वज्रसारम् अपि प्रोतम् अज्वलन्न् एव यो ऽभिनत् । अयोमणिर् अयोयन्त्रम् इव दुर्जनचेष्टितम्
अधूमो ह्य् अदहञ् शीतो वितैक्ष्ण्यो हार्दम् अप्य् अलम् । तमो ऽहरन् नृणां नैशं यो मणिर् वेश्मनाम् इव
किरन्न् अग्निकणासारम् अभितस् स्वप्रतापजम् । मध्याह्नसूर्यकान्ताग्निर् इव ज्वलति यो ऽरिषु
मृदुशीतसुखस्पर्शो यस् समाह्लादयन् महीम् । स्वे जने द्रवति स्निग्धस् सेन्दुर् इन्दुमणिर् यथा
जगद्यज्ञोपवीतस्य स्वर्गपातालवाहिनः । गङ्गावाहस्य येनोर्व्यां तृतीयः पूरितो गुणः
अगस्त्यशोषितो ऽम्भोधिर् गङ्गापूरेण पूरितः । येन दुष्पूररूपो ऽपि महासार्थो ऽर्थिनाम् इव
गङ्गासोपानपद्धत्या येन पातालवासिनः । योजिता ब्रह्मणो लोके बान्धवा लोकबन्धुना
ब्रह्माणं शङ्करं जह्नुं तपसाराधयंश् च यः । भूयो भूयो ययौ खेदं न मूर्तव्यवसायवत्
यौवने वर्तमानस्य तस्य भूमिपतेर् अथ । प्रविचारयतो लोकयात्रां पर्याकुलाम् इमाम्
स्वविरागचमत्कारविचारकणिकोदभूत् । चेतस्य् अपि सुतारुण्ये दैवाद् वल्ली मराव् इव
एकान्ते चिन्तयाम् आस महीपतिर् असाव् अथ । जगद्यात्राम् इमां नित्यम् असमञ्जससङ्कुलाम्
पुनर् दिनं पुनश् श्यामा दानादानाशनं पुनः । तद् एव शुक्तविरसं लज्ज्यते कर्म कुर्वता
येन प्राप्तेन लोके ऽस्मिन् नाप्राप्तम् अवशिष्यते । तत् कृतं सुकृतं मन्ये शेषं कर्मविषूचिका
पुनः पुनः पर्युषितं कर्म कुर्वन् न लज्जते । मूढबुद्धिर् अमूढस् तु कः कुर्यात् किल बालवत्
अथैकदोद्विग्नमनाः कदाचित् त्र्युत्तुलं गुरुम् । एकान्ते संसृतेर् भीतस् समपृच्छद् भगीरथः
अन्तश्शून्यासु सुचिरं भ्रमन् संसारवृत्तिषु । अरण्यानीष्व् इवैतासु भृशं खिन्ना वयं विभो
जरामरणमोहादिरूपाणां भवकारिणाम् । भगवन् सर्वदुःखानां कथम् अन्तः प्रजायते
चिरसाम्यात्मनाच्छेन निर्विभागविलासिना । राजञ् ज्ञेयावबोधेन पूर्णेन भरितात्मना
क्षीयन्ते सर्वदुःखानि त्रुट्यन्ति ग्रन्थयो ऽभितः । संशयाश् शमम् आयान्ति सर्वकर्माणि चानघ
ज्ञेयं तु विदुर् आत्मानं संशुद्धज्ञप्तिरूपिणम् । स च सर्वगतो नित्यं नास्तम् एति न चोदयम्
चिन्मात्रं सर्वगं शान्तम् अस्ति निर्मलम् अच्युतम् । देहादि नेतरत् किञ्चिद् इति वेद्मि मुनीश्वर
किं त्व् अत्र प्रतिपत्तिर् मे स्फुटताम् एति नोतराम् । एतावन्मात्रसंवित्तिस् स्याम् अहं भगवन् कथम्
ज्ञानेन ज्ञेयनिष्ठत्वम् एति चेतो हृदन्तरे । ततस् सर्ववपुर् भूत्वा भूयो जीवो न जायते
असक्तिर् अनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु
आत्मनो ऽनन्ययोगेन सद्भावनम् अनारतम् । विविक्तदेशसेवित्वम् अरतिर् जनसंसदि
अध्यात्मज्ञाननिष्ठत्वं तत्त्वज्ञानार्थदर्शनम् । एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा
रागद्वेषक्षयाकारात् संसारव्याधिभेषजात् । अहम्भावोपशान्तौ तु राजञ् ज्ञानम् अवाप्यते
शरीरे ऽस्मिंश् चिरं रूढो गिरौ तरुर् इवोच्चकैः । अहम्भावो महाभोगो वद मे त्यज्यते कथम्
पौरुषेण प्रयत्नेन त्यक्त्वा भोगौघभावनम् । गत्वान्विष्य चिता तत्त्वम् अहङ्कारो विलीयते
यन्त्राणां पञ्जरं यावद् भग्नं लज्जादि नाखिलम् । अकिञ्चनत्वशेषेण स्फुटा तावद् अहङ्कृतिः