एकस्मिन्न् एव चैतेषाम् अभ्यस्ते विमलोदये । चत्वारो ऽपि किलाभ्यस्ता भवन्ति सुधियां वर
एको ऽप्य् एको ऽपि सर्वेषां एषां प्रसवभूर् इव । सर्वसंसिद्धये तस्माद् यत्नेनैकं समाश्रयेत्
सत्समागमसन्तोषविचारास् त्व् अविचारितम् । प्रवर्तन्ते शमे स्वच्छे वहनानीव सागरे
विचारसन्तोषशमास् सत्समागमशालिनि । प्रवर्तन्ते श्रियो जन्तौ कल्पवृक्षाश्रिते यथा
विचारशमसत्सङ्गास् सन्तोषवति मानवे । प्रवर्तन्ते प्रपूर्णेन्दौ सौन्दर्याद्या गुणा इव
सत्सङ्गसन्तोषशमा विचारवति सन्मतौ । प्रवर्तन्ते मन्त्रिवरे राजनीव जयश्रियः
तस्माद् एकतमं नित्यम् एतेषां रघुनन्दन । पौरुषेण मनो जित्वा यत्नेनाभ्याहरेद् गुणम्
परं पौरुषम् आश्रित्य जित्वा चित्तमतङ्गजम् । यावद् एको गुणो नाप्तस् तावन् नास्त्य् उत्तमा गतिः
पौरुषेण प्रयत्नेन दन्तैर् दन्तान् विचूर्णयत् । यावन् नाभिनिविष्टं ते मनो राम गुणार्जने
देवो भवाथ यक्षो वा पुरुषः पादपो ऽथ वा । तावत् तव महाबाहो नोपायो ऽस्तीह कश्चन
एकस्मिन्न् एव फलिते गुणे बलम् उपागते । क्षीयन्ते सर्व एवाशु दोषा विषदचेतसः
गुणे विवृद्धे वर्धन्ते गुणा दोषक्षयावहाः । दोषे विवृद्धे वर्धन्ते दोषा गुणविनाशिनः
मनोमहावने ह्य् अस्मिन् वेगिनी वासनासरित् । शुभाशुभबृहत्कूला नित्यं वहति जन्तुषु
सा हि स्वेन प्रयत्नेन यस्मिन्न् एव निपात्यते । कूले तेनैव वहति यथेच्छसि तथा कुरु
पुरुषयत्नजवेन मनोवने शुभतटानुगतां क्रमशः कुरु । वरमते निजभावमहानदीम् इह हि तेन मनाग् अपि नोह्यसे
एवम् आत्तविवेको यस् स भवान् इव राघव । योग्यो ज्ञानगिरश् श्रोतुं राजेव नयभारतीः
अवदातो ऽवदातस्य विज्ञानस्य महाशयः । जडसङ्गोज्झितो योग्यश् शरदीन्दोर् यथा नभः
त्वम् एतयाखण्डितया गुणलक्ष्म्या समाश्रितः । मनोमोहहरं वाक्यं वक्ष्यमाणम् इदं शृणु
पुण्यकल्पद्रुमो यस्य फलभारानतस् स्थितः । मुक्तये जायते जन्तोस् तस्येदं श्रोतुम् उद्यमः
पावनानाम् उदाराणां परबोधैकदायिनाम् । वचसां भाजनं भूत्यै भव्यो भवति नाधमः
मोक्षोपायाभिधानेयं संहिता सारसम्मिता । त्रिंशद् द्वे च सहस्राणि ज्ञाता निर्वाणदायिनी
दीपे यथा विनिद्रस्य ज्वलिते सम्प्रवर्तते । आलोको ऽनिच्छतो ऽप्य् एवं निर्वाणम् अनया भवेत्
स्वयं ज्ञाता श्रुता वापि भ्रान्तिशान्त्यैव सौख्यदा । आप्तोक्तिवर्णिता सद्यो यथामृततरङ्गिणी
यथा रज्ज्वाम् अहिभ्रान्तिर् विनश्यत्य् अवलोकनात् । तथैतत्प्रेक्षणाच् छान्तिम् एति संसारदुःखिता
युक्तियुक्तार्थवाक्यानि कल्पितानि पृथक् पृथक् । दृष्टान्तसारसूक्तानि चास्यां प्रकरणानि षट्
वैराग्याख्यं प्रकरणं प्रथमं परिकीर्तितम् । वैराग्यं वर्धते येन सेकेनेव मरौ तरुः
सार्धं सहस्रं ग्रन्थस्य यस्मिन् हृदि विचारिते । प्रकाशा शुद्धतोदेति मणाव् इव विमार्जिते
मुमुक्षुव्यवहाराख्यं ततः प्रकरणं कृतम् । सहस्रमात्रं ग्रन्थस्य सूक्तिग्रन्थेन सुन्दरम्
स्वभावो हि मुमुक्षूणां नराणां यत्र वर्ण्यते । एवंस्वभावो मोक्षस्य योग्य इत्य् अवगम्यते
अथोत्पत्तिप्रकरणं दृष्टान्ताख्यायिकामयम् । पञ्चग्रन्थसहस्राणि विज्ञानप्रतिपादनम्