स्थिरां संहृतिम् आयान्ति कूर्माङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यो हृदि ज्ञस्य स्वभावतः
चिन्मात्रे वितते तन्तौ दृढे स्रग् इव संस्थितम् । सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि
प्रसारिते प्रसरति त्व् अन्तर्धिं याति संवृते । विचित्ररचनाजालम् अनन्यच् चिद्वितानके
अनन्यद् अप्य् अन्यद् इव स्वाङ्गरूपम् अनङ्गवत् । चित्रं वितानक इव स्थितं जगद् इदं चिति
यथैवारचितं चित्रं स्थितं चित्रकृदीहिते । तथा जातम् अजातं च विश्वं संस्थितम् आत्मनि
यथा स्फुरति कर्तव्यं चित्रं चित्रकृतश् चिति । विश्वात्मनि तथा विश्वं कालत्रयमयोदयम्
अभित्ति त्रिजगच्चित्रं कुरुते चित्तचित्रकृत् । व्योम्नि व्योमात्मकम् अपि प्रस्फुटं वृत्तिवर्तिभिः
चित्तचित्रकरेणादौ चित्रं चित्रं वितानितम् । पश्चाद् भित्तिः कृता व्योमरूपा चासाव् अहो भ्रमः
अपूर्वैवातिमायेयं किल यत्र खकुड्ययोः । न मनाग् अपि भेदो ऽस्ति स्फुटम् अप्य् उपलब्धयोः
इमा या उपलक्ष्यन्ते भित्तयश् चित्तचित्रजाः । व्योम्नश् शून्यतया विद्धि तास् तामरसलोचन
क्षणेन चेतसि यथा भातो लोकक्षयोदयौ । खात्मा जगत् तथैवेदं सबाह्याभ्यन्तरं नभः
चिरन्तनमनोराज्यमात्रे ऽस्मिन् किल सत्यता । कथम् आलोकिते ऽपि स्यात् सत्यं नास्त्य् एव विभ्रमे
भ्रमेणालोकितस् सत्यम् आलोकेन विलीयते । दृश्यमानम् अपि क्षामं शरदीवाभ्रम् अम्बरे
चित्तचित्रकृतश् चित्ते संस्थिताश् चित्रपुत्रिकाः । भित्त्यभावाद् अनाधारा बहिस् त्रिभुवनादिकाः
नैतास् सन्ति न चासि त्वं किं केन परिरुध्यते । रोध्यरोधकसम्मोहं त्यक्त्वा खविमलो भव
प्रवृत्तिर् एव का व्योम्नः प्रवृत्तिश् चैव खात्मिका । अतः कालक्रियाकुड्यकलादि विमलं नभः
चित्तसंस्थं यथा चित्रं सद्रूपम् अपि खात्मकम् । व्योम्नश् शून्यतमं विद्धि तथेदम् अखिलं जगत्
चित्तभित्तौ कृतं चित्रं यच् चिच्चित्रकरेण तत् । सर्वं शून्यतया व्योम्नो मनाग् अपि न भिद्यते
यथा प्रकचतश् चित्ते जगन्निर्माणसङ्क्षयौ । क्षणेनैव तथैवेमौ बहिस्स्थाव् इति विद्धि हे
आद्यक्षणमनोराज्ये नानाभुवननामनि । क्षणभाविनि मोहेन कल्पता परिकल्पिता
असद् एव मनोराज्यं कर्तुं शक्तं यथा मनः । क्षणस्य कल्पीकरणे तथैव बलवन् मनः
क्षणं कल्पीकरोत्य् एतत् तथाल्पं कुरुते बहु । असत् सत् कुरुते क्षिप्रम् इतीयं भ्रान्तिर् उत्थिता
क्षणम् आदिमनोराज्यं प्रतिभातं स्वभावतः । यद् विचित्रात्म तद् इदं जगज्जालम् इति स्थितम्
सर्गो निर्वाणनिष्ठत्वान् निमेषम् अयम् उत्थितः । प्रतिभामात्रतो ऽत्रैव कल्पिता वज्रसारता
चित्तचित्रकृतश् चित्स्थं जगच्चित्रं कचत् स्थितम् । अकुड्यम् अप्य् अरङ्गाढ्यम् इदं स्फारम् इवाग्रतः
अहो नु चित्रं निर्भित्ति चित्रम् उज्ज्वलम् उत्थितम् । सुरञ्जनं जगद् इति स्थितं दृष्टिविलोभनम्
नानातमोमषीलेखं नानातेजोऽंशरञ्जनम् । नानाकलङ्कावयवं नानारागानुरञ्जितम्
नानादृष्टिविलासाढ्यं नानानुभवलोचनम् । नानाभ्रकोग्ररचनं नानाकाराग्रपश्चिमम्
व्योमनीलसरःफुल्लताराचन्द्रार्कपङ्कजम् । विचित्ररचनोद्युक्तमेघालीपत्त्रमञ्जरि
स्वकोष्ठकाभिलिखितसुरासुरनृपुत्रिकम् । परमालोकमक्कोलधवलाकाशकुड्यकम्