देशकालक्रियाद्रव्यरत्नशम्बरशापजाः । मयगन्धर्वजनिता अनन्तास् सत्यसम्भवाः
असम्भवस् सम्भवानाम् अपीहाभ्युपपद्यते । सम्भवासम्भवांशस्य सिद्धयस् स्वप्नविभ्रमाः
न तद् अस्ति न यत् सत्यं न तद् अस्ति न यन् मृषा । सर्वं सर्वेण सर्वत्र स्वप्ने सर्गाभिधानके
स्वप्ने निमग्नधीर् जन्तुः पश्यति स्थिरतां यथा । सर्गस्वप्ने मग्नबुद्धिः पश्यति स्थिरतां तथा
भ्रमाद् भ्रमान्तरं गच्छन् स्वप्नात् स्वप्नान्तरं व्रजन् । अतिस्थिरप्रत्ययभाग् इह जीवो विमुह्यति
श्वभ्रान्तरं श्वभ्रनिपातदोषात् सम्प्राप्नुवन् मुग्धमृगः प्रयाति । मोहं यथा पातमयैकरूपं जीवस् तथा संसृतिपातमूढः
अत्र राघव वक्ष्ये ऽहम् इतिहासम् इमं शृणु । यद् वृत्तं कस्यचिद् भिक्षोः क्वचिन् मननशालिनः
आसीत् कश्चिन् महाभिक्षुस् समाध्यभ्यासतत्परः । नित्यं स्वव्यवहारेण क्षपयन्न् अखिलं दिनम्
समाध्यभ्यासशुद्धं तत् तस्य चित्तं क्षणेन यत् । चिन्तयत्य् आशु तद्भावं गच्छत्य् अम्ब्व् इव वीचिताम्
कदाचित् स समाधानविरतो ऽतिष्ठद् एकधीः । कञ्चित् सञ्चिन्तयाम् आस स्वासनस्थः क्रियाक्रमम्
तस्य चिन्तयतो जाता प्रतिभेयम् अथ स्वतः । भावयाम्य् आशु लीलार्थं सामान्यजनवृत्तिताम्
इति सञ्चिन्त्य चेतो ऽस्य स्थितं किञ्चिन् नरान्तरम् । स्पन्दसंस्थानसन्त्यागमात्रेणावर्तके ऽम्ब्व् इव
तेन चित्तनरेणाथ कृतं नामात्मनीच्छया । जीवटो ऽस्मीति सहसा काकतालीयवत् स्थितम्
जीवटो विजहाराथ स स्वप्नपुरुषश् चिरम् । स्वप्ननिर्माणनगरे कस्मिंश्चित् पुरवीथिषु
तत्र पानं पपौ मत्तो भृङ्गः पद्मरसं यथा । शिलयेव दृढं पिष्टस् सुष्वाप घननिद्रया
स्वप्ने ददर्श विप्रत्वं पाठानुष्ठानतुष्टिमत् । प्रतिभामात्रसम्पन्नं चित्तदेशान्तराप्तिवत्
कदाचित् स द्विजश्रेष्ठस् स्वाहर्व्यापारनिष्ठया । आजगाम घनां निद्रां बीजताम् इव पादपः
सो ऽप्य् अपश्यत् स्वयं स्वप्ने सामन्तत्वम् अथात्मनि । पताकारथहस्त्यश्वसेनाजलदमालितम्
स सामन्तः कृताहारः कदाचिद् घननिद्रया । सुष्वापान्तर्व्यवहृतिर् बीजतायाम् इव द्रुमः
अपश्यद् राजतां स्वप्ने ककुब्वलयमालिनीम् । लालितां भोगपूगेन पुष्पौघेनर्तुताम् इव
स कदाचिन् नृपस् स्वस्थस् सुष्वापास्तमितेहितः । पुरोभाविनिजाचारस् स्वं कार्यम् इव कारणे
अपश्यद् आत्मनि स्वप्ने सुरस्त्रीत्वम् अनिन्दितम् । वृक्षः केसरसोल्लासो मञ्जरीत्वम् इवोदितम्
सा रेमे सुरसेनासु देवोद्यानस्थलीषु च । क्षीराम्भोधितरङ्गेषु लोलेव हरिवल्लभा
सुष्वाप सैकदा बाला मत्तोद्यानलतागृहे । संशान्तस्वमनस्स्पन्दं गन्धलेखेव पङ्कजे
ददर्शात्मन्य् अथ स्वप्ने संसर्गवशतोदितम् । मृगीत्वम् आत्मनि स्वैरम् आवर्तत्वम् इवाम्बुता
सा मृगी लोलनयना कदाचिन् निद्रयाहृता । स्वप्ने ददर्श वल्लीत्वं स्वाभ्यासाद् रूढम् आत्मनि
तिर्यञ्चो ऽपि प्रपश्यन्ति स्वप्नं चित्तस्वभावतः । दृष्टान्तो ऽत्र शुकाश्वेभसञ्ज्ञास्मरणम् अक्षतम्
सा बभूव लता पुष्पफलपल्लवशालिनी । वनदेवीवनोद्यानलतागृहविलासिनी
बीजान्तस्स्थाङ्कुराकाररूपयेहाधिरूढया । सापश्यद् अन्तस्संवित्त्या स्फुटं लवनम् आत्मनः
कञ्चित् कालं सुषुप्तस्थकलया जडतां घनम् । अनुभूय ददर्शाथ स्वात्मानं भ्रमरं स्थितम्