वृत्तयो यदि बोधेन संशान्ता हृदये स्फुटम् । तच् चित्तं शान्तम् एवाशु विद्धि सत्त्वम् उपागतम्
अत्र तच् चेत्यरहितं प्रत्यक्चेतननामकम् । वस्तु शिष्टं विनिर्मुक्तं यत् सर्वं सर्वतश् च यत्
न केचन प्रबाधन्ते तत् पदं जगदाधयः । भूतलाद् गगनोड्डीनं विहङ्गमम् इवोतवः
प्रत्यक्चेतनम् आभासं शुद्धं सङ्कल्पवर्जितम् । अगम्यम् एनम् आत्मानं विद्धि दुष्टदृशाम् इह
सर्वातीतपदस्थस्य चिता शुद्धस्य वासना । न शक्नोति पदं द्रष्टुं जनदृष्टिर् अहेर् इव
यत्प्राप्तौ सर्व एवेमे क्षीणा घटपटादयः । वराकी वासना तत्र किं करोति परे पदे
यथानलगिरिं प्राप्य हिमलेशो विलीयते । शुद्धम् आसाद्य चित्तत्त्वम् अविद्या लीयते तथा
क्व वराकी रजस्तुच्छा वासना भोगबन्धनी । क्वापूरितजगज्जालश् चित्तत्त्वविपुलानिलः
तावत् स्फुरत्य् अविद्येयं नानाकारविकारिणी । यावन् न सम्परिज्ञातश् शुद्धस् स्वात्मायम् आत्मना
सर्वा दृश्यदृशः क्षीणाश् शुद्धतैवोदितातता । नभसीव पदे तस्मिन् स्वात्मन्य् अखिलपूरणे
समग्राकाररूपं तत् समग्राकारवर्जितम् । वागतीतं परं वस्तु केन नामोपमीयते
विषयविषविषूचिकाम् अतस् त्वं निपुणम् अहंस्थितिवासनाम् अपास्य । अभिमतपरिहारयत्नयुक्त्या भव विरुजो भुवनैकनाथमूर्तिः
इति गदितवति त्रिलोकनाथे क्षणम् इव मौनम् अवस्थिते पुरस्तात् । अथ मधुप इवासिताब्जषण्डे वचनम् उपैष्यति तत्र पाण्डुपुत्रः
परिगलितसमस्तशोकभावा परम् उदयं भगवन् मतिर् गतेयम् । मम तव वचनेन लोकभर्तुर् दिनपतिना परिबोधिताब्जिनीव
इत्य् उक्त्वोत्थाय गाण्डीवधन्वा स हरिसारथिः । अर्जुनो गतसन्देहो रणलीलां करिष्यति
करिष्यति क्षतगजवाजिसारथिद्रुतद्रवद्रुधिरमहानदीं भुवम् । शरोत्करप्रसरमयाभ्रमण्डलीतिरोहितद्युमणिविलोचनां दिवम्
एतां दृष्टिम् अवष्टभ्य राघवाघविघातिनीम् । तिष्ठ निस्सङ्गसन्न्यासब्रह्मार्पणमयात्मिकाम्
यस्मिन् सर्वं यतस् सर्वं यस् सर्वं सर्वतश् च यः । यश् च सर्वमयो नित्य आत्मानं विद्धि तं परम्
दूरस्थम् अप्य् अदूरस्थं सर्वगं त्वं स्वम् एव च । तत्स्थस् तत्ताम् अवाप्नोषि तद् एवास्य् अस्तसंशयम्
यत् संवेद्यविनिर्मुक्तं संवेदनम् अनिन्दितम् । चेत्यमुक्तचिदाभासं तद् विद्धि परमं पदम्
सा परात् परमा काष्ठा सा दृशां दृग् अनुत्तमा । स महिम्नां च महिमा गुरूणां स गुरुर् गुरुः
स आत्मा तच् च विज्ञानं तच् छून्यं ब्रह्म तत् परम् । तच् छ्रेयस् स शिवश् शान्तस् सा विद्यापरमा स्थितिः
यो ऽयम् अन्तश्चेतनात्मा सर्वानुभवरूपकः । यत्र स्वदन्ते सर्वाणि द्रव्याणि स्वात्मसत्तया
स जगत्तिलतैलात्मा स जगद्गृहदीपकः । स जगत्पादपरसस् स जगत्पशुपालकः
स तन्तुर् भूतमुक्तानां परिप्रोतहृदम्बरः । स भूतमरिचौघानां परमा तिक्ततातता
स पदार्थे पदार्थत्वं स तुच्छत्वम् अवस्तुनः । स सतो वस्तुनस् सत्त्वम् असत्त्वम् असतश् च सः
जगद्गृहक्रियाभाण्डोपस्कराणां स दीपकः । चन्द्रार्कतारकातेजस् तेनेदं प्रकटीकृतम्
सर्वं प्रसृतम् एतस्माच् चेतनात् परमात्मनः । स्वसंवित्तिविचारेण स्वयम् आत्मैष लभ्यते
सर्व एव जगद्भावा अविचारणचारवः । अविद्यमानसद्भावा विचारविशरारवः
अहम् आदौ जगज्जाले मिथ्याभ्रमभरात्मनि । को भूत्वा क्वानुबध्नामि धृतिं कथम् अवास्तवीम्