सुषुप्तमौनम् एवेदम् अनन्तत्वात् प्रबोधवत् । तुर्यम् एवामलं विद्धि तुर्यातीतम् अथापि वा
सुषुप्तैकसमाधानस् तथा तुर्यसमाधिकः । तुर्यातीतसमाधिर् वा जाग्रत्य् अपि भवेत वै
तुर्यस्थ एव सकलामलशान्तवृत्तिर् जाग्रत्य् अपि व्यवहरन् निपुणं स्वपित्वा । नित्यं सदेह उत वापि विदेह एव ब्राह्मं नभो भव तद् एव किलासि साधो
ॐ इत्य् अपास्तभववासनम् एकम् आस्स्व न त्वं न चाहम् इति किञ्चिद् इहास्ति सत्यम् । सर्वं च विद्यत इतीह शिलान्तराभं ज्ञस् तिष्ठ चिद्गगनकोशकलैकनिष्ठः
कुतश् शतत्वम् आयातं रुद्राणां मुनिनायक । ये गणास् ते च किं रुद्रा उत नेति वदस्व मे
स्वप्नानां भिक्षुणा दृष्टं शतं शतशरीरकम् । सर्वम् उद्देशतो ज्ञातम् अत उक्तं न तन् मया
यद् आकाराश् शतं स्वप्ने तत् तद् गणशतं स्मृतम् । तद् एव तद् रुद्रशतं रुद्रा अपि गणाभिधाः
एकस्माद् भगवंश् चित्तात् कथं चित्तशतं कृतम् । तत्स्वप्नशतरुद्रेण दीपाद् दीपशतं यथा
निरावरणसद्भावा यद् यथा कल्पयन्ति ये । तत् तथाशु भवत्य् एव न सावरणसंविदः
सर्वात्मनस् सर्वगत्वाद् यद् यथा यत्र भाव्यते । तथानुभूयते तत्र तत् तत् तज्ज्ञेन नाधिया
कपालमालाभरणो भस्मस्नायी दिगम्बरः । श्मशाननिलयो ब्रह्मन् कामुकश् च महेश्वरः
महेश्वराणां सिद्धानां जीवन्मुक्तशरीरिणाम् । न क्रियानियमो ऽस्तीह स ह्य् अज्ञेष्व् एव कल्पितः
अज्ञास् त्व् अजितचित्तत्वात् क्रियानियमनं विना । गर्धान् मात्स्येन न्यायेन परं दुःखं प्रयान्ति हि
तज्ज्ञास् त्व् इष्टेष्व् अनिष्टेषु न निमज्जन्ति वस्तुषु । जितेन्द्रियत्वाद् बुद्धत्वान् निर्वासनतयानया
काकतालीयवद् रूढां क्रियां कुर्वन्ति ते सदा । न कुर्वन्त्य् अपि वा केचिन् नैषां क्वचिद् अपि ग्रहः
काकतालीयवद् विष्णुर् एवंकर्मोदितः परात् । एवंकर्मा त्रिनयन एवंकर्माम्बुजोद्भवः
न निन्द्यम् अस्ति नानिन्द्यं नोपादेयं न हेयकम् । न चात्मीयं न च परं कर्म ज्ञविषयं क्वचित्
अग्न्यादीनां यथौष्ण्यादि सर्गादौ रूढिम् आगतम् । हरादीनां तथा कर्म द्विजातीनां च जातयः
सर्गे प्ररूढिम् आयाते सङ्केतवशतः पृथक् । अनुभूतफलैस् स्वार्थाः कल्पनाः कल्पितास् ततः
विदेहमुक्तविषयं तुर्यं मौनम् इतो मया । नोक्तं ते पञ्चमं मौनं विदेहस्य रघूद्वह
खाद् अप्य् अतितराम् अच्छम् आत्माकाशं चिदात्मकम् । तत्र प्राप्तिः परं श्रेयस् सा कथं प्राप्यते शृणु
सम्यग्ज्ञानावबोधेन नित्यम् एकसमाधिना । सङ्ख्ययैवावबुद्धा ये ते साङ्ख्या योगिनस् स्मृताः
प्राणाद्यनिलसंशान्तौ युक्ता ये पदम् आगताः । अनामयम् अनाद्यन्तं ते स्मृता योगयोगिनः
उपादेयं तु सर्वेषां शान्तं पदम् अकृत्रिमम् । तत् कैश्चित् सङ्ख्यया प्राप्तं कैश्चिद् योगेन देहतः
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति । यत् साङ्ख्यैः प्राप्यते स्थानं परं योगैस् तद् एव हि
यत्र प्राप्ता मनोवृत्तिर् अत्यन्तं नोपलभ्यते । वासनावागुराक्रान्ता तद् विद्धि परमं पदम्
वासनां चित्तम् एवाहुः कारणं तद् धि संसृतेः । तद् अकारणताम् एति विलीय भवकर्मसु
मनः पश्यति वै देहं बालो वेतालकं यथा । आत्मानं विलयं नीत्वा न भूयस् तं प्रपश्यति
मनो मुधैवाभ्युदितम् असद् एवानवेक्षणात् । स्वप्ने स्वमरणाकारं प्रेक्ष्यमाणं न विद्यते
मनोऽभावान् न संसारः क्वामोदः कुसुमं विना । उपदेश्योपदेशादि बन्धमोक्षौ च तत् कुतः