अग्रस्थबुद्धिसंस्थे ऽस्मिन् कल्पितं प्राप्तुम् इच्छति । यस् स ना नैकनिष्ठत्वात् तदा तन् नाशयेद् द्वयम्
तस्माद् एकार्थनिष्ठत्वाद् भिक्षुजीवेन रुद्रताम् । प्राप्य सर्वात्मनो लब्धं पदात् सर्वं तथास्थितेः
भिक्षुसङ्कल्पजीवानां प्रत्येकं तज् जगत् पृथक् । पश्यन्ति ते च नान्योऽन्यं रुद्रज्ञानाद् ऋते ततः
अप्रबुद्धाः प्रजायन्ते जीवा जीवात् प्रबोधिनः । तदिच्छयाशु विदुष इव मूर्खास् सुता इव
इह विद्याधरो ऽहं स्याम् इह स्याम् अहम् एडिका । इत्य् एकध्यानसाफल्यदृष्टान्तो ऽस्यां क्रियास्थितौ
एकत्वं च शतत्वं च मौर्ख्यं पाण्डित्यम् एव च । देवत्वं मानुषत्वं च देशकालक्रियाक्रमैः
तुल्यकालम् अलङ्कर्तुं धारणाध्यानयत्नतः । सर्वशक्त्यजरूपत्वाज् जीवस्यास्त्य् एव शक्तता
अनन्तश् चान्तयुक्तश् च स्वभावो ऽस्य स्वभावतः । सविकासस् ससङ्कोचो हंसस्येव चिदात्मनः
यद् इच्छति तद् अस्त्य् अङ्ग ननु सम्पद्यते स्वयम् । स्वयंसङ्कल्पितैर् एभिर् देशकालक्रियाक्रमैः
योगिन्यो योगिनश् चेह तिष्ठन्त्य् अन्यत्र यान्ति च । इह चामुत्र चेहन्ते दृष्टम् एतद् अनेकशः
कार्तवीर्यो गृहे तिष्ठन् ववर्षाम्बुधरो भवन् । विष्णुः क्षीरोदधौ तिष्ठञ् जायते पुरुषो भुवि
पश्वर्थं यान्ति तिष्ठन्त्यो योगिन्यो योगिनीगणे । शक्रस् स्वर्गासने तिष्ठन् याति यज्ञार्थम् उर्वराम्
सहस्रम् एकं भवति तथास्मिञ् जगदात्मनि । नृणां शतानि भक्तानां यान्ति सायुज्यतां तनौ
एकस् सहस्रं भवति तथा चैष जनार्दनः । एकः कान्तासहस्राणि तुल्यकालं निषेवते
एवं ते भिक्षुसङ्कल्पजीवटब्राह्मणादयः । रुद्रविज्ञानवशतस् स्वसङ्कल्पपुरीर् गताः
तत्र भुक्त्वा चिरं भोगान् प्राप्य रुद्रपुरं ततः । गणताम् आप्नुवन्तस् ते स्थास्यन्ति सपरिच्छदाः
नित्यप्रफुल्तनवकल्पलतालयेषु रुद्रेण सार्धम् उरुरत्नगुलुच्छकेषु । नानाजगत्सु च तदा पुरपत्तनेषु विद्याधरीष्व् अमलमौलिधरा रमन्ते
एष दृष्टो यथानेन भिक्षुणा चेतनाभ्रमः । भूतं प्रत्येकम् एवैवं पृथङ् मृत्वा तु पश्यति
सर्वस्य नाम जीवस्य मृतिजन्ममयी स्थितिः । भवत्य् एव चिदाकाशरूपिणो ऽप्य् आकृतिं गता
पृथक् प्रत्येकम् अभ्येति खात्मा संसारषण्डकः । पृथग् आमोदसार्थस्य यथा कुसुमषण्डकः
सर्व एव मृतो जन्तुः पृथक् स्वप्रतिभात्मकम् । पश्यत्य् एवं खरूपो ऽपि देही चामोक्षम् आकुलः
जीव एष मया तुभ्यं कथितः कथयानया । परात् प्रस्पन्दितात्मेति न भिक्षू राम केवलः
मोहान् मोहान्तरं याति जीवो जरढजीवितः । पर्वताग्रपरिभ्रष्टो ह्य् अधो ऽध उपलो यथा
परमात्मपदभ्रष्टो जीवस् स्वप्नम् इमं दृढम् । पश्यत्य् अस्माद् अपि स्वप्नाद् याति स्वप्नान्तरं पुनः
स्वप्नात् स्वप्ने ऽपि निपतन् मृषैवेदं शिलादृढम् । परिपश्यति देहो ऽन्तर् मायया जर्जरीकृतः
क्वचित् केनचिद् एवैष कदाचिद् वा न वा स्वयम् । देहेन मोहनिद्रातो मुच्यते सम्प्रबुध्यते
अहो नु विषमो मोहो जीवस्यास्योपजायते । पदाच् च्युतस्य स्तोकेन नानाकारविकारदः
मिथ्याज्ञानोग्रयामिन्या मायया निपुणाद् इदम् । अहो नु खलु वैषम्यं भीमं निजपदच्युतेः
भगवन् सर्वदा सर्वं सर्वथैव जगत्स्थितौ । त्वया सम्भवतीत्य् उक्तं मया तच् चानुभूयते
एवंगुणविशिष्टात्मा सुमहात्मन् स भिक्षुकः । क्वचिद् अस्ति न वेत्य् अन्तर् आलोक्य कथयाशु मे