आकाश एव रचिता प्रतिभैकरङ्गा मुग्धा जगत्त्रयमनोहरपुत्रिकेयम् । चिन्मात्रवक्त्रपरिरञ्जितसर्वलोका लीलाकुला चपलचित्तकचित्रकर्त्रा
हेमाचलाङ्गलतिका घनकेशपाशा चन्द्रार्कलोचनविचालनदृष्टलोका । धर्मार्थकामत्रिकयन्त्रितशास्त्रवस्त्रा पातालतालचरणोन्नतभूनितम्बा
ब्रह्मेन्द्ररुद्रहरिबाहुचतुष्टयोग्रा सत्यानृतोन्नतकुचा ककुबङ्गयष्टिः । अब्ध्यन्त्रवेष्टितमहीतलपद्मपीठपत्त्रीकृताचलमहाभुवनोदरी च
रात्र्यन्धकारचपलभ्रुरहस्स्मितोच्चैस् ताराकरालपुलका ग्रहदन्तपङ्क्तिः । चञ्चच्चतुर्दशविधाकुलभूतजातरोमा ध्वनत्प्रलयवारिदकम्बुपूगा
जीवान्विता गगन एव कृता विचित्रा व्योमात्मिकाचिरविलक्षणचित्रकर्त्रा । चित्तेन चित्रपरिकर्मविदा त्रिलोकी नानाविलासवलिता वरपुत्रिकेति
इदं विद्धि महाश्चर्यम् अर्जुनेह हि यत् किल । पूर्वं सञ्जायते चित्रं पश्चाद् भित्तिर् उदेति हि
अभित्ताव् उत्थिते चित्रे दृश्यते भित्तिर् आतता । अहो नु चित्रा मायेयं मग्नं तुम्बु शिला प्लुता
चित्तस्थचित्रसदृशे व्योमात्मनि जगत्त्रये । व्योमात्मनस् ते किम् इयम् अहन्ता व्योमतोदिता
सर्गव्योम कृतं व्योम्ना व्योम्नि व्योम विलीयते । भुज्यते व्योमनि व्योम व्योम व्योमनि चाततम्
वेष्टितं वासनारज्ज्वा दीर्घसंसृतिदाम यत् । वासनोद्वेष्टनेनैव तद् इहोद्वेष्ट्यते ऽर्जुन
प्रतिबिम्बं यथादर्शे तथेदं ब्रह्मणि स्वयम् । अगम्यं छेदभेदादेर् आधारानन्यतावशात्
अनन्यच् छेदभेदादि ब्रह्मणि ब्रह्म चाम्बरम् । किं कथं कस्य केनैतच् छिद्यते वा क्व भिद्यते
ब्रह्मता ब्रह्मतापूरे जले जलम् इव स्फुरत् । स्थिता समसमा व्योम निर्मला शान्तम् आत्मनि
वास्यवासकभावो ऽतो मनाग् अपि न भिद्यते । तेनेहावासनीभावो बोधात् सम्पन्न एव ते
यो न निर्वासनो नूनं सर्वधर्मपरो ऽपि सः । सर्वज्ञो ऽप्य् अतिबद्धात्मा तपस्व्य् अपि स रागवान्
यस्यास्ति वासनाबीजम् अत्यल्पं चितिभूमिगम् । बृहत् सञ्जायते तस्य पुनस् संसृतिकाननम्
अभ्यासाद् धृदि रूढेन सत्यसम्बोधवह्निना । निर्दग्धं वासनाबीजं न भूयः परिरोहति
दग्धं तु वासनाबीजं न निमज्जति वस्तुषु । सुखदुःखादिषु स्वच्छं तुम्बीपत्त्रम् इवाम्भसि
शान्तात्मा विगतभवामयो ऽसि जातो निर्वाणो दलितमहामनोविमोहः । सम्यग्ज्ञश् श्रुतम् अवगम्य पावनं तत् तिष्ठात्मव्यवहृतिर् एकशान्तरूपः
नष्टो मोहस् स्मृतिर् लब्धा त्वत्प्रसादान् मयाच्युत । स्थितो ऽस्मि गतसन्देहः करिष्ये वचनं तव
वृत्तयो यदि बोधेन संशान्ता हृदये स्फुटम् । तच् चित्तं शान्तम् एवाशु विद्धि सत्त्वम् उपागतम्
अत्र तच् चेत्यरहितं प्रत्यक्चेतननामकम् । वस्तु शिष्टं विनिर्मुक्तं यत् सर्वं सर्वतश् च यत्
न केचन प्रबाधन्ते तत् पदं जगदाधयः । भूतलाद् गगनोड्डीनं विहङ्गमम् इवोतवः
प्रत्यक्चेतनम् आभासं शुद्धं सङ्कल्पवर्जितम् । अगम्यम् एनम् आत्मानं विद्धि दुष्टदृशाम् इह
सर्वातीतपदस्थस्य चिता शुद्धस्य वासना । न शक्नोति पदं द्रष्टुं जनदृष्टिर् अहेर् इव
यत्प्राप्तौ सर्व एवेमे क्षीणा घटपटादयः । वराकी वासना तत्र किं करोति परे पदे
यथानलगिरिं प्राप्य हिमलेशो विलीयते । शुद्धम् आसाद्य चित्तत्त्वम् अविद्या लीयते तथा
क्व वराकी रजस्तुच्छा वासना भोगबन्धनी । क्वापूरितजगज्जालश् चित्तत्त्वविपुलानिलः
तावत् स्फुरत्य् अविद्येयं नानाकारविकारिणी । यावन् न सम्परिज्ञातश् शुद्धस् स्वात्मायम् आत्मना
सर्वा दृश्यदृशः क्षीणाश् शुद्धतैवोदितातता । नभसीव पदे तस्मिन् स्वात्मन्य् अखिलपूरणे