स कदाचिन् नृपस् स्वस्थस् सुष्वापास्तमितेहितः । पुरोभाविनिजाचारस् स्वं कार्यम् इव कारणे
अपश्यद् आत्मनि स्वप्ने सुरस्त्रीत्वम् अनिन्दितम् । वृक्षः केसरसोल्लासो मञ्जरीत्वम् इवोदितम्
सा रेमे सुरसेनासु देवोद्यानस्थलीषु च । क्षीराम्भोधितरङ्गेषु लोलेव हरिवल्लभा
सुष्वाप सैकदा बाला मत्तोद्यानलतागृहे । संशान्तस्वमनस्स्पन्दं गन्धलेखेव पङ्कजे
ददर्शात्मन्य् अथ स्वप्ने संसर्गवशतोदितम् । मृगीत्वम् आत्मनि स्वैरम् आवर्तत्वम् इवाम्बुता
सा मृगी लोलनयना कदाचिन् निद्रयाहृता । स्वप्ने ददर्श वल्लीत्वं स्वाभ्यासाद् रूढम् आत्मनि
तिर्यञ्चो ऽपि प्रपश्यन्ति स्वप्नं चित्तस्वभावतः । दृष्टान्तो ऽत्र शुकाश्वेभसञ्ज्ञास्मरणम् अक्षतम्
सा बभूव लता पुष्पफलपल्लवशालिनी । वनदेवीवनोद्यानलतागृहविलासिनी
बीजान्तस्स्थाङ्कुराकाररूपयेहाधिरूढया । सापश्यद् अन्तस्संवित्त्या स्फुटं लवनम् आत्मनः
कञ्चित् कालं सुषुप्तस्थकलया जडतां घनम् । अनुभूय ददर्शाथ स्वात्मानं भ्रमरं स्थितम्
षट्पदो विजहाराथ वने वनलतास्व् असौ । पद्मिनीषु च फुल्लासु तरुणीष्व् इव वल्लभः
बिम्बाधरं विदलयन् स्वादयन् कौसुमं मधु । स्वपन् कुसुमशय्यासु भुक्त्वा वल्लीविलासिनीः
स बभूव सरोजिन्यां व्यसनी बिसनालवत् । क्वचिद् एव रतिं याति चेतो जडमतेर् अपि
ताम् आजगाम नलिनीं परिलोडयितुं गजः । रम्यवस्तुक्षयायैव मूढानां जृम्भते मनः
नलिनीमथनेनैव समं तेन स षट्पदः । गुणवत्तान्तरे रूढिर् इव चूर्णत्वम् आययौ
भ्रमरो वारणालोकाद् वारणालोकभावनात् । ददर्शात्मानम् आलोलमत्तहस्तितयोदितम्
शुष्कसागरगम्भीरे गजः खाते पपात ह । तमोघनघने शून्ये संसार इव जीवकः
बभूव वल्लभो राज्ञो महान् परबलान्तकः । सदा मदबलक्षीवो घूर्णन्न् इव निशाचरः
कदाचिद् अरिनिस्त्रिंशच्छिन्नस् सो ऽस्तम् उपाययौ । विवेकासिलतालूनरूपो जीव इवात्मनि
पश्यन् गजघटाकुम्भमणीन् प्रोच्छलितान् अलीन् । उत्क्रामन् स गजाज् जीवो भूयो द्रागित्य् अभूद् अलिः
सेवमानो वनलताः पुनर् आयात् स पद्मिनीम् । दुस्तरो हि चिराभ्यासो वासनानाम् अबोधतः
तत्र हस्तिखुराक्रान्त्या पुनर् आचूर्णतां ययौ । पार्श्वस्थहंससंवित्त्या बभूव कलहंसकः
स हंसः फुल्लपद्मासु सरसीषु चिरं चरन् । कदाचिद् बहुभिर् हंसैस् सङ्गतो विरराज ह
ब्रह्महंसात्मिका संविद् अशब्दार्थवती मनाक् । तत्र पुस्फोर तस्यान्तः प्राग्जाण्डरसबर्हिवत्
स तां विभावयन् दूराद् दृढं दाशेषुणा हतः । तत्संवित्त्यनुसन्धानाज् जातः पद्मजसारसः
तत्रातिसन्ततविवेकवचोविलासैर् आबोधितो ऽधिगतपावनवस्तुदृष्टिः । मुक्तस् स्थितो ननु युगान्तविधौ विदेहमुक्तेन तेन किल भाव्यम् अवश्यम् एव
स कदाचिद् ददर्शाथ रुद्रं रुद्रपुरे खगः । वैरिञ्चनलिनीनाललीलालानेभलीलया
तत्र बुद्धिर् अभूत् तस्य रुद्रो ऽहम् इति निश्चिता । प्रतिबिम्बं वरादर्शे झगित्य् एव हि बिम्बति
रुद्रीभूतवपुस् तत्र तनुं तत्याज ताम् असौ । गन्धः पवनतां गच्छन् कुसुमस्तबकं यथा
रुद्रो ऽथ रुद्रभवने विजहार यदृच्छया । तैस् तैश् शिवपुराचारैर् गणगोष्ठीगरिष्ठया