भावाभावादिकलनां नीत्वा चिन्मयतां चिता । शमोल्लासविलासान्ते समम् आस्स्व यथासुखम्
स्पन्दास्पन्दौ कल्पनाकल्पनांशौ चित्त्वान् नान्यौ चित् त्व् अनामा निरंशा । सर्वाकारानावृतिश् शान्तसत्ता सत्त्वापूर्णैकार्णवाभा स्थितेति
सुषुप्तमौनवान् भूत्वा धूत्वा द्वित्वैकरूपिणीम् । कलनां कान्त चिद्रूपस् तिष्ठावष्टभ्य तत् पदम्
वाङ्मौनम् अक्षमौनं च काष्ठमौनं च वेद्म्य् अहम् । सुषुप्तमौनं मौनेशं ब्रह्मन् ब्रूहि किम् उच्यते
द्विविधः प्रोच्यते राम मुनिर् मुनिवरैर् इह । एकः काष्ठतपस्वी च जीवन्मुक्तस् तथेतरः
अभावितात्मा शुष्कायां क्रियायां बद्धनिश्चयः । हठाज् जितेन्द्रियग्रामो मुनिस् स्यात् काष्ठतापसः
यथाभूतम् इदं बुद्ध्वा भावितात्मात्मनि स्थितः । लोकोपमो ऽपि तृप्तो ऽन्तर् यस् स मुक्तमुनिस् स्मृतः
एतयोर् यो भवेद् भावश् शान्तयोर् मुनिनाथयोः । चित्तनिश्चयरूपात्मा मौनशब्देन स स्मृतः
चतुष्प्रकारम् आहुस् तन् मौनं मौनविदो जनाः । वाङ्मौनम् अक्षमौनं च काष्ठं सौषुप्तम् एव च
वाङ्मौनं वचसां रोधो बलाद् इन्द्रियनिग्रहः । अक्षमौनं परित्यागश् चेष्टानां काष्ठसञ्ज्ञकम्
मनोमौनं पञ्चमं यत् तन् मृते काष्ठतापसे । भवेत् सुषुप्तमौनाख्यं जीवन्मुक्ते हि जीवति
त्रिषु मौनविशेषेषु विषयः काष्ठतापसः । सुषुप्तमौनावस्थायाश् चतुर्थ्याश् चैव मुक्तधीः
वाङ्मौनं मौनम् इत्य् एव सिद्धं तच् च मनःकला- । मलिनं जीवबन्धाय तत्रस्थाः काष्ठतापसाः
हठाद् वा योगयुक्त्यैव यस् स्वाक्षाणां विनिग्रहः । तद् अक्षमौनम् इत्य् आहुस् तत्रस्थाः काष्ठतापसाः
अस्मरन् संस्मरन् वापि दृश्यं वाग्द्वयम् अस्पृशन् । अपश्यन्न् एव पश्यन्तीं काष्ठमौनी हि तिष्ठति
प्रस्फुरच्चित्तकलनम् एतन् मौनत्रयं स्मृतम् । सम्भवत्य् अज्ञमुनिषु न तु तज्ज्ञेषु लीलया
नात्रोपादेयता ज्ञानाम् एतन् मौनत्रयं किल । लीलया हेलया वापि तज्ज्ञाः कुर्वन्ति वा न वा
इदं सुषुप्तमौनं तु जीवन्मुक्तमतिस्थितम् । अपुनर्जन्मने जन्तोश् शृणु श्रवणभूषणम्
नात्र संयम्यते वाणी त्रिविधा नापि चोज्झ्यते । नोल्लास्यन्ते न जीयन्ते समस्तेन्द्रियसंविदः
नानाताकलनेयं हि न वल्गति न शाम्यति । चेतो न चेतो नाचेतो न सन् नासन् न खं न गौः
अविभागम् अनायासं यद् अनाद्यन्तम् आसितम् । ध्यायतो धावतश् चैव सौषुप्तं मौनम् अङ्ग तत्
यथाभूतम् इमं बुद्ध्वा जगन्नानात्वविभ्रमम् । यद् आसितम् असङ्गेहं सौषुप्तं मौनम् अङ्ग तत्
अनेकसंविद्रूपात्म चैकम् एवेदम् आततम् । इत्य् आसितम् अनन्तं यत् सौषुप्तं मौनम् अङ्ग तत्
आकाशं नैव चाकाशं सर्वम् अस्मि न चास्मि च । इति स्थितं समं शान्तं यत् तन् मौनं सुषुप्तवत्
सर्वं शून्यं निरालम्बं शान्तं विज्ञप्तिमात्रकम् । न सन् नासद् इति स्वस्थम् आसितं मौनम् उत्तमम्
भावाभावदशोन्मेषविशेषैर् वितथोत्थितैः । संविदो यद् अनामर्शस् तन् मौनं परमं विदुः
असतैव सतेवान्तश् चेतसा वृत्तिरूपिणा । यद् अनावर्तनं संविद्वृत्तेस् तन् मौनम् अक्षयम्
नाहम् अस्मि न चान्यो ऽस्ति न मनो न च मानसम् । इति संविदसंवित्तिर् अविच्छिन्नातिमौनता
अहम् अस्मि जगच् चास्ति त्व् अस्तिशब्दार्थमात्रकम् । सत्तासामान्यम् एवेति सौषुप्तं मौनम् उच्यते
सत्त्वात् संविद एवान्यास् स्वप्नादिकलनाः कुतः । अनन्तम् एव सौषुप्तं सर्वं मौनम् अतस् ततम्