विनाकृत्रिमया युक्त्या न सिद्धिर् अधिगम्यते । क्वचिद् आत्मनि लोके वा स्वाङ्गावदलनैर् अपि
चिच् चेत्यचैत्यकोटिस्था तावत् पश्यति विभ्रमम् । इयं यावद् अबोधात्मा स्पन्दते स्पन्दरूपिणी
सम्यग्बोधोदये त्व् अस्यास् स्पन्दास्पन्ददशाक्रमाः । क्वापि यान्तीव संशान्तदीपवत् साभिधानकाः
चितः प्रकाशरूपाया दीपिकायास् स्वभावतः । स्पन्दास्पन्दमयी नेह कथैवास्ति मनाग् अपि
यद् अस्पन्दस्य मरुतो न सन् नासन् न मध्यगम् । रूपं तद् एव संवित्तिस्पन्दता प्रशमोचिता
अभिन्नो ऽस्याश् चितेस् स्पन्दश् शुद्धचित्साररूपधृत् । न बन्धाय न मोक्षाय स्थित आत्मनि केवलम्
चिच् चेन् नञर्थसंवित्तिं निर्वाणेव न विन्दते । तद् बन्धमोक्षपक्षादेर् नामापि हि न विद्यते
मोक्षो ऽस्त्व् इत्य् एव बन्धो ऽन्तःपूर्णताक्षयकारणं । मास्त्व् इतीत्य् अपि बन्धस् ते श्रेयसे ऽवेदनं परम्
यद् अनाभासम् अजडं तद् विद्धि परमं पदम् । चितस् स्वरूपसंस्थानम् अचेत्योन्मुखतात्मकम्
यस् सङ्कल्पनशब्दार्थरूपस् स्पन्दो महाचितेः । बन्धमोक्षादिकार्हो ऽसौ प्रेक्ष्यमाणः प्रशाम्यति
प्रेक्षणाद् एव संशान्ते त्व् अहम्भावे निरास्पदे । न विद्मः केन किं कस्य बध्यते वाथ मुच्यते
सङ्कल्प एव च चितेर् बुद्धश् चेद् अविभागवान् । तद् असङ्कल्पम् अस्पन्दं सर्वं जातम् अवारितम्
स्पन्दे ऽस्पन्दतयैवात्ते तन्मयत्वात् सदा चिता । सङ्क्षीण एव संसारो निस्स्पन्दे चिद्घने स्थिते
चित्तेज एव चित्स्पन्द इति बुद्धे निरन्तरम् । व्यतिरिक्तश् चितस् स्पन्दो न कश्चिद् अवशिष्यते
अस्मिन् दृश्यमये दीर्घस्वप्ने स्वप्नान्तरं व्रजन् । न ज्ञो मोहम् उपादत्ते सर्वगत्वात् स्वसंविदः
यत्रोदेति प्रसभम् अनिशं सर्वसंवित्तिसत्ता यस्मिन्न् एते सकलकलनाकारटङ्का लगन्ति । उत्पद्यन्ते स्वदनसुभगं यत्र सर्वोपलम्भा ध्यानेनैनं तम् अवगमय प्रत्यगात्मानम् अन्तः
एनम् आहुः परं तत्त्वं विद्ध्य् एनं परमं पदम् । वेद्म्य् एनम् एकम् एवाहम् एष एवास्ति नेतरः
य एष प्रत्यगात्मान्तस् सर्वसत्तैकदर्पणः । एतस्माद् इदम् उत्पन्नं जगद् बीजाद् इव द्रुमः
बुद्ध्यहङ्कारचित्तादि वर्जयित्वा जडात्मकम् । यत्रानुभवितान्तस् ते तद् विद्धि परमं पदम्
शुद्धानुभवमात्रं यन् मनोबुद्ध्यादिवर्जितम् । महाचिदभिधं पुण्यं तद् एतत् परमं पदम्
तत्स्था एते महारूपा ब्रह्मविष्णुहरादयः । विभूतिभिस् स्फुरन्त्य् उच्चैर् जनास् तुष्टनृपा इव
आकाशगमनाद्याभिः क्रीडाभिः क्रीड्यते चिरम् । तत्स्थेनैव जनेनेह स्वर्गे स्वर्गौकसा यथा
तत् प्राप्य नाङ्ग म्रियते तत् प्राप्याङ्ग न शोच्यते । तत् प्राप्य क्षीयते नाङ्ग तत् प्राप्याङ्ग न बध्यते
अपारपरमाकाशरूपिणः परमात्मनः । सत्तासामान्यरूपं चेन् मनाग् अपि विभाव्यते
तत् तन्निमेषमात्रेण जन्तुर् मुक्तमना मुनिः । कुर्वन् संसारकर्माणि न भूयः परितप्यते
मनो बुद्धिर् अहङ्कार इति यत्र क्षयं गतम् । सत्तासामान्यम् आभानं किं तत् कीदृशम् उच्यते
यद् ब्रह्म सर्वदेहस्थं भुङ्क्ते पिबति वल्गति । आदत्ते विनिहन्त्य् अत्ति संवित्संवेद्यवर्जितम्
तत् सर्वगतम् आद्यन्तरहितं स्थितम् ऊर्जितम् । सत्तासामान्यम् अखिलं वस्तुतत्त्वम् इहोच्यते
तत् स्थितं खतया व्योम्नि शब्दे शब्दतया स्थितम् । स्पर्शे स्थितं स्पर्शतया त्वचि तत् त्वक्तया स्थितम्
रसे लीनं रसतया रसनायां च तत्तया । रूपे रूपतया दृष्टं नेत्रे लीनं च दृक्तया