आधाराधेयवत् त्व् एते एकाभावे विनश्यतः । कुरुतश् च स्वनाशेन कार्यं मोक्षाख्यम् उत्तमम्
एकतत्त्वघनाभ्यासाच् छान्तं शाम्यत्य् अलं मनः । तल्लयत्वात् स्वभावस्य तेन प्राणो ऽपि शाम्यति
विचार्य यद् अनन्तात्मतत्त्वं तन्मयतां नयेत् । मनस् ततस् तल्लयतस् तद् एव भवति स्थिरम्
यद् एवातितरां श्रेयो ऽनुपलम्भोपलम्भयोः । द्वयोर् अप्य् असतोस् तत्र शेषे वापि स्थिरो भव
एकस्मिन् सुदृढे तत्त्वे तावद् भावं विभावयेत् । भावो ऽभावत्वम् आयाति स्वाभ्यासाद् यावद् आततम्
प्रत्याहारवशाच् चेतस् स्वयं भोग्यक्षयाद् इव । विलीयते सह प्राणैः परम् एवावशिष्यते
यदेकतानं भवति चेतस् तद् भवति क्षणात् । शान्ताशेषविशेषौघं चिराभ्यासस्वभावतः
अविद्येयं तु नास्तीति बुद्ध्वा युक्तियुतं धिया । ज्ञानाद् एव परावाप्तिस् तदभ्यासस् ततो वरम्
चित्ते शान्ते शाम्यतीयं संसारमृगतृष्णिका । जराम् उपगते मेघे मिहिका महती यथा
चित्तमात्रम् अविद्येति कुरु तेनैव तत्क्षयम् । तद्रूपनाम चित्तात्मानुभावो हि परं पदम्
मुहूर्तम् एव निर्वाणं यदि चेतः परे पदे । तत् तत्परिणतं विद्धि तत्रैवास्वादम् आगतम्
यदि साङ्ख्येन विश्रान्तं चेतो योगेन वा पदे । क्षणं तत् सत्त्वतां यातं न भूयः परिजायते
चेतो विगलिताविद्यं सत्त्वशब्देन कथ्यते । दग्धं संसारबीजं तन् न दद्याद् अङ्कुरं पुनः
ज्ञश् चिद्विगलिताविद्यस् सत्त्वस्थश् शान्तवासनः । समं शून्योपमं शान्तं ज्योतिः पश्यति शाम्यति
विगलिताज्ञपदं विमलं मनस् सुभग सत्त्वम् इतीह हि कथ्यते । न पुनर् एति कलामलिनं पदं कनकताम् इव ताम्रम् उपागतम्
जीवो ऽजीवीभवत्य् आशु याति चित्तम् अचित्तताम् । विचाराद् इत्य् अविद्यान्तो मोक्ष इत्य् अभिधीयते
मृगतृष्णाजलम् इव सर्गो ऽहन्तादि दृश्यते । असद् एव मनाग् एव तद् विचारात् प्रलीयते
संसृतिस्वप्नविश्रान्तौ वेतालोदाहृतान् इमान् । प्रश्नान् आकर्णय शुभान् प्रसङ्गात् स्मृतिम् आगतान्
अस्ति विन्ध्यमहाटव्यां वेतालो विपुलाकृतिः । स किञ्चिन् मण्डलं गर्धाद् आजगाम जिघत्सया
स वेतालो ऽवसत् पूर्वं कस्मिंश्चित् सज्जनास्पदे । बहुबल्युपहारेण नित्यतृप्ततया सुखी
निर्निमित्तं निरागस्कं न तेनासौ पुरोगतम् । क्षुधितो ऽपि नरं हन्ति सङ्गो हि न्यायदैशिकः
स कालेनाटवीगेहो जगाम नगरान्तरम् । न्याययुक्त्या जनं भोक्तुं क्षुधा समभिचोदितः
तत्र प्राप स भूपालं रात्रिचर्याविनिर्गतम् । तम् आह घनघोरेण शब्देनोग्रनिशाचरः
राजंल् लब्धो ऽसि भीमेन वेतालेन मयाधुना । क्व गच्छसि विनष्टो ऽसि भवान् भोजनम् अद्य मे
भो रात्रिचर निर्न्यायं मां चेद् अत्सि बलाद् इह । तत् ते सहस्रधा मूर्धा स्फुटिष्यति न संशयः
न त्वाम् अद्म्य् अहम् अन्यायं न्यायो ऽयं तु मयोच्यते । राजासि सकलाशाश् च पूरणीयास् त्वयार्थिनाम्
ममेमाम् अर्थितां राजन् सम्भवार्थं प्रपूरय । प्रश्नान् इमान् मयोक्तांस् त्वं सम्यग् व्याख्यातुम् अर्हसि
कस्य सूर्यस्य रश्मीनां ब्रह्माण्डान्य् अणवः कृशाः । कस्मिन् स्फुरन्ति पवने महागगनरेणवः
स्वप्नात् स्वप्नान्तरं गच्छञ् शतशो ऽथ सहस्रशः । त्यजन् न त्यजति स्वच्छं कस् स्वरूपं प्रभासुरम्
रम्भास्तम्भो यथा पत्त्रमात्रम् एव पुनः पुनः । अन्तर् अन्तस् तथान्तश् च तथा को ऽणुस् स एव हि