एकान्ते चिन्तयाम् आस महीपतिर् असाव् अथ । जगद्यात्राम् इमां नित्यम् असमञ्जससङ्कुलाम्
पुनर् दिनं पुनश् श्यामा दानादानाशनं पुनः । तद् एव शुक्तविरसं लज्ज्यते कर्म कुर्वता
येन प्राप्तेन लोके ऽस्मिन् नाप्राप्तम् अवशिष्यते । तत् कृतं सुकृतं मन्ये शेषं कर्मविषूचिका
पुनः पुनः पर्युषितं कर्म कुर्वन् न लज्जते । मूढबुद्धिर् अमूढस् तु कः कुर्यात् किल बालवत्
अथैकदोद्विग्नमनाः कदाचित् त्र्युत्तुलं गुरुम् । एकान्ते संसृतेर् भीतस् समपृच्छद् भगीरथः
अन्तश्शून्यासु सुचिरं भ्रमन् संसारवृत्तिषु । अरण्यानीष्व् इवैतासु भृशं खिन्ना वयं विभो
जरामरणमोहादिरूपाणां भवकारिणाम् । भगवन् सर्वदुःखानां कथम् अन्तः प्रजायते
चिरसाम्यात्मनाच्छेन निर्विभागविलासिना । राजञ् ज्ञेयावबोधेन पूर्णेन भरितात्मना
क्षीयन्ते सर्वदुःखानि त्रुट्यन्ति ग्रन्थयो ऽभितः । संशयाश् शमम् आयान्ति सर्वकर्माणि चानघ
ज्ञेयं तु विदुर् आत्मानं संशुद्धज्ञप्तिरूपिणम् । स च सर्वगतो नित्यं नास्तम् एति न चोदयम्
चिन्मात्रं सर्वगं शान्तम् अस्ति निर्मलम् अच्युतम् । देहादि नेतरत् किञ्चिद् इति वेद्मि मुनीश्वर
किं त्व् अत्र प्रतिपत्तिर् मे स्फुटताम् एति नोतराम् । एतावन्मात्रसंवित्तिस् स्याम् अहं भगवन् कथम्
ज्ञानेन ज्ञेयनिष्ठत्वम् एति चेतो हृदन्तरे । ततस् सर्ववपुर् भूत्वा भूयो जीवो न जायते
असक्तिर् अनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु
आत्मनो ऽनन्ययोगेन सद्भावनम् अनारतम् । विविक्तदेशसेवित्वम् अरतिर् जनसंसदि
अध्यात्मज्ञाननिष्ठत्वं तत्त्वज्ञानार्थदर्शनम् । एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा
रागद्वेषक्षयाकारात् संसारव्याधिभेषजात् । अहम्भावोपशान्तौ तु राजञ् ज्ञानम् अवाप्यते
शरीरे ऽस्मिंश् चिरं रूढो गिरौ तरुर् इवोच्चकैः । अहम्भावो महाभोगो वद मे त्यज्यते कथम्
पौरुषेण प्रयत्नेन त्यक्त्वा भोगौघभावनम् । गत्वान्विष्य चिता तत्त्वम् अहङ्कारो विलीयते
यन्त्राणां पञ्जरं यावद् भग्नं लज्जादि नाखिलम् । अकिञ्चनत्वशेषेण स्फुटा तावद् अहङ्कृतिः
सर्वम् एव धियस् त्यक्त्वा यदि तिष्ठसि निश्चलः । तद् अहङ्कारविलयी त्वम् एव परमं पदम्
शान्ताशेषविशेषणो विगतभीस् सन्त्यक्तसर्वैषणो गत्वा नूनम् अकिञ्चनत्वम् अरिषु त्यक्त्वा समग्रां श्रियम् । शान्ताहङ्कृतिर् अस्तदेहकलनस् तेष्व् एव भिक्षाम् अटन् माम् अप्य् उज्झितवान् अलं यदि भवस्य् उच्चैस् तद् उच्चैर् असि
अथ तस्य गुरोर् वक्त्राद् इत्य् आकर्ण्य भगीरथः । मनस्य् आहितकर्तव्यस् स्वव्यापारपरो ऽभवत्
ततः कतिपयेष्व् एव वासरेषु गतेष्व् असौ । अग्निष्टोममखं चक्रे सर्वत्यागैकसिद्धये
गोभूम्यश्वहिरण्यादि ददौ धनम् अशेषतः । द्विजदेवार्तबन्धुभ्यो गुण्यगुण्यविचारवान्
दिवसत्रयमात्रेण सर्वम् एवं परित्यजन् । स्ववस्त्रमात्रशेषो ऽसाव् आसीद् राजा भगीरथः
अथ सर्वार्थरिक्तं तं खिन्नप्रकृतिपौरकम् । सीमान्तिने तृणम् इव राज्यं स्वम् अरये ददौ
आक्रान्ते द्विषता राज्ये पुरे सद्मनि मण्डले । अधोवासोऽवशेषो ऽसौ निर्जगाम स्वमण्डलात्
यत्र न ज्ञायते नाम्ना यत्र न ज्ञायते मुखात् । तत्र ग्रामेष्व् अरण्येषु दूरेषूवास धैर्यवान्
इत्य् अल्पेनैव कालेन प्रशान्तसकलैषणः । परमेण शमेनासौ प्राप विश्रान्तिम् आत्मनि