भ्रमस्यासन्मयस्यास्य जातस्याकाशवर्णवत् । असंवेदनमात्रैकमार्जनीयस्य वस्तुतः
असन्मयी खरूपैषा वरं सत्तैव लालनी । प्रवर्ततां विनोदाय किम् असन् नः करिष्यति
तत् तान् सर्वान् स्वसंसारान् उत्थायालोकयाम्य् अहम् । कांश्चिद् आलोकदानेन तेभ्य एकीकरोम्य् अहम्
इति सञ्चिन्त्य रुद्रो ऽसौ तं सर्गं प्रजगाम ह । यत्र भिक्षुर् विहारस्थस् सुप्तश् शव इव स्थितः
बोधयित्वाथ तं भिक्षुं चेतसा चेतनेन च । योजयाम् आस सस्मार भिक्षुर् अप्य् आत्मनो भ्रमम्
रुद्रम् आत्मानम् आलोक्य जीवटादिमयं तथा । बोधाद् अविस्मयार्हो ऽपि स्थित्यर्थं विस्मयं ययौ
अथ रुद्रस् तथा भिक्षुर् द्वाव् एवोत्थाय जग्मतुः । क्वापि जीवटसंसारं चिदाकाशैककोणगम्
तत्र तद्भवनं गत्वा तद् द्वीपं तच् च मण्डलम् । विषयं तं पुरं तच् च तच् च पानवणिग्गृहम्
सुप्तं ददृशतुर् नष्टसञ्ज्ञं जीवटकं शवम् । स्थापयित्वा वपुर्भारं प्रभ्रान्तं भवभूमिषु
तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च । एकरूपास् त्रिरूपास् ते रुद्रजीवटभिक्षुकाः
बोधवन्तो ऽप्य् अबुद्धाभा विस्मिता अप्य् अविस्मिताः । बभुस् तूष्णीं स्थिताश् चित्रे कृताकारा इव क्षणम्
अथ जग्मुश् च ते सर्वे क्वचिच् चिद्व्योमनि स्थितम् । विप्रसंसारम् आरम्भपरभूतसघुङ्घुमम्
तत्र तद्भवनं गत्वा तद् द्वीपं तच् च मण्डलम् । विषयं तं च तं ग्रामं प्रापुस् ते ब्राह्मणालयम्
विप्रं ते ददृशुस् सुप्तं कलत्रवलितं गृहे । कण्ठे गृहीतं ब्राह्मण्या बहिर्जीवम् इव स्थितम्
तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च । तस्थुस् ते बहवो ऽप्य् एके सविस्मयम् अविस्मयाः
अथ जग्मुश् चिदाकाशकचितं चेतितं च तैः । सामन्तनृपसंसारम् आरम्भभरसुन्दरम्
तत्र तद्भवनं प्रापुस् तद् द्वीपं तच् च मण्डलम् । सामन्तं ददृशुर् मत्तं सुप्तं पर्यङ्कपङ्कजे
हेमावदातं हेमाङ्ग्या निहितं कुचकोटरे । भ्रमर्येवान्वितं पद्मकोशसुप्तं मधुव्रतम्
कान्ताभिर् अभ्यावलितं मञ्जरीभिर् इव द्रुमम् । दीपजालकमध्यस्थं रत्नौघ इव काञ्चनम्
तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च । तस्थुस् ते बहवो ऽप्य् एवं सविस्मयम् अविस्मयम्
अथ ते राजसंसारं जग्मुस् तत्र प्रबोध्य तम् । तेन सार्धम् अथान्यासु भ्रेमुस् संसृतिभूमिषु
प्राप्य तां ब्रह्महंसेहां रुद्रतां सर्व एव ते । समाजग्मुर् विरेजुश् च रुद्राणाम् उत्तमं शतम्
एकसंविद् भिन्नतनु चित्रचेष्टम् अचेष्टितम् । एकरूपम् अनेकात्म रूपं च परमेश्वरम्
रुद्राणां तच् छतम् अथ निरावरणचिन्मयम् । सर्वसंसारगं विद्धि स्थितं सर्वजगत्स्थिति
दश रुद्रशतानीह सन्ति राम महान्ति च । एतद् एकादशं विद्धि संसारं प्रति संस्थितम्
यो यो हि यस्य जीवस्य संसारस् समुदेति हि । तत्राप्रबुद्धा जीवौघाः पश्यन्ति न परस्परम्
मिलन्ति हि मिथो बुद्धास् तरङ्गाम्ब्व् इव वारिधौ । अप्रबुद्धास् स्वतामात्रनिष्ठा लोष्टवद् आस्थिताः
यथा द्रवत्वाद् वीच्यम्बून्य् अन्योऽन्यं सम्मिलन्त्य् अलम् । तथा प्रबुद्धा जीवौघा मिथश् चित्त्वान् मिलन्त्य् अलम्
प्रत्येकम् उदिताश् चैते संसारे जीवराशयः । चिद्धातोस् सर्वगत्वेन त्व् असत्यास् सत्यवत् स्थिताः
यद् यद् आखन्यते भूमेस् तत् तन् नाम यथाङ्ग मृत् । सर्वगायाश् चितेर् यद् यद् ऊह्यते तत् तथेह चित्