सदृशाचारजन्मानस् त एवान्ये च भूरिशः । भूयो भूयो विवर्तन्ते सर्गेष्व् अप्स्व् इव वीचयः
अत्यन्तसदृशाः केचित् केचिद् अर्धसमक्रमाः । केचिद् ईषत्समाः केचिन् न कदाचित् पुनस् तथा
एवम् एषातिवितता माया मनसि मोहिनी । क्षणो नेहास्ति नो कल्पः प्रतिपत्तिर् हि जृम्भते
क्वैकविंशत्यहोरात्रा अनन्ताः क्व कुयोनयः । क्व तासाम् उपलम्भो ऽलम् अहो भीमा मनोगतिः
प्रतिभामात्रम् एवेदम् इत्थं विकसितं सितम् । नानाकलहकल्लोलचलं प्रातर् इवाम्बुजम्
जातं संवेदनाद् एव शुद्धाद् इदम् अशुद्धवत् । संसारजालम् अखिलं वह्निर् वह्निकणाद् इव
प्रत्येकम् एवम् उदितः प्रतिभासषण्डष् षण्डान्तरेष्व् अपि च तत्र विचित्रषण्डाः । सर्वे स्वयं ननु च ते च मिथो न मिथ्या सर्वात्मनि स्फुरति कारणकारणे ऽस्मिन्
मुनिनायक तं भिक्षुं गत्वा सम्बोधयन्त्व् अमी । नरा मत्प्रहिताश् शीघ्रं चीनबुद्धकुटीगतम्
राजंस् तस्य महाभिक्षोस् स देहः प्राणवर्जितः । क्लेदं वैवर्ण्यम् आयातो नासौ जीवितभाजनम्
तस्य भिक्षोश् च जीवो ऽसौ भूत्वा पद्मजसारसः । जीवन्मुक्तस् स्थितो भूयो नासौ संसृतिभाजनम्
तद्गृहे मासपर्यन्ते बलान् निष्कासितार्गडाः । अन्तर् आलोकयिष्यन्ति भिक्षुम् अक्षुण्णमानसम्
अन्येनैव स देहेन भिक्षुर् मुक्तो व्यवस्थितः । कथं प्रबोध्यते नष्टं तद्विहारे शरीरकम्
एषा गुणमयी माया दुर्बोधेन दुरत्यया । नित्यं सत्यावबोधेन सुखेनैवातिवाह्यते
असत्यैव कृतारम्भा हेम्नः कटकता यथा । प्रतिभासविपर्यासमात्रकारणकोदया
परमात्मन एवेयम् इत्थं मायेति मीयते । तरङ्गतेव पयसि प्रेक्षामात्रविनाशिनी
ज्ञो ऽपि दृश्यमयाद् दीर्घस्वप्नात् स्वप्नान्तरं व्रजन् । एवं नान्यत्वम् आयाति विवेकात् सर्वगात्मदृक्
यो यो ऽस्य प्रतिभासस् स्याद् आत्मैव स स बोधतः । स एवोदेति संसारकरञ्जवनगुल्मदृक्
प्रत्येकं भूतम् उदितं पृथक् संसारमण्डलम् । भिक्षोस् स्वप्नान्तरम् इव पराद् वीचिर् इवाम्भसः
प्रसृतः पद्मजाद् एव जगत्स्वप्नो ऽयम् आदितः । तथैवाथ स्वचित्तोत्करूढस् सर्वजनं प्रति
आपितामहम् आभाति सर्गस् स्वप्नविलासवत् । प्रत्येकम् उदितस् तेन ब्रह्माण्डानीह कोटिशः
स्फुरन् परस्मिन् प्रत्येकं जीवः पश्यति विभ्रमम् । हृदये ऽर्थसमर्थं च स्वप्नवद् दीर्घम् आन्तरम्
चित्सत्तामात्रसामान्यप्रतीतिच्युतिमात्रतः । जरामरणदुःखानां कश्चिद् भाजनतां गतः
पातालं ब्रह्मलोकं वा चिच् चमत्कृतिशालिनी । चित्तांशस्पन्दमात्रेण कृत्वा कृत्वैव संस्थिता
चित् स्पन्दरूपिणी जीवनाम्नागत्यात्मनात्मनि । अन्यत्रान्येव लुठति भूत्वा सम्भ्रमभारिणी
बिभेषि परमात्मात्मा परमात्मन एव किम् । जीवदेहादिनाम्नो ऽस्मात् प्रतिबिम्बाद् इवार्भकः
ब्रह्मण्य् एव परं ब्रह्म जगद्दृष्ट्यैव सत् स्थितम् । शुद्धाकाशम् इवाकाशे जले जलम् इवामलम्
लोको ब्रह्मण एवायं जगद्रूपेण तिष्ठतः । बिभेत्य् अन्यतयोपात्तात् प्रतिबिम्बाद् इवार्भकः
स्पन्दे ऽस्पन्दीकृते बोधाच् चितस् सञ्ज्ञा विलीयते । साप्य् अलं परिणामेन लीयते ऽग्नौ घृतं यथा
चित्स्पन्द एव चित्स्पन्दे सर्वात्मात्मनि जृम्भते । स्पन्दास्पन्दौ जृम्भणादि कल्पितं नात्र वास्तवम्
न स्पन्दो ऽस्तीह नास्पन्दो नैकता नापि च द्विता । शुद्धचिन्मात्रम् एवास्ति सर्वं चास्ति यथास्थितम्