अकिञ्चनो ऽप्य् असौ जन्तुस् साम्राज्यसुखम् अश्नुते । आधिव्याधिविनिर्मुक्तं सन्तुष्टं यस्य मानसम्
नाभिवाञ्छत्य् असम्प्राप्तं प्राप्तं भुङ्क्ते यथाक्रमम् । यस् स सोम्यस् सदाचारस् सन्तुष्ट इति कथ्यते
सन्तोषपरितृप्तस्य महतः पूर्णचेतसः । क्षीराब्धेर् इव शुद्धस्य मुखे लक्ष्मीर् विराजते
पूर्णताम् अलम् आश्रित्य स्वात्मन्य् एवात्मना स्वयम् । पौरुषेण प्रयत्नेन तृष्णां सर्वत्र वर्जयेत्
सन्तोषामृतपूर्णस्य स्वान्तश् शीतलता स्वयम् । स्थैर्यम् आयात्य् अरिक्तस्य शीतांशोर् इव शाश्वतम्
सन्तोषपुष्टमनसं भृत्या इव महर्द्धयः । राजानम् उपतिष्ठन्ते किङ्करत्वम् उपागताः
आत्मनैवात्मनि स्वच्छे सन्तुष्टे पुरुषे स्थिते । प्रशाम्यन्त्य् आधयस् सर्वे प्रावृषीवाशु पांसवः
नित्यं शीतलया नाम कलङ्कपरिहीनया । पुरुषश् शुद्धया वृत्त्या भाति पूर्णतयेन्दुवत्
समतासुन्दरं वक्त्रं पुरुषस्यावलोकयन् । तोषम् एति यथा लोको न तथा धनसङ्गमैः
समतया मतया गुणशालिनां पुरुषराड् इह यस् समलङ्कृतः । तम् अमलं प्रणमन्ति नभश्चरा अपि महामुनयो रघुनन्दन
विशेषेण महाबुद्धे संसारोत्तरणे नृणाम् । सर्वत्रोपकरोतीह साधुस् साधुसमागमः
साधुसङ्गतरोर् जातं विवेककुसुमं शुभम् । रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः
शून्यम् आकीर्णताम् एति मृतिर् अप्य् उत्सवायते । आपत् सम्पद् इवाभाति विद्वज्जनसमागमे
हिमम् आपत्सरोजिन्या मोहनीहारमारुतः । जयत्य् एको जगत्य् अस्मिन् साधुस् साधुसमागमः
परं विवर्धनं बुद्धेर् अज्ञानतरुशातनम् । समुत्सरणम् आधीनां विद्धि साधुसमागमम्
विवेकः परमो दीपो जायते साधुसङ्गमात् । मनोहरोज्ज्वलो नूनम् अशोकाद् इव गुच्छकम्
निरपायां निराबाधां निर्वृतिं नित्यपीवरीम् । अनुत्तमां प्रयच्छन्ति साधुसङ्गविभूतयः
अपि कष्टतरां प्राप्तैर् दशां विवशतां गतैः । मनाग् अपि न सन्त्याज्या मानवैस् साधुसङ्गतिः
साधुसङ्गतयो लोके सन्मार्गशुभदीपिकाः । हार्दान्धकारहारिण्यो भासो ज्ञानविवस्वतः
यस् स्नातश् शीतसितया साधुसङ्गतिगङ्गया । किं तस्य दानैः किं तीर्थैः किं तपोभिः किम् अध्वरैः
नीरागाश् छिन्नसन्देहा गलितग्रन्थयो ऽनघ । साधवो यदि विद्यन्ते किं तपस्तीर्थसङ्ग्रहैः
विश्रान्तमनसो वन्द्याः प्रयत्नेन परेण हि । दरिद्रेणेव मणयः प्रेक्षणीया हि साधवः
सत्समागमसौन्दर्यशालिनी धीमतां मतिः । कमलेवाप्सरोवृन्दे सर्वदैव विराजते
तेनामलविलासस्य पदस्याग्रावचूलता । प्रथिता येन भव्येन न त्यक्ता साधुसङ्गतिः
विच्छिन्नग्रन्थयस् तज्ज्ञास् साधवस् सर्वसम्मताः । सर्वोपायेन संसेव्यास् ते ह्य् उपाया भवाम्बुधौ
त एते नरकाग्नीनां संशुष्केन्धनतां गताः । यैर् दृष्टा हेलया सन्तो नरकानलवारिदाः
दारिद्र्यं मरणं दुःखम् इत्यादिविषमो भ्रमः । सम्प्रशाम्यत्य् अशेषेण साधुसङ्गमभेषजैः
सन्तोषस् साधुसङ्गश् च विचारो ऽथ शमस् तथा । एत एव भवाम्भोधाव् उपायास् तरणे नृणाम्
सन्तोषः परमो लाभस् सत्सङ्गः परमा गतिः । विचारः परमं ज्ञानं शमो हि परमं सुखं
चत्वार एते विमला उपाया भवभेदने । यैर् अभ्यस्तास् त उत्तीर्णा मोहवारेर् भवार्णवात्