सामन्तताम् अवापासौ विप्रस् सततचिन्तिताम् । सातत्येन रसः पीतः फलताम् एति पादपे
राज्यार्थधर्मकार्याणां कर्तृत्वात् सो ऽभवन् नृपः । स कामुकतया राजा सुरस्त्रीत्वम् अवाप ह
लोललोचनलोभेन सा मृगी रसशालिनी । बभूव वासनामोहस् त्व् अहो दुःखाय जन्तुषु
मृगी सततचित्तस्था बभूव विपिने लता । अवश्यम्भावि लवनं लतिकानुबभूव ह
अन्तस्सञ्ज्ञाचिराभ्यस्तं भ्रमरत्वम् अथात्मनि । सापश्यद् भावमर्देन सदातद्भावभाविता
स वारणखुरक्षोदम् अनुभूयाथ भावितम् । भूयो भूयः प्रबभ्राम महासंसृतिविभ्रमान्
संसारशतपर्यन्ते रुद्रस् सो ऽयम् अहं स्थितः । अस्मिन् संसारसंरम्भे स्वमनोमात्रसम्भृते
एवं संशान्तरूपासु संसारारण्यभूमिषु । बह्वीष्व् अहम् अभिभ्रान्तस् त्व् अशून्यास्व् इव भूरिशः
कस्मिंश्चिद् अभवं सर्गे त्व् अहं जीवटनामकः । कस्मिंश्चिद् ब्राह्मणश्रेष्ठः कस्मिंश्चिद् वसुधाधिपः
हंसः पद्मवने भूत्वा विन्ध्यकच्छे च वारणः । हरिणो हेहयाद्रौ च दशाम् अहम् इमां गतः
अत्र वर्षसहस्राणि चतुर्युगशतानि च । समतीतान्य् अनन्तानि दिनर्तुरचितानि च
मम प्रथमम् एव प्राक्स्फुरितस्य परात् पदात् । सत्त्वजातितया रूढो भिक्षुत्वे यो ज्ञताक्रमः
भूयो भूयो ऽप्य् अतिक्रम्य गतस्य ब्रह्महंसताम् । स एव प्राक्तनो ऽभ्यासः फलितस् सङ्गमोदयात्
दृढाभ्यासो य एवास्य जीवस्योदेत्य् अविघ्नतः । योन्यन्तरशतेनापि तम् एवैषो ऽनुधावति
काकतालीययोगेन कदाचित् साधुसङ्गमात् । अशुभो वासनाभ्यासो जीवस्य विनिवर्तते
सङ्गत्यादिकम् एवैष केवलं स्वोदयं प्रति । प्राक्तनो वासनाभ्यासो हेतुं लघुम् अपेक्षते
यद् यद् अभ्यस्यते ऽजस्रम् अन्यदेहान्तरे ऽपि च । जाग्रत्स्वप्नेष्व् असद् अपि तत् सद् इत्य् अनुभूयते
तत् तद् अर्थक्रियाकारि दुःखाय च सुखाय च । उदेति भावना तस्माद् भावनाभावनं जयः
भावनैव स्वम् आत्मानं देहो ऽयम् इति पश्यति । स्वसत्तामात्रविस्तारं तं गुल्मत्वम् इवाङ्कुरः
भावना प्रेक्ष्यमाणैषा न किञ्चिद् अपि शिष्यते । नैव विद्यत एवेति तद्भ्रमेणालम् अस्तु नः
भ्रमस्यासन्मयस्यास्य जातस्याकाशवर्णवत् । असंवेदनमात्रैकमार्जनीयस्य वस्तुतः
असन्मयी खरूपैषा वरं सत्तैव लालनी । प्रवर्ततां विनोदाय किम् असन् नः करिष्यति
तत् तान् सर्वान् स्वसंसारान् उत्थायालोकयाम्य् अहम् । कांश्चिद् आलोकदानेन तेभ्य एकीकरोम्य् अहम्
इति सञ्चिन्त्य रुद्रो ऽसौ तं सर्गं प्रजगाम ह । यत्र भिक्षुर् विहारस्थस् सुप्तश् शव इव स्थितः
बोधयित्वाथ तं भिक्षुं चेतसा चेतनेन च । योजयाम् आस सस्मार भिक्षुर् अप्य् आत्मनो भ्रमम्
रुद्रम् आत्मानम् आलोक्य जीवटादिमयं तथा । बोधाद् अविस्मयार्हो ऽपि स्थित्यर्थं विस्मयं ययौ
अथ रुद्रस् तथा भिक्षुर् द्वाव् एवोत्थाय जग्मतुः । क्वापि जीवटसंसारं चिदाकाशैककोणगम्
तत्र तद्भवनं गत्वा तद् द्वीपं तच् च मण्डलम् । विषयं तं पुरं तच् च तच् च पानवणिग्गृहम्
सुप्तं ददृशतुर् नष्टसञ्ज्ञं जीवटकं शवम् । स्थापयित्वा वपुर्भारं प्रभ्रान्तं भवभूमिषु
तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च । एकरूपास् त्रिरूपास् ते रुद्रजीवटभिक्षुकाः