न तद् अस्ति जगत्य् अस्मिन् यन् न सम्भवति भ्रमे । विचित्रास् त्रिषु लोकेषु दृश्यन्ते वस्तुदृष्टयः
जलमध्ये ज्वलत्य् अग्निर् यथाब्धौ वडवानलः । नगराण्य् अम्बरे सन्ति यथा वैमानिकाश्रयाः
शिलास्व् अब्जानि जायन्ते हेमाद्राव् इव पादपाः । एकागे सर्वपुष्पाणि सन्ति कल्पतरौ यथा
शिलाः फलन्ति फलवद् यथा रत्नगुलुच्छकाः । शिलान्तः प्राणिनस् सन्ति भेका इव शिलान्तरे
दृषदो वारि निर्याति चन्द्रकान्तोपलाद् इव । निमेषेण घटो याति पटतां शापवान् इव
स्वासत्ताम् अपि बुध्यन्ते स्वप्ने स्वमरणं यथा । अधोगामि जलं व्योम्नि डीयते ऽभ्रगतं यथा
वितानम् इव खे वारि तिष्ठति स्वर्नदी यथा । उड्डीयन्ते शिलास् स्थूलाः पक्षवन्तो ऽद्रयो यथा
शिलातः प्राप्यते सर्वं ननु चिन्तामणेर् इव । चिन्तितानि फलन्त्य् आशु देवोद्यानान्तरेष्व् इव
तान्य् एव न फलन्त्य् आशु मोक्षादीनीव राघव । अचेतनो ऽपि कुरुते कर्म यन्त्रपुमान् इव
एवमादिस् तथान्यश् च विचित्रारम्भविभ्रमः । दृष्टश् शम्बरगन्धर्वविलासैर् अप्य् असम्भवः
देशकालक्रियाद्रव्यरत्नशम्बरशापजाः । मयगन्धर्वजनिता अनन्तास् सत्यसम्भवाः
असम्भवस् सम्भवानाम् अपीहाभ्युपपद्यते । सम्भवासम्भवांशस्य सिद्धयस् स्वप्नविभ्रमाः
न तद् अस्ति न यत् सत्यं न तद् अस्ति न यन् मृषा । सर्वं सर्वेण सर्वत्र स्वप्ने सर्गाभिधानके
स्वप्ने निमग्नधीर् जन्तुः पश्यति स्थिरतां यथा । सर्गस्वप्ने मग्नबुद्धिः पश्यति स्थिरतां तथा
भ्रमाद् भ्रमान्तरं गच्छन् स्वप्नात् स्वप्नान्तरं व्रजन् । अतिस्थिरप्रत्ययभाग् इह जीवो विमुह्यति
श्वभ्रान्तरं श्वभ्रनिपातदोषात् सम्प्राप्नुवन् मुग्धमृगः प्रयाति । मोहं यथा पातमयैकरूपं जीवस् तथा संसृतिपातमूढः
अत्र राघव वक्ष्ये ऽहम् इतिहासम् इमं शृणु । यद् वृत्तं कस्यचिद् भिक्षोः क्वचिन् मननशालिनः
आसीत् कश्चिन् महाभिक्षुस् समाध्यभ्यासतत्परः । नित्यं स्वव्यवहारेण क्षपयन्न् अखिलं दिनम्
समाध्यभ्यासशुद्धं तत् तस्य चित्तं क्षणेन यत् । चिन्तयत्य् आशु तद्भावं गच्छत्य् अम्ब्व् इव वीचिताम्
कदाचित् स समाधानविरतो ऽतिष्ठद् एकधीः । कञ्चित् सञ्चिन्तयाम् आस स्वासनस्थः क्रियाक्रमम्
तस्य चिन्तयतो जाता प्रतिभेयम् अथ स्वतः । भावयाम्य् आशु लीलार्थं सामान्यजनवृत्तिताम्
इति सञ्चिन्त्य चेतो ऽस्य स्थितं किञ्चिन् नरान्तरम् । स्पन्दसंस्थानसन्त्यागमात्रेणावर्तके ऽम्ब्व् इव
तेन चित्तनरेणाथ कृतं नामात्मनीच्छया । जीवटो ऽस्मीति सहसा काकतालीयवत् स्थितम्
जीवटो विजहाराथ स स्वप्नपुरुषश् चिरम् । स्वप्ननिर्माणनगरे कस्मिंश्चित् पुरवीथिषु
तत्र पानं पपौ मत्तो भृङ्गः पद्मरसं यथा । शिलयेव दृढं पिष्टस् सुष्वाप घननिद्रया
स्वप्ने ददर्श विप्रत्वं पाठानुष्ठानतुष्टिमत् । प्रतिभामात्रसम्पन्नं चित्तदेशान्तराप्तिवत्
कदाचित् स द्विजश्रेष्ठस् स्वाहर्व्यापारनिष्ठया । आजगाम घनां निद्रां बीजताम् इव पादपः
सो ऽप्य् अपश्यत् स्वयं स्वप्ने सामन्तत्वम् अथात्मनि । पताकारथहस्त्यश्वसेनाजलदमालितम्
स सामन्तः कृताहारः कदाचिद् घननिद्रया । सुष्वापान्तर्व्यवहृतिर् बीजतायाम् इव द्रुमः
अपश्यद् राजतां स्वप्ने ककुब्वलयमालिनीम् । लालितां भोगपूगेन पुष्पौघेनर्तुताम् इव