ततो न पश्यति मनः प्रशान्तं देहतां पुनः । स्वनाशेन पदं प्राप्तं वासनैव मनो विदुः
चेतो हि वासनामात्रं तदभावः परं पदम् । तच् च सम्पद्यते ज्ञानाज् ज्ञानम् आहुर् विचारणम्
इत्य् अस्यास् संसृते राम पर्यन्तस् सम्प्रवर्तते । स्वयं विवेकमात्रेण रज्जुसर्पभ्रमाकृतेः
एकार्थाभ्यसनप्राणरोधचेतःपरिक्षयाः । एकस्मिन्न् एव संसिद्धे संसिध्यन्ति परस्परम्
तालवृन्तपरिस्पन्दे शान्ते शान्तो यथानिलः । प्राणानिलपरिस्पन्दे शान्ते शान्तं तथा मनः
प्राणाश् शरीरविलये प्रयान्ति व्योमवायुताम् । यथावासितम् एवेदं मनः पश्यन्ति तत्र च
यथा विदेहाः पश्यन्ति प्राणा व्योमनि देहकम् । समनस्कास् तथाचारं सर्वं चानुभवन्ति ते
शान्ते वातपरिस्पन्दे यथा गन्धः प्रशाम्यति । तथा शान्ते मनस्स्पन्दे शाम्यन्ति प्राणवायवः
अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी । कुसुमामोदवन् मिश्रे तिलतैले इव स्थिते
मनसस् स्पन्दनं प्राणः प्राणस्य स्पन्दनं मनः । एते विहरतो नित्यम् अन्योऽन्यं रथसारथी
आधाराधेयवत् त्व् एते एकाभावे विनश्यतः । कुरुतश् च स्वनाशेन कार्यं मोक्षाख्यम् उत्तमम्
एकतत्त्वघनाभ्यासाच् छान्तं शाम्यत्य् अलं मनः । तल्लयत्वात् स्वभावस्य तेन प्राणो ऽपि शाम्यति
विचार्य यद् अनन्तात्मतत्त्वं तन्मयतां नयेत् । मनस् ततस् तल्लयतस् तद् एव भवति स्थिरम्
यद् एवातितरां श्रेयो ऽनुपलम्भोपलम्भयोः । द्वयोर् अप्य् असतोस् तत्र शेषे वापि स्थिरो भव
एकस्मिन् सुदृढे तत्त्वे तावद् भावं विभावयेत् । भावो ऽभावत्वम् आयाति स्वाभ्यासाद् यावद् आततम्
प्रत्याहारवशाच् चेतस् स्वयं भोग्यक्षयाद् इव । विलीयते सह प्राणैः परम् एवावशिष्यते
यदेकतानं भवति चेतस् तद् भवति क्षणात् । शान्ताशेषविशेषौघं चिराभ्यासस्वभावतः
अविद्येयं तु नास्तीति बुद्ध्वा युक्तियुतं धिया । ज्ञानाद् एव परावाप्तिस् तदभ्यासस् ततो वरम्
चित्ते शान्ते शाम्यतीयं संसारमृगतृष्णिका । जराम् उपगते मेघे मिहिका महती यथा
चित्तमात्रम् अविद्येति कुरु तेनैव तत्क्षयम् । तद्रूपनाम चित्तात्मानुभावो हि परं पदम्
मुहूर्तम् एव निर्वाणं यदि चेतः परे पदे । तत् तत्परिणतं विद्धि तत्रैवास्वादम् आगतम्
यदि साङ्ख्येन विश्रान्तं चेतो योगेन वा पदे । क्षणं तत् सत्त्वतां यातं न भूयः परिजायते
चेतो विगलिताविद्यं सत्त्वशब्देन कथ्यते । दग्धं संसारबीजं तन् न दद्याद् अङ्कुरं पुनः
ज्ञश् चिद्विगलिताविद्यस् सत्त्वस्थश् शान्तवासनः । समं शून्योपमं शान्तं ज्योतिः पश्यति शाम्यति
विगलिताज्ञपदं विमलं मनस् सुभग सत्त्वम् इतीह हि कथ्यते । न पुनर् एति कलामलिनं पदं कनकताम् इव ताम्रम् उपागतम्
जीवो ऽजीवीभवत्य् आशु याति चित्तम् अचित्तताम् । विचाराद् इत्य् अविद्यान्तो मोक्ष इत्य् अभिधीयते
मृगतृष्णाजलम् इव सर्गो ऽहन्तादि दृश्यते । असद् एव मनाग् एव तद् विचारात् प्रलीयते
संसृतिस्वप्नविश्रान्तौ वेतालोदाहृतान् इमान् । प्रश्नान् आकर्णय शुभान् प्रसङ्गात् स्मृतिम् आगतान्
अस्ति विन्ध्यमहाटव्यां वेतालो विपुलाकृतिः । स किञ्चिन् मण्डलं गर्धाद् आजगाम जिघत्सया
स वेतालो ऽवसत् पूर्वं कस्मिंश्चित् सज्जनास्पदे । बहुबल्युपहारेण नित्यतृप्ततया सुखी