घ्राणे घ्राणतया दृष्टं गन्धे गन्धतयोदितम् । पुष्टं कायतया काये भूमाव् अपि च भूतया
पयस्तया च पयसि वायौ वायुतया स्थितम् । तेजस्तया तेजसि च बुद्धौ बुद्धितया गतम्
मनस्तया मनस्य् अन्तर् अहङ्कृत्याप्य् अहङ्कृतौ । रूढं संविदि संवित्त्या चिति चित्त्वेन चोत्थितम्
वृक्षे वृक्षतया लग्नं पटे पटतया स्थितम् । घटे घटतया रूढं वटे वटतया स्थितम्
स्थावरे स्थावरत्वेन जङ्गमत्वेन जङ्गमे । पाषाणत्वेन पाषाणे चेतनत्वेन चेतने
अमरेष्व् अमरत्वेन नरत्वेन नरेषु च । तिर्यक्त्वेन च तिर्यक्षु क्रिमित्वेन क्रिमिस्थितौ
कालक्रमे कालतया ऋताव् ऋतुतयानया । तुटिक्षणनिमेषादौ संस्थितस् तत्तया विभुः
शुक्ले शुक्लतया जातं कृष्णे कृष्णतया स्थितम् । क्रियासु स्पन्दरूपेण नियतौ नियमेन च
संस्थितस् संस्थितौ स्थित्या नाशे नाशतया स्थितः । उत्पत्तिरूपेणोत्पत्ताव् आस्थितः परमेश्वरः
बाल्ये बाल्येन विश्रान्तो यौवने यौवनेन च । जरसा च जरारूपे मरणे मरणेन च
इति सर्वपदार्थानाम् अभिन्नः परमेश्वरः । कल्लोलशीकरोर्मीणाम् अब्धाव् इव पयोभरः
नानातैषा त्व् असत्यैषा सत्येनानेन चैव हि । कल्पिता चित्स्वभावेन वेतालश् शिशुना यथा
सर्वत्र संस्थितिमता विगतामयेन व्याप्तं मयेदम् अखिलं विविधैर् विलासैः । चिद्रूपिणैव कलिताकलितात्मनेति सर्वोपशान्तमतिर् आस्स्व सुखं महात्मन्
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
यथास्माकं मुने स्वप्नपुरपत्तनमण्डलम् । तथैव पद्मजादीनां यदि देहपरिग्रहः
तथैवेदं च सञ्जातं यदि सर्वम् असन्मयम् । तद् अस्माकं दृढतरः प्रत्ययः कथम् उत्थितः
अस्मत्सर्गवद् आभाति पूर्वसर्गप्रजापतिः । स्वजीवप्रतिभासात्मा विद्यते न तु वास्तवः
सर्वगत्वाच् चितेस् सर्वं जीवस् सर्वत्र संसृतिः । सा चासत्या दर्शनोत्था सम्यग्दर्शननाशिनी
स्वप्नाभः प्रतिभासो ऽस्य य एष स्वयम् उत्थितः । अहन्ताप्रत्ययैकात्मा स एवातिदृढस् स्थितः
स्वप्ने क्षणविनाशित्वं यथा पुंसा न दृश्यते । सर्गस्वप्ने तथैवैतद् ब्रह्मणापि न लक्ष्यते
स्वप्नो ऽग्रपुरुषस्यास्य प्रतिभासश् च यो भवेत् । रामास्मदादिसर्गात्मा भवेत् तादृश एव सः
यत् स्वप्नपुरुषाज् जातं तत् स्वप्नपुरुषात्मकम् । भवतीत्य् अनुभूतं हि यद् बीजं तत् फलं यथा
असत्यम् एव तद् विद्धि यद् असत्येन साध्यते । असत्य् अर्थे समर्थे ऽपि न युक्तं भावबन्धनम्
असत्य् अर्थे समर्थे ऽपि सत्ता भावनसम्भवा । यतस् तेन परित्याज्यम् असद्भावनभावनम्
दृढप्रत्ययिनस् स्वप्नपुरुषाद् यत् समुत्थितम् । भवत्य् आत्मनि सर्गादि दृढप्रत्ययम् एव तत्
निमेषमात्रम् एवायं सर्गस्वप्नस् स्फुरन् स्थितः । तस्मिन् निमेष एवास्मत्कल्पता परिकल्पिता
सुदीर्घस्वप्नषण्डो ऽयं यथोदेति प्रजापतेः । सर्गाद्यास् सर्वभूतानां प्रत्येकम् उदितास् तथा
चित्तत्त्वस्यैव भावेन सर्गस्वप्नपरम्पराः । स्फुरन्त्य् अम्भो द्रवत्वेन यथावर्तविवर्तनैः
यदा स्वप्नात्मिकैवेयं सर्गलक्ष्मीर् न वास्तवी । इदं सम्भवतीदं नो वेत्य् अतः प्रलयं गतम्
यद् यथा यादृशं दृष्टं तत् तादृग् विद्यते तथा । न हि पर्यनुयुज्यन्ते स्वप्नविभ्रमनीतयः