भ्रमन् द्वीपानि भूपीठे कदाचित् कालयोगतः । भूपेन शत्रुणा प्राप्तं स्वम् एव प्राप तत् पुरम्
तान् एवारींश् च तत्रासौ प्रवाहापतितक्रमम् । पौरांश् च मन्त्रिणश् चैव शमी भिक्षाम् अयाचत
विविदुस् ते ऽरयः पौरा मन्त्रिणश् च भगीरथम् । पूजयाम् आसुर् अथ तं सविषादास् सपर्यया
प्रभो राज्यं गृहाणेति प्रार्थितो ऽप्य् अरिणा मुनिः । नाददे ऽनादृताशेषस् तृणम् अप्य् अशनाद् ऋते
कतिचिद् दिवसांस् तत्र नीत्वान्यत्र जगाम सः । भगीरथो ऽयं हा कष्टम् इति लोकेन शोचितः
अथान्यत्रोपशान्तात्मा परिविश्रान्तधीस् सुखी । आत्मारामः कदाचित् तु स प्राप त्र्युत्तुलं गुरुम्
स्वम् एव स्वागतं कृत्वा तेन सार्धं भगीरथः । कञ्चित् कालम् उवासाद्रौ वने ग्रामे पुरे जने
समताम् उपयातौ तौ गुरुशिष्यौ समौ स्थितौ । कलयाम् आसतुस् स्वस्थौ विनोदं देहधारणम्
किम् अयं धार्यते देहः किम् अनेनोज्झितेन नः । यथाक्रमं यथाचारं तिष्ठत्व् एष यथास्थितम्
इति निश्चित्य तिष्ठन्तौ तौ वनाद् वनगामिनौ । ननन्दतुर् अनानन्दं न सुखं न च मध्यमम्
धनानि नारीर् विभवान् ऐश्वर्यं चाष्टधोदितम् । सिद्धैर् अप्य् अर्पितं तुष्टैर् मेनाते जर्जरं तृणम्
स्वकर्मणैव देहो ऽयं यावदन्तम् अनिच्छया । धारणीय इति स्वेन कर्मणैवाथ तस्थतुः
अभिननन्दतुर् आगतम् उत्तमौ निजसमाचरणक्रमजं मुनी । सुखम् असौख्यम् अपीप्सितवर्जितौ समसमौ खसमौ शमिनौ स्वतः
अथैकदा पुरश्रेष्ठे कस्मिंश्चिन् मण्डलान्तरे । अनपत्यं नृपं मृत्युर् अहरत् स्वम् इवामिषम्
तत्र प्रकृतयः खिन्ना नष्टदेशक्रमा नृपम् । अन्विष्यन्ति स्म संयुक्तं गुणलक्ष्म्या विशालया
ता भगीरथम् आसाद्य स्थितं भिक्षाशनं पुरे । परिज्ञाय समानीय सैन्यं चक्रुर् महीपतिम्
भगीरथः क्षणेनैव प्रावृषीवाम्बुना सरः । धूलितस् सेनया गुर्व्या झगित्य् आरोपितो गजे
भगीरथो जगन्नाथो जयतीति घनारवैः । नीरन्ध्रताम् उपाजग्मुर् गिरीन्द्राणां महागुहाः
तत्र तत् पालयन्तं तं राज्यं राजानम् आदृताः । आजग्मुः प्राक्प्रकृतयः प्राहुर् इत्थं मृताधिपाः
राजन्न् अस्माकम् अधिपो यस् त्वया स पुरा कृतः । मृत्युना विनिगीर्णो ऽसौ मत्स्येनेवामिषं मृदु
तत् तत् पालयितुं राज्यं प्रसादं कर्तुम् अर्हसि । अप्रार्थितोपपन्नानां त्यागो ऽर्थानां तु नोचितः
इति सम्प्रार्थितो राजा तद् अङ्गीकृत्य तद्वचः । सर्वसागरचिह्नायास् स बभूव पतिर् भुवः
समश् शान्तमना मौनी वीतरागो विमत्सरः । कार्यकार्यैककरणरतिर् आहितविस्मयः
पातालतलनष्टानां सागराकारकारिणाम् । पितामहानां गङ्गाम्बु शुश्रावोत्तारणक्षमम्
तदा किल स्वर्गनदी वहति स्म न भूतले । पितॄणां दुर्लभस् सो ऽभूत् तेन गङ्गाजलाञ्जलिः
भगीरथेनाथ महीम् अवतारयितुं दिवः । गङ्गां गृहीतो नियमस् तदा प्रभृति भूभृता
ततो राज्यं परित्यज्य मन्त्रिणां भूपतिश् शमी । तपसे कार्यकार्येहो जगाम गहनं वनम्
तत्र वर्षसहस्रैस् स समाराध्य पुनः पुनः । ब्रह्माणं शङ्करं जह्नुं भुवि गङ्गाम् अयोजयत्
ततः प्रभृत्य् अमलतरङ्गभङ्गिनी जगत्पतेश् शशिविशदाङ्गसङ्गिनी । नभस्तलान् निपतति गां त्रिमार्गगा महात्मनाम् इव बहुपुण्यसन्ततिः
स्फुरत्तरङ्गभङ्गिनी स्वफेनपुञ्जहासिनी प्रसन्नपुण्यमञ्जरी द्रुतेव धर्मसन्ततिः । भगीरथे महीपतौ यशःप्रचारवीथिका तदादि सा त्रिमार्गगा महीतले बभूव ह