तेषां नान्यश् च काकुत्स्थाद् योद्धुम् उत्सहते पुमान् । ऋते केसरिणः क्रुद्धान् मत्तानां करिणाम् इव
वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे । खरदूषणयोर् भृत्याः कृतान्ताः कुपिता इव
रामस्य राजशार्दूल सहिष्यन्ते न सायकान् । अनारतागता धारा जलदस्येव पांसवः
न च पुत्रगतं स्नेहं कर्तुम् अर्हसि पार्थिव । न तद् अस्ति जगत्य् अस्मिन् यन् न देयं महात्मनः
हन्त नूनं विजानामि हतांस् तान् विद्धि राक्षसान् । न ह्य् अस्मदादयः प्राज्ञास् सन्दिग्धे सम्प्रवृत्तयः
अहं वेद्मि महात्मानं रामं राजीवलोचनम् । वसिष्ठश् च महातेजा ये चान्ये दीर्घदर्शिनः
यदि धर्मो महत्त्वं च यशस् ते मनसि स्थितम् । तन् मह्यं स्वम् अभिप्रेतम् आत्मजं दातुम् अर्हसि
दशरात्रश् च मे यज्ञो यस्मिन् रामेण राक्षसाः । हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः
अत्राभ्यनुज्ञां काकुत्स्थ ददतां तव मन्त्रिणः । वसिष्ठप्रमुखास् सर्वे तेन रामं विसर्जय
नात्येति कालः कालज्ञ यथायं मम राघव । तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः
कार्यम् अण्व् अपि काले तु कृतम् एत्य् उपकारताम् । महद् अप्य् उपकारेण रिक्तताम् एत्य् अकालतः
इत्य् एवम् उक्त्वा धर्मात्मा धर्मार्थसहितं वचः । विरराम महातेजा विश्वामित्रो मुनीश्वरः
श्रुत्वा वचो मुनिवरस्य महाप्रभावस् तूष्णीम् अतिष्ठद् उपपन्नम् इदं स वक्तुम् । नो युक्तियुक्तकथनेन विनैति तोषं धीमान् अपूरितमनोऽभिमतश् च लोकः
तच् छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् । मुहूर्तम् आसीन् निश्चेष्टस् सदैन्यं चेदम् अब्रवीत्
ऊनषोडशवर्षो ऽयं रामो राजीवलोचनः । न युद्धयोग्यताम् अस्य पश्यामि सह राक्षसैः
इयम् अक्षौहिणी पूर्णा यस्याः पतिर् अहं प्रभो । तया परिवृतो युद्धं दास्यामि पिशिताशिनाम्
इमे हि शूरा विक्रान्ता भृत्या अस्त्रविशारदाः । अहं चैषां धनुष्पाणिर् गोप्ता समरमूर्धनि
एभिस् सह तवारीणां महेन्द्रमहताम् अपि । ददामि युद्धं मत्तानां करिणाम् इव केसरी
बालो रामस् त्व् अनीकेषु न जानाति बलाबलम् । अन्तःपुराद् ऋते दृष्टा नानेनान्या रणावनिः
न चास्त्रैः परमैर् युक्तो न च युद्धविशारदः । न भटभ्रूकुटीनां च तज्ज्ञस् समरमूर्धसु
केवलं पुष्पषण्डेषु नगरोपवनेषु च । उद्यानवनकुञ्जेषु सदैव परिशीलितः
विहर्तुम् एष जानाति सह राजकुमारकैः । कीर्णपुष्पोपकारासु स्वकास्व् अजिरभूमिषु
अद्य त्व् अतितरां ब्रह्मन् मम भाग्यविपर्ययात् । हिमेनेवाहतः पद्मस् सम्पन्नो हरितः कृशः
नात्तुम् अन्नानि शक्नोति न विहर्तुं गृहावनौ । अन्तःखेदपरीतात्मा तूष्णीं तिष्ठति केवलम्
सदारस् सहभृत्यो ऽहं तत्कृते मुनिनायक । शरदीव पयोवाहो नूनं निस्सहतां गतः
ईदृशो ऽसौ सुतो बाल आधिना विवशीकृतः । कथं ददामि तं तुभ्यं योद्धुं सह निशाचरैः
अपि बालाङ्गनासङ्गाद् अपि साधो सुधारसात् । राज्याद् अपि सुखायैष पुत्रस्नेहो महामते
ये दुरन्ता महारम्भास् त्रिषु लोकेषु खेददाः । पुत्रस्नेहेन सन्तो ऽपि कुर्वते ते न संश्रयम्
असवो ऽथ धनं दारास् त्यज्यन्ते मानवैस् सुखम् । न पुत्रा मुनिशार्दूल स्वभावो ह्य् एष जन्तुषु
राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः । रामस् तान् योधयत्व् इत्थम् उक्तिर् एवातिदुस्सहा