अन्तवन्त इमे देहा नित्यस्योक्ताश् शरीरिणः । अनाशिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत
आत्मैवैको ऽस्ति न द्वित्वम् असतस् सम्भवः कुतः । अविनाशस् त्व् अनन्तो ऽसौ सतो नाशो न विद्यते
द्वैतैकत्वपरित्यागे यच् छेषम् अवशिष्यते । शान्तं सदसतोर् मध्यं तद् अस्तीह परं पदम्
तन् मृतो ऽस्मीति भगवन् किंरूढेह नृणां स्थितिः । कथं स्थितौ वा लोकानां तौ स्वर्गनरकौ प्रभो
भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च । एतत्तन्मात्रजातात्मा जीवो देहेषु तिष्ठति
स कृष्यते वासनया रज्ज्वेव पशुपोतकः । स तिष्ठति शरीरान्तः पञ्जरे विहगो यथा
स कालवशतो देहाज् जर्जरत्वम् उपागतात् । वासनावशतो याति वृक्षपर्णाद् रसो यथा
श्रोत्रं चक्षुस् स्पर्शनं च रसनं घ्राणम् एव च । गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात्
वासनावत्त्वम् एवास्य देहो नेतरयुक्तिजः । क्षीयते वासनात्यागे क्षीणे भवति तत् पदम्
वासनावान् पुरा पुष्टो भूत्वा भ्राम्यति योनिषु । जीवो भ्रमभराकारो मायापुरुषको यथा
अक्षस्वभावान् अखिलाञ् शरीराद् वासनावशः । जीवो गृहीत्वा संयाति पुष्पाद् गन्धान् इवानिलः
देहो निस्स्पन्दताम् एति जीवे कौन्तेय निर्गते । निस्स्पन्दावयवाभोगश् शान्तवात इव द्रुमः
अचेष्टश् छेदभेदादिदोषैर् आयात्य् अदृश्यताम् । मृत इत्य् उच्यते लोके देहो विगतजीवितः
स जीवः प्राणमूर्तिः खे यत्र यत्रावतिष्ठते । तत्र स्ववासनाभ्यासात् पश्यत्य् आकारम् आततम्
अयं देहो हि जीवेन त्व् असन्न् एवावलोकितः । अस्य नाशे ऽन्यम् अप्य् एवं पश्यत्य् एवाशु स्वप्नवत्
यथैव पश्यत्य् आकारांस् तेषां नाशांस् तथैव सः । आदिसर्गे भावनया किलैवं संविभावितः
झगित्य् उद्भवकाले तु यद् यथा दृश्यते पुरः । आनिर्वाणं तद् एवास्या अविनाभाविसंविदः
प्राक्तनं वासनाजालं पुरुषार्थेन जीयते । यत्नेनाद्यतनेनाशु यतनं ह्यस्तनं यथा
य एव पुरुषार्थेन दृष्टो बलवता क्षणात् । पूर्वोत्तरनिमेषांशस् स एव जयति स्फुटम्
अपि स्फुटति विध्यण्डे वाति वा प्रलयानिले । पौरुषं हि यथाशास्त्रम् अतस् त्याज्यं न धीमता
नरकस्वर्गसर्गादि वासनावशतो ऽभितः । प्रपश्यति चिराभ्यस्तं जीवो जरढमोहधीः
नरकस्वर्गसर्गादिसम्भ्रमेषु जगत्पते । किम् अस्य कारणं ब्रूहि जीवस्य जनितस्थितेः
वासनात्मानम् एनं त्वं जीवं विद्धि शरीरकम् । स्ववासनात्मिकैवास्य सत्ता संसृतिकारणम्
ध्रियते संसृतिस् तावद् यावत् स्फुरति वासना । स्वप्नोपमाना तेनेह श्रेयसे वासनाक्षयः
चिराभ्यासवशात् प्रौढा संसारभ्रमकारिणी । किमुत्था देवदेवेश वासना क्षीयते कथम्
मौर्ख्यमोहसमुच्छ्रायाद् अनात्मन्य् आत्मभावनात् । अज्ञानाद् आत्मनस् साधो सत्ताम् आयाति वासना
भावितात्मासि कौन्तेय सत्यं विज्ञातवान् असि । अयं सो ऽहं जना एते ममेति त्यज वासनाः
वासनाविलये जीवो विलीनो भवति स्वयम् । यो हि यत्सत्तयोच्छूनस् तन्नाशात् स विलीयते
देहे विलयम् आयाते देशकालान्यताकृतेः । को ऽसौ भाजनताम् एति जन्मनो मरणस्य च
स्वयं कल्पितसङ्कल्पम् आत्मरूपं यद् आबिलम् । तद् एव वासनाकारं जीवं विद्धि महामते