परेण परिणामेन सर्गाहन्तार्थयोश् शमे । चिन्मात्रम् अपि नास्त्य् एव नास्तीत्य् अपि न विद्यते
भेदभावनयोदेति भेदः प्रकृतिलाञ्छनः । अभेदबोधाद् अखिले गलिते शिष्यते परम्
नानातेहास्त्य् अबोधेन सो ऽबोधो ऽस्त्य् अनवेक्षणात् । प्रेक्षकश् चैव नास्त्य् एव तस्मान् निश्शङ्कता परा
नातस् स्वप्नो न जाग्रच्छ्रीर् न सुषुप्तं न तुर्यता । न बन्धो ऽस्ति न मोक्षो ऽस्ति नान्यद् वा कलनात्मकम्
शान्तिर् एका जगन्नाम्नी शान्ताव् इयम् अवस्थिता । अबोधो ऽसत्य एवातः क्व दृश्यद्रष्टृदर्शनम्
स्पन्दो ऽप्य् अस्पन्द एवास्या निस्सङ्कल्पतया चितेः । न स्पन्दास्पन्दयोर् भिन्ना सङ्कल्परहितैव चित्
द्वित्वैक्यादिकलारूपस् सङ्कल्पश् चित्तभावनम् । स चाभावनमात्रेण गलति ब्रह्म शिष्यते
चिच्चन्द्रबिम्बे सङ्कल्पकलङ्कस् स्फुरतीव यः । नासौ कलङ्कस् तद् विद्धि चिद्घनस्य घनं वपुः
चिद्घनश् च न सन् नासत् स्थीयतां तत् तते पदे । इत्य् अशेषमहाबोधसारसङ्ग्रहणं कृतम्
चिच्चन्द्रबिम्बात् सङ्कल्पकलङ्को ऽमृतविग्रहात् । त्वया भावेन सम्मृष्टो भावाभावक्षयात्मना
भावाभावादिकलनां नीत्वा चिन्मयतां चिता । शमोल्लासविलासान्ते समम् आस्स्व यथासुखम्
स्पन्दास्पन्दौ कल्पनाकल्पनांशौ चित्त्वान् नान्यौ चित् त्व् अनामा निरंशा । सर्वाकारानावृतिश् शान्तसत्ता सत्त्वापूर्णैकार्णवाभा स्थितेति
सुषुप्तमौनवान् भूत्वा धूत्वा द्वित्वैकरूपिणीम् । कलनां कान्त चिद्रूपस् तिष्ठावष्टभ्य तत् पदम्
वाङ्मौनम् अक्षमौनं च काष्ठमौनं च वेद्म्य् अहम् । सुषुप्तमौनं मौनेशं ब्रह्मन् ब्रूहि किम् उच्यते
द्विविधः प्रोच्यते राम मुनिर् मुनिवरैर् इह । एकः काष्ठतपस्वी च जीवन्मुक्तस् तथेतरः
अभावितात्मा शुष्कायां क्रियायां बद्धनिश्चयः । हठाज् जितेन्द्रियग्रामो मुनिस् स्यात् काष्ठतापसः
यथाभूतम् इदं बुद्ध्वा भावितात्मात्मनि स्थितः । लोकोपमो ऽपि तृप्तो ऽन्तर् यस् स मुक्तमुनिस् स्मृतः
एतयोर् यो भवेद् भावश् शान्तयोर् मुनिनाथयोः । चित्तनिश्चयरूपात्मा मौनशब्देन स स्मृतः
चतुष्प्रकारम् आहुस् तन् मौनं मौनविदो जनाः । वाङ्मौनम् अक्षमौनं च काष्ठं सौषुप्तम् एव च
वाङ्मौनं वचसां रोधो बलाद् इन्द्रियनिग्रहः । अक्षमौनं परित्यागश् चेष्टानां काष्ठसञ्ज्ञकम्
मनोमौनं पञ्चमं यत् तन् मृते काष्ठतापसे । भवेत् सुषुप्तमौनाख्यं जीवन्मुक्ते हि जीवति
त्रिषु मौनविशेषेषु विषयः काष्ठतापसः । सुषुप्तमौनावस्थायाश् चतुर्थ्याश् चैव मुक्तधीः
वाङ्मौनं मौनम् इत्य् एव सिद्धं तच् च मनःकला- । मलिनं जीवबन्धाय तत्रस्थाः काष्ठतापसाः
हठाद् वा योगयुक्त्यैव यस् स्वाक्षाणां विनिग्रहः । तद् अक्षमौनम् इत्य् आहुस् तत्रस्थाः काष्ठतापसाः
अस्मरन् संस्मरन् वापि दृश्यं वाग्द्वयम् अस्पृशन् । अपश्यन्न् एव पश्यन्तीं काष्ठमौनी हि तिष्ठति
प्रस्फुरच्चित्तकलनम् एतन् मौनत्रयं स्मृतम् । सम्भवत्य् अज्ञमुनिषु न तु तज्ज्ञेषु लीलया
नात्रोपादेयता ज्ञानाम् एतन् मौनत्रयं किल । लीलया हेलया वापि तज्ज्ञाः कुर्वन्ति वा न वा
इदं सुषुप्तमौनं तु जीवन्मुक्तमतिस्थितम् । अपुनर्जन्मने जन्तोश् शृणु श्रवणभूषणम्
नात्र संयम्यते वाणी त्रिविधा नापि चोज्झ्यते । नोल्लास्यन्ते न जीयन्ते समस्तेन्द्रियसंविदः
नानाताकलनेयं हि न वल्गति न शाम्यति । चेतो न चेतो नाचेतो न सन् नासन् न खं न गौः