अत्र रात्रौ समाधिस्थस् त्रिलोकीमठिकाम् इमाम् । भिक्षुर् एषो ऽस्ति नास्तीति प्रेक्ष्य प्रातर् वदाम्य् अहम्
मुनाव् एवं कथयति बहिर् मध्याह्नदिण्डिमः । उदभूत् प्रलयक्षुब्धघनगर्जितमांसलः
तत्यजुः पादयोस् तस्य पुष्पाञ्जलिपरम्पराः । नृपाः पौरा विटपिनः पुष्पं वातयुता इव
पूजयित्वा मुनिश्रेष्ठान् उदतिष्ठत् स विष्टरात् । मुनिना सह भूपाल उदयाद्रेर् इवांशुमान्
सभा तदनु सोत्तस्थौ सप्रणामपरस्परम् । क्रमेण ह्यस्तनेनैव जग्मुः खेचरभूचराः
स्वास्पदेषु यथाशास्त्रम् अहर्व्यापारम् आदृताः । सर्वे सम्पादयाम् आसुर् निजधर्मक्रमोचितम्
चिन्तयन्तो मुनिप्रोक्तं महीचरनभश्चराः । ज्ञानं क्षपां क्षणम् इव निन्युः कल्पम् इवापि च
प्रातः पुनः प्रसृतकार्यपरम्परे ऽस्मिञ् जाते जने खचरभूचरसिद्धसङ्घः । आस्थानलोकरचनेन तथैव तस्थाव् अन्योऽन्यसंवदनपूजितपूज्यलोकः
वसिष्ठमुनिसंयुक्ता विश्वामित्रादिसंयुता । स्थितखेचरसिद्धौघा विश्रान्तनृपनायका
सरामलक्ष्मणा सैव तथैवाथ सभा बभौ । सोम्या समसमाभोगा शान्तवात्येव पद्मिनी
अनपेक्ष्यैव च प्रश्नम् उवाचाथ मुनीश्वरः । बोधयन्ति बलाद् एव सानुकम्पा हि साधवः
राजन् रघुकुलाकाशशशाङ्क रघुनन्दन । ह्यो मया ध्याननेत्रेण स भिक्षुः प्रेक्षितश् चिरम्
ध्यानेनाहं चिरं भ्रान्तस् तादृग्भिक्षुदिदृक्षया । द्वीपानि सप्त विपुलांस् तथैव कुलपर्वतान्
यावत् कुतश्चिद् अप्य् एव भिक्षुर् लब्धो न तादृशः । कथं किल मनोराज्यं बहिर् अप्य् उपलभ्यते
ततस् त्रिभागशेषायां रात्रौ पुनर् अहं धिया । उत्तराशान्तरं यातो वेलावात इवार्णवम्
चीननामाथ तत्रास्ति श्रीमाञ् जनपदो महान् । वल्मीकोपरि तत्रास्ति विहारो जिनसंश्रयः
तस्मिन् विहारे स्वकुटीकोशे कपिलमूर्धजः । भिक्षुर् दीर्घशया नाम स्थित एवंपरोदयः
एकविंशतिरात्रं च तस्यैवंस्थितिशालिनः । दृढार्गडं गृहं ध्यानभङ्गभीता विशन्ति नो
भृत्याः प्रायः किल तथा स तिष्ठति सुभिक्षुकः । अद्यैवं तस्य सम्पन्नं नियतेर् ईदृशी स्थितिः
रात्रयो ध्याननिष्ठस्य गतास् तस्यैकविंशतिः । स तु वर्षसहस्राणि तथा चित्ते ऽनुभूतवान्
कस्मिंश्चित् प्राक्तने कल्पे भिक्षुर् एवं पुराभवत् । अद्य त्व् इह द्वितीयो ऽस्ति तृतीयो नोपलभ्यते
मया तु पुनर् अन्विष्टश् चेतसा चतुरात्मना । तादृग् भिक्षुस् तृतीयो ऽन्यो जगत्पद्मोदरालिना
अस्मात् सर्गात् तु नो लब्धस् तृतीयस् तादृगाशयः । अथान्ये लीलया सर्गा मया सम्प्रेक्षितास् ततः
यावत् कस्मिंश्चिद् आकाशकोशशायिनि सर्गके । तृतीयो विद्यते भिक्षुर् ब्राह्मणश् चेदृशक्रमः
एवं तेनैव तेनैव सन्निवेशेन भूरिशः । भविष्यन्त्य् अभवन् सन्ति पदार्थास् सर्गसन्ततौ
अस्यां सभायाम् अपि ये मुनयो ब्राह्मणा नृपाः । भाव्यम् एवंसमाचारैस् तैर् अन्यैर् अप्य् अनेकशः
नारदेनामुना भाव्यं पुनर् अन्येन चानघ । एवम् एवात्रिणा भाव्यं पुनर् अन्येन चाधुना
एवं कलत्रकर्मभ्यां युक्तेनानेन भूरिशः । एवंजन्मादिना भाव्यं व्यासेन च शुकेन च
जनकेन पुनर् भाव्यं क्रतुना पुलहेन च । अगस्त्येन पुलस्त्येन भृगुणाङ्गिरसापि च
एत एव तथान्ये च एवंरूपक्रियास्पदम् । चिराच् चिराद् भविष्यन्ति मायेयं वितता यतः