समग्राकाररूपं तत् समग्राकारवर्जितम् । वागतीतं परं वस्तु केन नामोपमीयते
विषयविषविषूचिकाम् अतस् त्वं निपुणम् अहंस्थितिवासनाम् अपास्य । अभिमतपरिहारयत्नयुक्त्या भव विरुजो भुवनैकनाथमूर्तिः
इति गदितवति त्रिलोकनाथे क्षणम् इव मौनम् अवस्थिते पुरस्तात् । अथ मधुप इवासिताब्जषण्डे वचनम् उपैष्यति तत्र पाण्डुपुत्रः
परिगलितसमस्तशोकभावा परम् उदयं भगवन् मतिर् गतेयम् । मम तव वचनेन लोकभर्तुर् दिनपतिना परिबोधिताब्जिनीव
इत्य् उक्त्वोत्थाय गाण्डीवधन्वा स हरिसारथिः । अर्जुनो गतसन्देहो रणलीलां करिष्यति
करिष्यति क्षतगजवाजिसारथिद्रुतद्रवद्रुधिरमहानदीं भुवम् । शरोत्करप्रसरमयाभ्रमण्डलीतिरोहितद्युमणिविलोचनां दिवम्
एतां दृष्टिम् अवष्टभ्य राघवाघविघातिनीम् । तिष्ठ निस्सङ्गसन्न्यासब्रह्मार्पणमयात्मिकाम्
यस्मिन् सर्वं यतस् सर्वं यस् सर्वं सर्वतश् च यः । यश् च सर्वमयो नित्य आत्मानं विद्धि तं परम्
दूरस्थम् अप्य् अदूरस्थं सर्वगं त्वं स्वम् एव च । तत्स्थस् तत्ताम् अवाप्नोषि तद् एवास्य् अस्तसंशयम्
यत् संवेद्यविनिर्मुक्तं संवेदनम् अनिन्दितम् । चेत्यमुक्तचिदाभासं तद् विद्धि परमं पदम्
सा परात् परमा काष्ठा सा दृशां दृग् अनुत्तमा । स महिम्नां च महिमा गुरूणां स गुरुर् गुरुः
स आत्मा तच् च विज्ञानं तच् छून्यं ब्रह्म तत् परम् । तच् छ्रेयस् स शिवश् शान्तस् सा विद्यापरमा स्थितिः
यो ऽयम् अन्तश्चेतनात्मा सर्वानुभवरूपकः । यत्र स्वदन्ते सर्वाणि द्रव्याणि स्वात्मसत्तया
स जगत्तिलतैलात्मा स जगद्गृहदीपकः । स जगत्पादपरसस् स जगत्पशुपालकः
स तन्तुर् भूतमुक्तानां परिप्रोतहृदम्बरः । स भूतमरिचौघानां परमा तिक्ततातता
स पदार्थे पदार्थत्वं स तुच्छत्वम् अवस्तुनः । स सतो वस्तुनस् सत्त्वम् असत्त्वम् असतश् च सः
जगद्गृहक्रियाभाण्डोपस्कराणां स दीपकः । चन्द्रार्कतारकातेजस् तेनेदं प्रकटीकृतम्
सर्वं प्रसृतम् एतस्माच् चेतनात् परमात्मनः । स्वसंवित्तिविचारेण स्वयम् आत्मैष लभ्यते
सर्व एव जगद्भावा अविचारणचारवः । अविद्यमानसद्भावा विचारविशरारवः
अहम् आदौ जगज्जाले मिथ्याभ्रमभरात्मनि । को भूत्वा क्वानुबध्नामि धृतिं कथम् अवास्तवीम्
आदिमध्यान्तमननसङ्कल्पकलनास्व् अहम् । ब्रह्माकाशम् अनाद्यन्तं केवेयत्ता ममात्मनः
इतिनिश्चयवान् यो ऽन्तस् समव्यवहृतिर् बहिः । उदयास्तमयोन्मुक्तस् स्थितो ऽनन्तस् स सर्वदा
नास्तम् एति न चोदेति साम्यं समम् अवस्थितम् । यस्य खस्येव शून्यत्वं स महात्मेह सद्वपुः
भावाद्वैतपदारूढस् सुषुप्तपरया धिया । व्यवहार्य् अपि हृत्क्षोभं नैत्य् आदर्शनरो यथा
आदर्शपुरुषस्येव व्यवहारवतो ऽपि च । न यस्य हृदयोल्लेखो मनाग् अपि स मुक्तिभाक्
अविभागमताव् एव ज्ञमणौ प्रतिबिम्बति । चितेः परमवैमल्याद् व्यवहारो यथागतः
चिच्चमत्कृतिर् एवेयं जगद् इत्य् अवभासते । नेहास्त्य् ऐक्यं न च द्वित्वम् उपदेशो ऽपि तन्मयः
वाच्यवाचकशिष्येहागुर्वाख्यैस् स्वचमत्कृतैः । आत्मनात्मनि शान्तैव चिच् चमत्कुरुते चिति
चित्प्रस्पन्दो हि संसारस् तदस्पन्दः परं पदम् । चित्स्पन्दशमनेनेयं परिशाम्यति संसृतिः
महाचितेर् नञर्थांशभावो यो ऽभावनक्षयः । असन्न् इव स्वभावेन स चित्स्पन्द उदाहृतः