तादृशानां सहस्राणि शैलानां यत्र सन्त्य् अथ । तादृशो ऽस्त्य् अतिविस्तीर्णो देशो विपुलकोटरः
तादृशानां सहस्राणि देशानां यत्र सन्त्य् अथ । तादृग् अस्ति बृहद् द्वीपं महाह्रदनदीवृतम्
तादृशानां सहस्राणि द्वीपानां यत्र सन्त्य् अथ । तादृग् अस्ति महीपीठं विचित्ररचनान्वितम्
तादृशीनां सहस्राणि पृथ्वीनां यत्र सन्त्य् अथ । तादृग् अस्ति जगत् स्फारं महाभुवनपञ्जरम्
तादृशानां सहस्राणि जगतां यत्र सन्त्य् अथ । तादृग् अस्ति महच् चाण्डं चण्डाडम्बरपीठवत्
तादृशानां सहस्राणि यत्राण्डाणां तरङ्गकः । तादृशो ऽविरतस्पन्दो विपुलो ऽस्त्य् अथ सागरः
तादृक्सागरलक्ष्याणि तरङ्गो यत्र पेलवः । तादृशस् स्वविलासात्मा निर्मलो ऽस्ति महार्णवः
तादृंश्य् अब्धिसहस्राणि यस्योदरजलान्य् अथ । तादृशो ऽस्ति पुमान् कश्चिद् अत्युच्चैर् भरिताकृतिः
तादृशानां नृणां लक्षैर् यस्य मालोरसि स्थिता । प्रधानं सर्वसत्तानां तादृशो ऽस्त्य् अपरः पुमान्
तादृशानां सहस्राणि पुरुषाणां महात्मनाम् । स्फुरन्ति मण्डले यस्य स्वतनूरुहजालवत्
तादृशो ऽस्ति महादित्यस् स तपत्य् आसु दृष्टिषु । या एताः कलनास् सर्वास् ता एतास् तस्य दीप्तयः
अस्यादित्यस्य रश्मीनां ब्रह्माण्डं त्रसरेणुवत् । एष चित्सूर्य इत्य् उक्तस् सर्वम् एतत् तपत्य् असौ
विज्ञानात्मैष परमो भास्करो भाविभासनः । इमे ये भुवनाभोगास् तस्यैव त्रसरेणवः
विज्ञानपरमार्कस्य भासा भान्ति भवन्ति च । इमा जगदहर्लक्ष्म्यस् त्व् अहर्लक्ष्म्यो रवेर् इव
विज्ञानमात्रकचितात्मनि जन्तुजाते त्रैलोक्यमण्डपगणे च विकासभाजि । निर्मज्जनोद्भवनसम्भ्रमभावलेखास् सन्तीव नेह हि मनाग् अपि शान्तम् आस्स्व
कालसत्ता नभस्सत्ता स्पन्दसत्ता च चिन्मयी । शुद्धचेतनसत्ताथ सर्वम् इत्यादि पावनम्
परमात्ममहावायौ रजस् स्फुरति चञ्चलम् । कुसुमान्तर् इवामोदस् तदतद्रूपकं स्वतः
जगदाख्ये महास्वप्ने स्वप्नात् स्वप्नान्तरं व्रजेत् । रूपं त्यजति नो शान्तं ब्रह्म शान्तत्वबृंहितम्
सङ्कल्पपरिबृंहेयम् अनन्तस्फुरणा स्वतः । यथा यथाभिबृंहाभिर् बृंहत्य् आबृंहिता तथा
सङ्कल्पश् च पराद् अस्मान् मनाग् अपि न भिद्यते । चिन्मयत्वात् ततः किञ्चिन् न बृंहास्ति न बृंहणम्
रम्भास्तम्भो यथा पत्त्रमात्रम् एवान्तरान्तरा । अन्तर् अन्तस् तथेदं हि विश्वं ब्रह्म विवर्त्य् अथ
सब्रह्मात्मादिभिश् शब्दैर् यद् एतैर् अभिधीयते । शून्यम् अव्यपदेश्यं तन् न नकिञ्चिन् न किञ्चन
या या विभाव्यते सत्ता सा सानुभवनिर्मिता । रम्भास्तम्भवद् एवातश् चिन्मात्रम् अमलं ततम्
सूक्ष्मत्वाद् अप्य् अलभ्यत्वात् परमात्मा परो ऽणुकः । अनन्तत्वाद् असाव् एव प्रोक्तो मेर्वादिधूलिमान्
अणोर् अप्य् अत्यनन्तस्य पुरो ऽस्य जगदाद्य् अपि । परमाणुवद् आभाति प्रमितत्वाद् अरूपवत्
परो ऽणुर् एषो ऽलभ्यत्वात् पूरकत्वान् महागिरिः । सर्वावयवरूपो ऽपि निरस्तावयवः पुमान्
अस्य विज्ञप्तिमात्रस्य मज्जामात्रं जगत्त्रयी । विज्ञानमात्रमध्यं हि साधो विद्धि जगत्त्रयम्
विज्ञानमात्रम् अकलाकलितं जगन्ति शान्तं स्वभावसुकुमारम् अनन्तरूपम् । वेतालबालक पदं तद् अलङ्घनीयम् एवंस्मयस् समनुभावय शान्तम् आस्स्व
इति राजमुखाच् छ्रुत्वा वेतालश् शान्तिम् आययौ । भावितात्मतया तत्र विचारोदितया धिया
उपशान्तवपुर् भूत्वा गत्वैकान्तम् अनिन्दितः । बभूवाविचलध्यानी विस्मृत्य विषमां क्षुधम्