एतद् राम मयोक्तं ते वेतालप्रश्नजालकम् । एवंक्रमेण चिदणाव् एवेदं संस्थितं जगत्
चिदणोः कोशगं विश्वं विचारेण विलीयते । कोपो वेतालकस्येव शिष्यते यत् परं तु तत्
संहृत्य सर्वतश् चित्तं स्तिमितेनान्तरात्मना । प्रवाहापतितं कुर्वन् निरिच्छस् तिष्ठ शान्तधीः
आकाशविशदं कृत्वा मनसैव मनो मुनिः । तिष्ठैकशमशान्तात्मा व्योमवद्विशदाशयः
स्थिरबुद्धेर् अमूढस्य यथाप्राप्तानुवर्तिनः । राज्ञो भगीरथस्येव दुस्साधम् अपि सिध्यति
सम्पूर्णशान्तमनसः परितृप्तवृत्तेर् नित्यं समे सुसमम् आत्मनि तिष्ठतो ऽन्तः । सिध्यन्ति दुर्लभतरा अपि वाञ्छितार्था गङ्गावतार इव सागरखातृनप्तुः
यथा चित्तचमत्कृत्या राज्ञो गङ्गावतारणम् । भगीरथस्य सम्पन्नं तन् मे कथय भोः प्रभो
आसीद् भगीरथो नाम राजा परमधार्मिकः । भुवस् समुद्रद्वीपाया मण्डनातिलकोपमः
सङ्कल्पानन्तरं प्रापुर् यथाभिमतम् अर्थिनः । चन्द्रप्रसन्नवदनाद् यस्माच् चिन्तामणेर् इव
साधूनां यो व्यवस्थार्थं धनान्य् अविरतं ददौ । तृणमात्रम् उपादत्ते करं तृणमणिर् यथा
वज्रसारम् अपि प्रोतम् अज्वलन्न् एव यो ऽभिनत् । अयोमणिर् अयोयन्त्रम् इव दुर्जनचेष्टितम्
अधूमो ह्य् अदहञ् शीतो वितैक्ष्ण्यो हार्दम् अप्य् अलम् । तमो ऽहरन् नृणां नैशं यो मणिर् वेश्मनाम् इव
किरन्न् अग्निकणासारम् अभितस् स्वप्रतापजम् । मध्याह्नसूर्यकान्ताग्निर् इव ज्वलति यो ऽरिषु
मृदुशीतसुखस्पर्शो यस् समाह्लादयन् महीम् । स्वे जने द्रवति स्निग्धस् सेन्दुर् इन्दुमणिर् यथा
जगद्यज्ञोपवीतस्य स्वर्गपातालवाहिनः । गङ्गावाहस्य येनोर्व्यां तृतीयः पूरितो गुणः
अगस्त्यशोषितो ऽम्भोधिर् गङ्गापूरेण पूरितः । येन दुष्पूररूपो ऽपि महासार्थो ऽर्थिनाम् इव
गङ्गासोपानपद्धत्या येन पातालवासिनः । योजिता ब्रह्मणो लोके बान्धवा लोकबन्धुना
ब्रह्माणं शङ्करं जह्नुं तपसाराधयंश् च यः । भूयो भूयो ययौ खेदं न मूर्तव्यवसायवत्
यौवने वर्तमानस्य तस्य भूमिपतेर् अथ । प्रविचारयतो लोकयात्रां पर्याकुलाम् इमाम्
स्वविरागचमत्कारविचारकणिकोदभूत् । चेतस्य् अपि सुतारुण्ये दैवाद् वल्ली मराव् इव
एकान्ते चिन्तयाम् आस महीपतिर् असाव् अथ । जगद्यात्राम् इमां नित्यम् असमञ्जससङ्कुलाम्
पुनर् दिनं पुनश् श्यामा दानादानाशनं पुनः । तद् एव शुक्तविरसं लज्ज्यते कर्म कुर्वता
येन प्राप्तेन लोके ऽस्मिन् नाप्राप्तम् अवशिष्यते । तत् कृतं सुकृतं मन्ये शेषं कर्मविषूचिका
पुनः पुनः पर्युषितं कर्म कुर्वन् न लज्जते । मूढबुद्धिर् अमूढस् तु कः कुर्यात् किल बालवत्
अथैकदोद्विग्नमनाः कदाचित् त्र्युत्तुलं गुरुम् । एकान्ते संसृतेर् भीतस् समपृच्छद् भगीरथः
अन्तश्शून्यासु सुचिरं भ्रमन् संसारवृत्तिषु । अरण्यानीष्व् इवैतासु भृशं खिन्ना वयं विभो
जरामरणमोहादिरूपाणां भवकारिणाम् । भगवन् सर्वदुःखानां कथम् अन्तः प्रजायते
चिरसाम्यात्मनाच्छेन निर्विभागविलासिना । राजञ् ज्ञेयावबोधेन पूर्णेन भरितात्मना
क्षीयन्ते सर्वदुःखानि त्रुट्यन्ति ग्रन्थयो ऽभितः । संशयाश् शमम् आयान्ति सर्वकर्माणि चानघ
ज्ञेयं तु विदुर् आत्मानं संशुद्धज्ञप्तिरूपिणम् । स च सर्वगतो नित्यं नास्तम् एति न चोदयम्