खाद् अप्य् अतितराम् अच्छम् आत्माकाशं चिदात्मकम् । तत्र प्राप्तिः परं श्रेयस् सा कथं प्राप्यते शृणु
सम्यग्ज्ञानावबोधेन नित्यम् एकसमाधिना । सङ्ख्ययैवावबुद्धा ये ते साङ्ख्या योगिनस् स्मृताः
प्राणाद्यनिलसंशान्तौ युक्ता ये पदम् आगताः । अनामयम् अनाद्यन्तं ते स्मृता योगयोगिनः
उपादेयं तु सर्वेषां शान्तं पदम् अकृत्रिमम् । तत् कैश्चित् सङ्ख्यया प्राप्तं कैश्चिद् योगेन देहतः
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति । यत् साङ्ख्यैः प्राप्यते स्थानं परं योगैस् तद् एव हि
यत्र प्राप्ता मनोवृत्तिर् अत्यन्तं नोपलभ्यते । वासनावागुराक्रान्ता तद् विद्धि परमं पदम्
वासनां चित्तम् एवाहुः कारणं तद् धि संसृतेः । तद् अकारणताम् एति विलीय भवकर्मसु
मनः पश्यति वै देहं बालो वेतालकं यथा । आत्मानं विलयं नीत्वा न भूयस् तं प्रपश्यति
मनो मुधैवाभ्युदितम् असद् एवानवेक्षणात् । स्वप्ने स्वमरणाकारं प्रेक्ष्यमाणं न विद्यते
मनोऽभावान् न संसारः क्वामोदः कुसुमं विना । उपदेश्योपदेशादि बन्धमोक्षौ च तत् कुतः
एकतत्त्वघनाभ्यासः प्राणानां विलयस् ततः । मनोविनिग्रहश् चेति मोक्षशब्दार्थकारणम्
यदि हि प्राणविलयो मुने मोक्षस्य कारणम् । मृता एव हि मुच्यन्ते तन् मन्ये सर्वजन्तवः
त्रिष्व् एतेषु प्रयोगेषु मनःप्रशमनं वरम् । साध्यं विद्धि तद् एवाशु यथा भवति तच् छिवम्
यदा निर्वासनं प्राणास् त्यजन्तीदं शरीरकम् । तदा न भूयस् तन्मात्रैर् यान्ति व्योमनि सङ्गमम्
वासनांशात्मकान्य् एव विद्धि तन्मात्रकाणि वै । तदात्मकैर् मनोवद्भिः प्राणाश् श्लिष्यन्ति नेतरैः
सवासनास् तु यद्य् एते प्राणा मुञ्चन्ति देहकम् । तद् व्योमवायुसंश्लेषं यान्ति दुःखाय गन्धवत्
मनस् साम्बुर् इवाम्भोदो न शाम्यति सवासनम् । नामनस्कास् सम्भवन्ति प्राणास् सूर्या इवात्विषः
न जहाति मनः प्राणान् विना ज्ञानेन कर्हिचित् । तृणान्तरेणैव विना तृणाग्रम् इव तित्तिरिः
ज्ञानाद् अवासनीभावं स्वनाशं प्राप्य वै मनः । प्राणस्पन्दं च नादत्ते ततश् शान्तिर् हि शिष्यते
ज्ञानात् सर्वपदार्थानाम् असत्त्वं समुदेत्य् अलम् । ततो ऽङ्ग वासनानाशाद् वियोगः प्राणचेतसोः
ततो न पश्यति मनः प्रशान्तं देहतां पुनः । स्वनाशेन पदं प्राप्तं वासनैव मनो विदुः
चेतो हि वासनामात्रं तदभावः परं पदम् । तच् च सम्पद्यते ज्ञानाज् ज्ञानम् आहुर् विचारणम्
इत्य् अस्यास् संसृते राम पर्यन्तस् सम्प्रवर्तते । स्वयं विवेकमात्रेण रज्जुसर्पभ्रमाकृतेः
एकार्थाभ्यसनप्राणरोधचेतःपरिक्षयाः । एकस्मिन्न् एव संसिद्धे संसिध्यन्ति परस्परम्
तालवृन्तपरिस्पन्दे शान्ते शान्तो यथानिलः । प्राणानिलपरिस्पन्दे शान्ते शान्तं तथा मनः
प्राणाश् शरीरविलये प्रयान्ति व्योमवायुताम् । यथावासितम् एवेदं मनः पश्यन्ति तत्र च
यथा विदेहाः पश्यन्ति प्राणा व्योमनि देहकम् । समनस्कास् तथाचारं सर्वं चानुभवन्ति ते
शान्ते वातपरिस्पन्दे यथा गन्धः प्रशाम्यति । तथा शान्ते मनस्स्पन्दे शाम्यन्ति प्राणवायवः
अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी । कुसुमामोदवन् मिश्रे तिलतैले इव स्थिते
मनसस् स्पन्दनं प्राणः प्राणस्य स्पन्दनं मनः । एते विहरतो नित्यम् अन्योऽन्यं रथसारथी