निर्निमित्तं निरागस्कं न तेनासौ पुरोगतम् । क्षुधितो ऽपि नरं हन्ति सङ्गो हि न्यायदैशिकः
स कालेनाटवीगेहो जगाम नगरान्तरम् । न्याययुक्त्या जनं भोक्तुं क्षुधा समभिचोदितः
तत्र प्राप स भूपालं रात्रिचर्याविनिर्गतम् । तम् आह घनघोरेण शब्देनोग्रनिशाचरः
राजंल् लब्धो ऽसि भीमेन वेतालेन मयाधुना । क्व गच्छसि विनष्टो ऽसि भवान् भोजनम् अद्य मे
भो रात्रिचर निर्न्यायं मां चेद् अत्सि बलाद् इह । तत् ते सहस्रधा मूर्धा स्फुटिष्यति न संशयः
न त्वाम् अद्म्य् अहम् अन्यायं न्यायो ऽयं तु मयोच्यते । राजासि सकलाशाश् च पूरणीयास् त्वयार्थिनाम्
ममेमाम् अर्थितां राजन् सम्भवार्थं प्रपूरय । प्रश्नान् इमान् मयोक्तांस् त्वं सम्यग् व्याख्यातुम् अर्हसि
कस्य सूर्यस्य रश्मीनां ब्रह्माण्डान्य् अणवः कृशाः । कस्मिन् स्फुरन्ति पवने महागगनरेणवः
स्वप्नात् स्वप्नान्तरं गच्छञ् शतशो ऽथ सहस्रशः । त्यजन् न त्यजति स्वच्छं कस् स्वरूपं प्रभासुरम्
रम्भास्तम्भो यथा पत्त्रमात्रम् एव पुनः पुनः । अन्तर् अन्तस् तथान्तश् च तथा को ऽणुस् स एव हि
ब्रह्माण्डाकाशभूतौघसूर्यमण्डलमेरवः । अपरित्यजतो ऽणुत्वं कस्याणोः परमाणवः
कस्यानवयवस्यैव परमाणुमहागिरेः । शिलान्तर् निबिडैकान्तरूपो मज्जा जगत्त्रयी
इति कथयसि चेन् न मे दुरात्मंस् तद् इह निगीर्य भवन्तम् आत्मघातिन् । फलम् इव तव मण्डलं ग्रसेयं प्रसभम् उपेत्य जगद् यथा कृतान्तः
इत्य् उक्तवति वेताले वक्तुं प्रश्नान् विहस्य सः । उवाच वचनं राजा दन्तांशुधवलाननः
अस्ति चित्तिक्ततात्मेदं ब्रह्माण्डमरिचं फलम् । उत्तरोत्तरसंवृत्तभूतत्वक्परिवेष्टितम्
तादृशानां सहस्राणि फलानां यत्र सन्ति हि । अस्त्य् उच्चैस् तादृशी शाखा विपुला चलपल्लवा
तादृशीनां सहस्राणि शाखानां यत्र सन्त्य् अथ । तादृशो ऽस्ति महावृक्षो दुर्लक्ष्यो विपुलाकृतिः
यत्र सन्ति सहस्राणि तादृशानां महीरुहाम् । तादृशं वनम् अस्त्य् उच्चैर् अनन्ततरुगुल्मकम्
तादृशानां सहस्राणि वनानां यत्र सन्त्य् अथ । तादृग् अस्ति बृहच् छृङ्गम् अत्युच्चैर् भरिताकृति
तादृशानां सहस्राणि शृङ्गाणां यत्र सन्त्य् अथ । तादृशो ऽस्ति महाशैलः पूरिताखिलदिक्तटः
तादृशानां सहस्राणि शैलानां यत्र सन्त्य् अथ । तादृशो ऽस्त्य् अतिविस्तीर्णो देशो विपुलकोटरः
तादृशानां सहस्राणि देशानां यत्र सन्त्य् अथ । तादृग् अस्ति बृहद् द्वीपं महाह्रदनदीवृतम्
तादृशानां सहस्राणि द्वीपानां यत्र सन्त्य् अथ । तादृग् अस्ति महीपीठं विचित्ररचनान्वितम्
तादृशीनां सहस्राणि पृथ्वीनां यत्र सन्त्य् अथ । तादृग् अस्ति जगत् स्फारं महाभुवनपञ्जरम्
तादृशानां सहस्राणि जगतां यत्र सन्त्य् अथ । तादृग् अस्ति महच् चाण्डं चण्डाडम्बरपीठवत्
तादृशानां सहस्राणि यत्राण्डाणां तरङ्गकः । तादृशो ऽविरतस्पन्दो विपुलो ऽस्त्य् अथ सागरः
तादृक्सागरलक्ष्याणि तरङ्गो यत्र पेलवः । तादृशस् स्वविलासात्मा निर्मलो ऽस्ति महार्णवः
तादृंश्य् अब्धिसहस्राणि यस्योदरजलान्य् अथ । तादृशो ऽस्ति पुमान् कश्चिद् अत्युच्चैर् भरिताकृतिः
तादृशानां नृणां लक्षैर् यस्य मालोरसि स्थिता । प्रधानं सर्वसत्तानां तादृशो ऽस्त्य् अपरः पुमान्
तादृशानां सहस्राणि पुरुषाणां महात्मनाम् । स्फुरन्ति मण्डले यस्य स्वतनूरुहजालवत्