अनायत्तम् असङ्कल्पम् आत्मरूपं यद् अव्ययम् । प्रबोधाद् वासनामुक्तं तं मोक्षं विद्धि भारत
जीवन्न् एव महाबाहो तत्त्वं प्रेक्ष्य यथास्थितम् । वासनावागुरामुक्तो मुक्त इत्य् अभिधीयते
यो न निर्वासनो नूनं सर्वधर्मपरो ऽपि सः । सर्वज्ञो ऽप्य् अभितो बद्धः पञ्जरस्थो यथा खगः
दुर्दर्शनस्य गगने शिखिपिञ्छिकेव सूक्ष्मापि विस्फुरति यस्य न वासनान्तः । मुक्तस् स एव भवतीह हि वासनैव बन्धो ऽनघस्य ननु तत्क्षय एव मोक्षः
इति निर्वासनत्वेन जीवन्मुक्ततयात्मनि । अन्तश्शीतलताम् एत्य बन्धुदुःखम् अलं त्यज
जरामरणनिश्शङ्क आकाशविशदाशयः । त्यक्तेष्टानिष्टसङ्कल्पो वीतरागो भवानघ
प्रवाहापतितं कार्यम् इदं किञ्चिद् यथागतम् । कुरु कार्यम् अकार्पण्यं न किञ्चिद् इह नश्यति
प्रवाहापतितं कर्म स्वम् एव क्रियते हि यत् । जीवन्मुक्तस्वभावो ऽसाव् अजीवन्मुक्ततान्यथा
इदं कर्म त्यजामीदम् आश्रयामीत्य् अनिर्मलम् । मूढस्य मनसो रूपं ज्ञमनस् तु समस्थिति
प्रवाहापतितं कार्यं कुर्वन्तश् शान्तचेतसः । जीवन्मुक्तास् सुषुप्तस्थास् स्फुरन्त्य् अर्धप्रबुद्धवत्
स्थिरां संहृतिम् आयान्ति कूर्माङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यो हृदि ज्ञस्य स्वभावतः
चिन्मात्रे वितते तन्तौ दृढे स्रग् इव संस्थितम् । सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि
प्रसारिते प्रसरति त्व् अन्तर्धिं याति संवृते । विचित्ररचनाजालम् अनन्यच् चिद्वितानके
अनन्यद् अप्य् अन्यद् इव स्वाङ्गरूपम् अनङ्गवत् । चित्रं वितानक इव स्थितं जगद् इदं चिति
यथैवारचितं चित्रं स्थितं चित्रकृदीहिते । तथा जातम् अजातं च विश्वं संस्थितम् आत्मनि
यथा स्फुरति कर्तव्यं चित्रं चित्रकृतश् चिति । विश्वात्मनि तथा विश्वं कालत्रयमयोदयम्
अभित्ति त्रिजगच्चित्रं कुरुते चित्तचित्रकृत् । व्योम्नि व्योमात्मकम् अपि प्रस्फुटं वृत्तिवर्तिभिः
चित्तचित्रकरेणादौ चित्रं चित्रं वितानितम् । पश्चाद् भित्तिः कृता व्योमरूपा चासाव् अहो भ्रमः
अपूर्वैवातिमायेयं किल यत्र खकुड्ययोः । न मनाग् अपि भेदो ऽस्ति स्फुटम् अप्य् उपलब्धयोः
इमा या उपलक्ष्यन्ते भित्तयश् चित्तचित्रजाः । व्योम्नश् शून्यतया विद्धि तास् तामरसलोचन
क्षणेन चेतसि यथा भातो लोकक्षयोदयौ । खात्मा जगत् तथैवेदं सबाह्याभ्यन्तरं नभः
चिरन्तनमनोराज्यमात्रे ऽस्मिन् किल सत्यता । कथम् आलोकिते ऽपि स्यात् सत्यं नास्त्य् एव विभ्रमे
भ्रमेणालोकितस् सत्यम् आलोकेन विलीयते । दृश्यमानम् अपि क्षामं शरदीवाभ्रम् अम्बरे
चित्तचित्रकृतश् चित्ते संस्थिताश् चित्रपुत्रिकाः । भित्त्यभावाद् अनाधारा बहिस् त्रिभुवनादिकाः
नैतास् सन्ति न चासि त्वं किं केन परिरुध्यते । रोध्यरोधकसम्मोहं त्यक्त्वा खविमलो भव
प्रवृत्तिर् एव का व्योम्नः प्रवृत्तिश् चैव खात्मिका । अतः कालक्रियाकुड्यकलादि विमलं नभः
चित्तसंस्थं यथा चित्रं सद्रूपम् अपि खात्मकम् । व्योम्नश् शून्यतमं विद्धि तथेदम् अखिलं जगत्
चित्तभित्तौ कृतं चित्रं यच् चिच्चित्रकरेण तत् । सर्वं शून्यतया व्योम्नो मनाग् अपि न भिद्यते
यथा प्रकचतश् चित्ते जगन्निर्माणसङ्क्षयौ । क्षणेनैव तथैवेमौ बहिस्स्थाव् इति विद्धि हे
आद्यक्षणमनोराज्ये नानाभुवननामनि । क्षणभाविनि मोहेन कल्पता परिकल्पिता