगीरथधिया वृताम् । समस् स्वस्थो यथाप्राप्तं कार्यम् आहर शान्तधीः
इदं पूर्वं परित्यज्य क्रोडीकृत्य ततस् स्वयम् । शान्तम् आत्मनि तिष्ठ त्वं शिखिध्वज इवाचलः
को ऽसौ शिखिध्वजो नाम कथं वा लब्धवान् पदम् । एतत् कथय मे ब्रह्मन् भूयो बोधाभिवृद्धये
द्वापरे ऽभवतां पूर्वम् इदानीं च भविष्यतः । तेनैव सन्निवेशेन दम्पती स्निग्धनागरौ
यत् पूर्वम् आसीद् भगवंस् तद् इदानीं तथैव हि । भविष्यति किमर्थं वै वद मे वदतां वर
जगन्निर्माणनियतेर् अस्या ब्राह्म्यास् स्वसंविदः । ईदृश्य् एव स्थितिर् नित्यम् अनिवार्या स्वभावजा
यद् अन्यद् बहुशो भूत्वा पुनर् भवति भूरिशः । अभूत्वैव भवत्य् अन्यत् पुनश् च न भवत्य् अलम्
अन्यत् प्राक्सन्निवेशस्य सादृश्येन स्फुरत्य् अलम् । अन्यत् प्राक्सन्निवेशार्धसादृश्येन विवल्गति
सदृश्यो विषमाश् चैव यथा सरसि वीचयः । ता एवान्याश् च दृश्यन्ते व्यवस्थास् संसृतौ तथा
तस्माद् राघव भूयो ऽपि वक्ष्यमाणो नरेश्वरः । भविष्यति महातेजास् तद्वृत्तान्तम् इमं शृणु
द्वापरे पूर्वम् अभवद् अतीते सप्तमे मनौ । चतुर्युगे चतुर्थे तु सर्गे ऽस्मिन् वारणाकुले
जम्बुद्वीपे प्रशान्तस्य विन्ध्यस्यादूरसंस्थिते । मालवानां पुरे श्रीमाञ् शिखिध्वज इतीश्वरः
धैर्यौदार्यदयायुक्तः क्षमाशमदमान्वितः । शूरश् शुभसमाचारो मानी गुणगणाकरः
आहर्ता सर्वयज्ञानां जेता सर्वधनुष्मताम् । कर्ता सकलकार्याणां भर्तापूर्ववपुर् भुवः
पेशलस् स्निग्धमधुरो विदग्धः प्रीतनागरः । सुन्दरश् शीलसुभगः प्रतापी धर्मवत्सलः
वेदिता विदितार्थानां दाता सकलसम्पदाम् । भोक्ता संसङ्गरहितस् सुश्रोता सकलश्रुतेः
स भोगौघान् अनादृत्य स्त्रैणं तृणवद् उत्सृजन् । पितरि स्वर्गम् आपन्ने बाल एवोत्तमौजसा
कृत्वा षोडशवर्षात्मा कृत्वा दिग्विजयं वशी । नूनं सौराज्यसम्पत्त्या भूमण्डलम् अयोजयत्
अतिष्ठद् विगताशङ्कं पालयन् धर्मतः प्रजाः । धीमान् स मन्त्रिभिस् सार्धं यशसा शुक्लयन् दिशः
अथ गच्छत्सु वर्षेषु वसन्ते प्रोल्लसत्य् अलम् । पुष्पेषु जृम्भमाणेषु स्फुरत्सु शशिरश्मिषु