सर्वत्र पञ्चभूतानि यथानुभवसीह हि । तथेह सर्वभूतात्म चित्त्वं सर्वत्र विद्यते
यत् सालभञ्जिकावृन्दे शैलस्तम्भगते ऽङ्गकम् । प्रेक्ष्यते तत् तद् एवाश्म तथा चिति जगच् चितः
अवेदने परे शुद्धे वेदनं यज् जगन्ति तत् । अकारणकम् एवैतच् छून्यत्वं नभसो यथा
चिद्घने वेदनं दृश्यं बन्धो मोक्षस् त्व् अवेदनं । यद् एव रुचितं ते स्यात् तद् एवाशु दृढीकुरु
सर्गासर्गौ बन्धमोक्षौ वेदनावेदनात्मकौ । अभिन्नौ बोधतश् चैतौ यथेच्छसि तथा कुरु
असंवित्त्यैव यन् नास्ति तन्नाशे का कदर्थना । तूष्णीम्भावेन यत् प्राप्यं प्राप्तम् एवाशु विद्धि तत्
यद् वै वेदनमात्रात्म तद् अङ्गावेदनक्षयम् । तद् वेदनावेदनयोर् यद् इष्टं तत् समाचर
वीचिर् यथाम्भसि स्पन्दो जगच् चित्रं तथा चितौ । एतावन्मात्र एवात्र भेदो यद् रघुनन्दन
देशकालखरूपेषु सत्सु वीच्यादिताम्भसि । जगदादौ तु देशाद्या असन्तो निर्मिताश् चिता
आभासुरं त्रिजगद् इत्य् अवभाति भास्वत् संवेदनं चयनम् एकचितेस् स्वरूपम् । वाचि स्थितं भवति चैतद् उपोढभेदं क्लिष्टं प्रशान्तवचनस् तु शिवः परात्मा
संवेदनं सर्ग इतीह शब्दाव् अर्थेन भिन्नौ न कदाचिद् एतौ । वीच्यम्भसी द्वे इति नोचितोक्तिर् ज्ञस्याज्ञतायां त्व् इदम् एव युक्तम्
जीवटब्राह्मणादीनां हंसान्तानां मुनीश्वर । भिक्षुस्वप्नशरीराणां सम्पन्नं किम् अतः परम्
रुद्रेण सह सम्भूय प्रबुद्धास् सर्व एव ते । मिथश् च दृष्टसंसारा रुद्रांशास् सुखिनस् स्थिताः
तेन रुद्रेण तां मायाम् अवलोक्य तथोदिताम् । स्वांशास् ताम् एव संसारस्थितिं ते प्रेषिताः पुनः
गच्छताशु निजं स्थानं तत्र भुक्त्वा कलत्रकैः । कञ्चित् कालं समं भोगान् मत्सकाशम् उपैष्यथ
भविष्यथ मदंशा मे गणा मत्पुरभूषणाः । ततो महाप्रलयतो यास्यामस् तत् पदं सह
इत्य् उक्त्वा भगवान् रुद्रस् तेषां सो ऽन्तरधीयत । अन्यसंसारसंस्थानां रुद्राणां मध्यम् आययौ
प्रययुस् स्वास्पदं ते ऽपि जीवटब्राह्मणादयः । स्वकलत्रैस् समं देहं क्षपयित्वाथ कालतः
रुद्रलोकं समासाद्य भविष्यन्ति गणोत्तमाः । कदाचिद् व्योम्नि दृश्यन्ते तारकाकारधारिणः
भिक्षुसङ्कल्परूपास् ते जीवटब्राह्मणादयः । कथं सत्यत्वम् आयातास् सङ्कल्पार्थेष्व् असत्यता
सङ्कल्पसत्यतास्तीशे सङ्कल्पासत्यतास्त्य् अजे । यत्र यन् नास्ति तन् नास्ति यतस् सर्वात्म तत् पदम्
यत् स्वप्ने दृश्यते यच् च सङ्कल्पैर् अवलोक्यते । तत् तथा विद्यते तत्र सर्वकालं तदात्मकम्
तद्देशकालात्मिकया तयैवावस्थयाप्यते । तद्देशकालात्मिकया गत्या देशान्तरं यथा
देशाद् देशान्तरं यद्वद् यत्नगत्यादिकं विना । न लभ्यते तथा स्वप्नो विना तत्तां न लभ्यते
सर्वम् अस्ति चितः कोशे यद् यथालोकयत्य् असौ । चित् तत् तथा तदाप्नोति सर्वात्मत्वाद् अविक्षतम्
सङ्कल्पस्वप्नवस्त्व् अङ्ग यया च दशयाप्यते । परमाभ्यासयोगाभ्यां विना सेह न लभ्यते
येषां तु योगविज्ञानदृष्टयः फलितास् स्थिताः । सर्वं सर्वत्र पश्यन्ति त एते शङ्करादयः
इदम् अग्रगतं वस्तु तथासङ्कल्पितं च यः । प्रार्थयत्य् उभयभ्रंशं स प्राप्नोत्य् उभयाश्रयात्
सर्वं ह्य् अभिमतं कार्यम् एकनिष्ठस्य सिध्यति । दक्षिणां ककुभं गच्छन् कः प्राप्नोत्य् उत्तरां दिशम्
सङ्कल्पार्थपरैर् एव सङ्कल्पार्थो ऽवगम्यते । अग्रस्थार्थपरैर् अग्रसंस्थितो ऽर्थो ऽवगम्यते