जागती द्रष्टृदृश्यश्रीर् अहं त्वम् इतिरूपिणी । अनुत्थितैवोत्थितेव यत्रेति परिवर्ण्यते
यस्मिञ् श्रुते जगद् इदं श्रोत्रान्तर् बुध्यते ऽखिलम् । सास्मद्युष्मत् सविस्तारं सलोकाकाशपर्वतम्
पिण्डग्रहविनिर्मुक्तं निर्भित्तिकम् अपर्वतम् । पृथ्व्यादिभूतरहितं सङ्कल्प इव पत्तनम्
स्वप्नोपलब्धभावाभं मनोराज्यवद् आततम् । गन्धर्वनगरप्रख्यम् अर्थशून्योपलम्भनम्
द्विचन्द्रविभ्रमाभासं मृगतृष्णाम्बुवत् ततम् । नौयानलोलशैलाभं सत्यलाभविवर्जितम्
चित्तभ्रमपिशाचाभं निर्बीजम् अपि भास्वरम् । कथार्थप्रतिभानाभं व्योममुक्तावलीनिभम्
कटकत्वं यथा हेम्नि तरङ्गत्वं यथाम्भसि । यथा नभसि नीलत्वम् असद् एवोत्थितं तथा
अभित्ति रङ्गरहितम् उपलब्धिमनोहरम् । स्वप्ने वा व्योम्नि वा चित्रम् अकर्म चिरभासुरम्
अवह्निर् एव वह्नित्वं धत्ते चित्रानलो यथा । तथा दधज् जगच्छब्दरूपार्थम् असदात्मकम्
तरङ्गोत्पलमालाढ्यदृषत्पत्त्रम् इवोत्थितम् । चक्रशूत्कारचूर्णस्य मलराशिम् इवोदितम्
शीर्णपत्त्रं भ्रष्टनष्टं ग्रीष्मे वनम् इवारसम् । मरणव्यग्रनृत्ताभं शिलास्त्रीहास्यहासदम्
अन्धकारगृहैकैकनृत्तम् उन्मत्तचेष्टितम् । प्रशान्ताज्ञाननीहारं विज्ञानशरदम्बरम्
समुत्कीर्णम् इव स्तम्भे चित्रभित्ताव् इवेहितम् । पङ्काद् इवाभिरचितं सचेतनम् अचेतनम्
ततस् स्थितिप्रकरणं चतुर्थं परिकल्पितम् । त्रीणि ग्रन्थसहस्राणि स्वाख्यानाख्यायिकामयम्
इत्थं जगद् अहम्भावरूपं स्थितिम् उपागतम् । द्रष्टृदृश्यक्रमप्रौढम् इत्य् अत्र परिवर्णितम्
दशदिङ्मण्डलाभोगभासुरो ऽयं जगद्भ्रमः । इत्थम् अभ्यागतो वृद्धिम् इति तत्रोच्यते चिरम्
उपशान्तिप्रकरणं ततः पञ्चसहस्रिकम् । पञ्चमं पावनं प्रोक्तं मुनिसन्ततिसुन्दरम्
इदं जगद् अहं त्वं च स इति भ्रान्तिर् उत्थिता । इत्य् असौ शाम्यतीत्य् अस्मिन् कथ्यते श्लोकसङ्ग्रहे
उपशान्तिप्रकरणे श्रुते शाम्यति संसृतिः । प्रस्पष्टा विभ्रमेणैव किञ्चिल्लभ्योपलम्भना
शतांशशिष्टा भवति संशान्तभ्रान्तिरूपिणी । अन्यसङ्कल्पचित्तस्था नगरश्रीर् इवासती
अलभ्यैव स्वपार्श्वस्थस्वप्नयुद्धविराववत् । शान्तसङ्कल्पमत्ताभ्रभीषणाशनिशब्दवत्
विस्मृतस्वप्नसङ्कल्पनिर्माणनगरोपमा । भविष्यन्नगरोद्यानसोत्सवश्यामलाङ्गिका
नश्यज्जिह्वोच्यमानोग्रकथार्थानुभवोपमा । अनुल्लिखितचित्तस्थचित्रव्याप्तेव भित्तिभूः
परिविस्मर्यमाणाच्छकल्पनानगरीनिभा । सर्वर्तुमदनुत्पन्नवरमर्दास्फुटाकृतिः
भाविपुष्पवराकारवसन्तरसरञ्जना । अन्तर्लीनतरङ्गौघसौम्यवारिसरित्समा
निर्वाणाख्यं प्रकरणं ततष् षष्ठम् उदाहृतम् । शिष्टो ग्रन्थः परीमाणं तस्य ज्ञेयं महार्थदम्
बुद्धे तस्मिन् भवेच् छ्रोता निर्वाणश् शान्तकल्पनः । अचेत्यचित्प्रकाशात्मा विज्ञानात्मा निरामयः
परमाकाशकोशाच्छश् शान्तसर्वभवभ्रमः । निर्वाहितजगद्यात्रः कृतकर्तव्यसुस्थितः
समस्तविततारम्भवज्रस्तम्भो नभोनिभः । विनिगीर्णयथासंस्थजगज्जालातितृप्तिमान्
आकाशीभूतनिश्शेषरूपालोकमनस्कृतिः । कार्यकारणकर्तृत्वहेयादेयदशोज्झितः