सेवमानो वनलताः पुनर् आयात् स पद्मिनीम् । दुस्तरो हि चिराभ्यासो वासनानाम् अबोधतः
तत्र हस्तिखुराक्रान्त्या पुनर् आचूर्णतां ययौ । पार्श्वस्थहंससंवित्त्या बभूव कलहंसकः
स हंसः फुल्लपद्मासु सरसीषु चिरं चरन् । कदाचिद् बहुभिर् हंसैस् सङ्गतो विरराज ह
ब्रह्महंसात्मिका संविद् अशब्दार्थवती मनाक् । तत्र पुस्फोर तस्यान्तः प्राग्जाण्डरसबर्हिवत्
स तां विभावयन् दूराद् दृढं दाशेषुणा हतः । तत्संवित्त्यनुसन्धानाज् जातः पद्मजसारसः
तत्रातिसन्ततविवेकवचोविलासैर् आबोधितो ऽधिगतपावनवस्तुदृष्टिः । मुक्तस् स्थितो ननु युगान्तविधौ विदेहमुक्तेन तेन किल भाव्यम् अवश्यम् एव
स कदाचिद् ददर्शाथ रुद्रं रुद्रपुरे खगः । वैरिञ्चनलिनीनाललीलालानेभलीलया
तत्र बुद्धिर् अभूत् तस्य रुद्रो ऽहम् इति निश्चिता । प्रतिबिम्बं वरादर्शे झगित्य् एव हि बिम्बति
रुद्रीभूतवपुस् तत्र तनुं तत्याज ताम् असौ । गन्धः पवनतां गच्छन् कुसुमस्तबकं यथा
रुद्रो ऽथ रुद्रभवने विजहार यदृच्छया । तैस् तैश् शिवपुराचारैर् गणगोष्ठीगरिष्ठया
रुद्रस् त्व् अनुत्तरज्ञानविलासैकतया तया । स्वम् अशेषम् उदन्तं तम् अपश्यत् प्राक्तनं धिया
निरावरणविज्ञानवपुस् स भगवान् हरः । उवाच स्वयम् एकान्ते स्वस्वप्नशतविस्मितः
अहो नु चित्रा मायेयं बत विश्वविमोहिनी । असत्य् एवापि सद्रूपा सुरूढा मरुवारिवत्
इदम्प्रथमम् आक्रान्तचेत्यो ऽहं चित्ततां गतः । पूर्वसम्पन्नसर्गस्थगगनादिविभावनात्
यदृच्छास्थितजीवत्वो भूततन्मात्ररञ्जितः । कस्मिंश्चिद् अभवं सर्गे भिक्षुर् अक्षुभितो ऽभितः
तेनालयनिबद्धेन बहिस् स्वैरविहारिता । लीलाविलुलिताकारा यदा रम्येति भाविता
सर्वभावोपमर्देन तदभ्यासवशात् तदा । ताम् एव सो ऽन्वभूद् भिक्षुस् त्यक्त्वान्यं मननोदयम्
चमत्कृतिश् चेतसि या रूढा सैव विजृम्भते । वल्ली त्यजति नैदाघी पीतम् अप्य् अम्बु माधवम्
स भिक्षुर् जीवटो भूत्वा जन्तुर् जरढवासनः । तेषु देशेषु बभ्राम रन्ध्रेष्व् इव पिपीलकः
आत्मनि द्विजभक्तत्वात् सो ऽपश्यद् द्विजताम् अथ । भावो भावविपर्यासे बलवान् एव वर्धते
सामन्तताम् अवापासौ विप्रस् सततचिन्तिताम् । सातत्येन रसः पीतः फलताम् एति पादपे
राज्यार्थधर्मकार्याणां कर्तृत्वात् सो ऽभवन् नृपः । स कामुकतया राजा सुरस्त्रीत्वम् अवाप ह
लोललोचनलोभेन सा मृगी रसशालिनी । बभूव वासनामोहस् त्व् अहो दुःखाय जन्तुषु
मृगी सततचित्तस्था बभूव विपिने लता । अवश्यम्भावि लवनं लतिकानुबभूव ह
अन्तस्सञ्ज्ञाचिराभ्यस्तं भ्रमरत्वम् अथात्मनि । सापश्यद् भावमर्देन सदातद्भावभाविता
स वारणखुरक्षोदम् अनुभूयाथ भावितम् । भूयो भूयः प्रबभ्राम महासंसृतिविभ्रमान्
संसारशतपर्यन्ते रुद्रस् सो ऽयम् अहं स्थितः । अस्मिन् संसारसंरम्भे स्वमनोमात्रसम्भृते
एवं संशान्तरूपासु संसारारण्यभूमिषु । बह्वीष्व् अहम् अभिभ्रान्तस् त्व् अशून्यास्व् इव भूरिशः
कस्मिंश्चिद् अभवं सर्गे त्व् अहं जीवटनामकः । कस्मिंश्चिद् ब्राह्मणश्रेष्ठः कस्मिंश्चिद् वसुधाधिपः
हंसः पद्मवने भूत्वा विन्ध्यकच्छे च वारणः । हरिणो हेहयाद्रौ च दशाम् अहम् इमां गतः