कार्तवीर्यो गृहे तिष्ठन् ववर्षाम्बुधरो भवन् । विष्णुः क्षीरोदधौ तिष्ठञ् जायते पुरुषो भुवि
पश्वर्थं यान्ति तिष्ठन्त्यो योगिन्यो योगिनीगणे । शक्रस् स्वर्गासने तिष्ठन् याति यज्ञार्थम् उर्वराम्
सहस्रम् एकं भवति तथास्मिञ् जगदात्मनि । नृणां शतानि भक्तानां यान्ति सायुज्यतां तनौ
एकस् सहस्रं भवति तथा चैष जनार्दनः । एकः कान्तासहस्राणि तुल्यकालं निषेवते
एवं ते भिक्षुसङ्कल्पजीवटब्राह्मणादयः । रुद्रविज्ञानवशतस् स्वसङ्कल्पपुरीर् गताः
तत्र भुक्त्वा चिरं भोगान् प्राप्य रुद्रपुरं ततः । गणताम् आप्नुवन्तस् ते स्थास्यन्ति सपरिच्छदाः
नित्यप्रफुल्तनवकल्पलतालयेषु रुद्रेण सार्धम् उरुरत्नगुलुच्छकेषु । नानाजगत्सु च तदा पुरपत्तनेषु विद्याधरीष्व् अमलमौलिधरा रमन्ते
एष दृष्टो यथानेन भिक्षुणा चेतनाभ्रमः । भूतं प्रत्येकम् एवैवं पृथङ् मृत्वा तु पश्यति
सर्वस्य नाम जीवस्य मृतिजन्ममयी स्थितिः । भवत्य् एव चिदाकाशरूपिणो ऽप्य् आकृतिं गता
पृथक् प्रत्येकम् अभ्येति खात्मा संसारषण्डकः । पृथग् आमोदसार्थस्य यथा कुसुमषण्डकः
सर्व एव मृतो जन्तुः पृथक् स्वप्रतिभात्मकम् । पश्यत्य् एवं खरूपो ऽपि देही चामोक्षम् आकुलः
जीव एष मया तुभ्यं कथितः कथयानया । परात् प्रस्पन्दितात्मेति न भिक्षू राम केवलः
मोहान् मोहान्तरं याति जीवो जरढजीवितः । पर्वताग्रपरिभ्रष्टो ह्य् अधो ऽध उपलो यथा
परमात्मपदभ्रष्टो जीवस् स्वप्नम् इमं दृढम् । पश्यत्य् अस्माद् अपि स्वप्नाद् याति स्वप्नान्तरं पुनः
स्वप्नात् स्वप्ने ऽपि निपतन् मृषैवेदं शिलादृढम् । परिपश्यति देहो ऽन्तर् मायया जर्जरीकृतः
क्वचित् केनचिद् एवैष कदाचिद् वा न वा स्वयम् । देहेन मोहनिद्रातो मुच्यते सम्प्रबुध्यते
अहो नु विषमो मोहो जीवस्यास्योपजायते । पदाच् च्युतस्य स्तोकेन नानाकारविकारदः
मिथ्याज्ञानोग्रयामिन्या मायया निपुणाद् इदम् । अहो नु खलु वैषम्यं भीमं निजपदच्युतेः
भगवन् सर्वदा सर्वं सर्वथैव जगत्स्थितौ । त्वया सम्भवतीत्य् उक्तं मया तच् चानुभूयते
एवंगुणविशिष्टात्मा सुमहात्मन् स भिक्षुकः । क्वचिद् अस्ति न वेत्य् अन्तर् आलोक्य कथयाशु मे
अत्र रात्रौ समाधिस्थस् त्रिलोकीमठिकाम् इमाम् । भिक्षुर् एषो ऽस्ति नास्तीति प्रेक्ष्य प्रातर् वदाम्य् अहम्
मुनाव् एवं कथयति बहिर् मध्याह्नदिण्डिमः । उदभूत् प्रलयक्षुब्धघनगर्जितमांसलः
तत्यजुः पादयोस् तस्य पुष्पाञ्जलिपरम्पराः । नृपाः पौरा विटपिनः पुष्पं वातयुता इव
पूजयित्वा मुनिश्रेष्ठान् उदतिष्ठत् स विष्टरात् । मुनिना सह भूपाल उदयाद्रेर् इवांशुमान्
सभा तदनु सोत्तस्थौ सप्रणामपरस्परम् । क्रमेण ह्यस्तनेनैव जग्मुः खेचरभूचराः
स्वास्पदेषु यथाशास्त्रम् अहर्व्यापारम् आदृताः । सर्वे सम्पादयाम् आसुर् निजधर्मक्रमोचितम्
चिन्तयन्तो मुनिप्रोक्तं महीचरनभश्चराः । ज्ञानं क्षपां क्षणम् इव निन्युः कल्पम् इवापि च
प्रातः पुनः प्रसृतकार्यपरम्परे ऽस्मिञ् जाते जने खचरभूचरसिद्धसङ्घः । आस्थानलोकरचनेन तथैव तस्थाव् अन्योऽन्यसंवदनपूजितपूज्यलोकः
वसिष्ठमुनिसंयुक्ता विश्वामित्रादिसंयुता । स्थितखेचरसिद्धौघा विश्रान्तनृपनायका
सरामलक्ष्मणा सैव तथैवाथ सभा बभौ । सोम्या समसमाभोगा शान्तवात्येव पद्मिनी