शून्यत्वम् अजडं यत् तत् परम् आहुश् चितेर् वपुः । नञर्थाभावना यात्र संसृतिस् सानुभूयते
अभावनामात्रलया सा च निस्साररूपिणी । केवलं केवलीभावस् स्वस् सद्रूपो ऽवशिष्यते
चित्स्पन्द एव संसारचक्रप्रवहणं विदुः । मातृमानप्रमेयादि कटकादीव हेमनि
पृथग् अस्ति न च स्पन्दश् चितेर् यस् संसृतिर् भवेत् । चित्त्वम् एव चितेस् स्पन्दस् तदबोधो हि संसृतिः
अबोधमात्रं चित्स्पन्दः कटकत्वम् इवोत्थितम् । बोधमात्रविलीने ऽस्मिञ् शुद्धं चिद्धेम शिष्यते
सत्यावबोधमात्रेण क्षीयते भोगभावना । भोगाभावनम् एवेह परमं ज्ञत्वलक्षणम्
इमे ऽनभिमतास् सर्वे ज्ञस्य भोगास् स्वभावतः । भवन्ति को ऽतितृप्तो हि दुरन्नं किल वाञ्छति
एतद् एव परं विद्धि ज्ञत्वस्य परलक्षणम् । स्वभावेनैव भोगानां यत् किलानभिवाञ्छनम्
चिद् अस्पन्दैव सर्वात्मरूपिण्य् अस्तीति निश्चयः । यो ऽन्तः प्ररूढस् स्वाभ्यासाज् ज्ञत्वशब्देन स स्मृतः
यो न भुङ्क्ते भुज्यमानान् अपि भोगान् अबुद्धिमान् । लोकानुरोधसिद्ध्यर्थं स हन्ति लगुडैर् नभः
विनाकृत्रिमया युक्त्या न सिद्धिर् अधिगम्यते । क्वचिद् आत्मनि लोके वा स्वाङ्गावदलनैर् अपि
चिच् चेत्यचैत्यकोटिस्था तावत् पश्यति विभ्रमम् । इयं यावद् अबोधात्मा स्पन्दते स्पन्दरूपिणी
सम्यग्बोधोदये त्व् अस्यास् स्पन्दास्पन्ददशाक्रमाः । क्वापि यान्तीव संशान्तदीपवत् साभिधानकाः
चितः प्रकाशरूपाया दीपिकायास् स्वभावतः । स्पन्दास्पन्दमयी नेह कथैवास्ति मनाग् अपि
यद् अस्पन्दस्य मरुतो न सन् नासन् न मध्यगम् । रूपं तद् एव संवित्तिस्पन्दता प्रशमोचिता
अभिन्नो ऽस्याश् चितेस् स्पन्दश् शुद्धचित्साररूपधृत् । न बन्धाय न मोक्षाय स्थित आत्मनि केवलम्
चिच् चेन् नञर्थसंवित्तिं निर्वाणेव न विन्दते । तद् बन्धमोक्षपक्षादेर् नामापि हि न विद्यते
मोक्षो ऽस्त्व् इत्य् एव बन्धो ऽन्तःपूर्णताक्षयकारणं । मास्त्व् इतीत्य् अपि बन्धस् ते श्रेयसे ऽवेदनं परम्
यद् अनाभासम् अजडं तद् विद्धि परमं पदम् । चितस् स्वरूपसंस्थानम् अचेत्योन्मुखतात्मकम्
यस् सङ्कल्पनशब्दार्थरूपस् स्पन्दो महाचितेः । बन्धमोक्षादिकार्हो ऽसौ प्रेक्ष्यमाणः प्रशाम्यति
प्रेक्षणाद् एव संशान्ते त्व् अहम्भावे निरास्पदे । न विद्मः केन किं कस्य बध्यते वाथ मुच्यते
सङ्कल्प एव च चितेर् बुद्धश् चेद् अविभागवान् । तद् असङ्कल्पम् अस्पन्दं सर्वं जातम् अवारितम्
स्पन्दे ऽस्पन्दतयैवात्ते तन्मयत्वात् सदा चिता । सङ्क्षीण एव संसारो निस्स्पन्दे चिद्घने स्थिते
चित्तेज एव चित्स्पन्द इति बुद्धे निरन्तरम् । व्यतिरिक्तश् चितस् स्पन्दो न कश्चिद् अवशिष्यते
अस्मिन् दृश्यमये दीर्घस्वप्ने स्वप्नान्तरं व्रजन् । न ज्ञो मोहम् उपादत्ते सर्वगत्वात् स्वसंविदः
यत्रोदेति प्रसभम् अनिशं सर्वसंवित्तिसत्ता यस्मिन्न् एते सकलकलनाकारटङ्का लगन्ति । उत्पद्यन्ते स्वदनसुभगं यत्र सर्वोपलम्भा ध्यानेनैनं तम् अवगमय प्रत्यगात्मानम् अन्तः
एनम् आहुः परं तत्त्वं विद्ध्य् एनं परमं पदम् । वेद्म्य् एनम् एकम् एवाहम् एष एवास्ति नेतरः
य एष प्रत्यगात्मान्तस् सर्वसत्तैकदर्पणः । एतस्माद् इदम् उत्पन्नं जगद् बीजाद् इव द्रुमः
बुद्ध्यहङ्कारचित्तादि वर्जयित्वा जडात्मकम् । यत्रानुभवितान्तस् ते तद् विद्धि परमं पदम्
शुद्धानुभवमात्रं यन् मनोबुद्ध्यादिवर्जितम् । महाचिदभिधं पुण्यं तद् एतत् परमं पदम्