पुरुषाक्षौहिणीनां त्वं क्षयेणानुभवात्मना । ब्रह्मणा बृंहितं युद्धं ब्रह्म ब्रह्ममयं कुरु
असंविदन् सुखं दुःखं लाभालाभौ जयाजयौ । युद्धब्रह्मैकतां गच्छ ब्रह्मादिस्तम्भ भारत
लाभालाभसमो भूत्वा भूत्वा नूनं नकिञ्चन । जडो वात इव स्पन्दी प्रसृतं कार्यम् आचर
यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् । यत् करिष्यसि कौन्तेय तद् आत्मेति स्थिरो भव
यन्मयो यो भवत्य् अन्तस् स तद् आप्नोत्य् असंशयम् । ब्रह्मसत्यम् अवाप्तुं त्वं ब्रह्मसत्यमयो भव
अनपेक्ष्य फलं ब्रह्म भूत्वा ब्रह्मेति भावितम् । क्रियते केवलं कर्म ब्रह्मज्ञेन यथागतम्
कर्मण्य् अकर्म यः पश्यत्य् अकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स चोक्तस् सर्वकर्मकृत्
मा कर्मफलहेतुर् भूर् मा ते सङ्गो ऽस्त्व् अकर्मणि । योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय
कर्मासक्तिम् अनाश्रित्य तथा नाश्रित्य मूढताम् । नैष्कर्म्यम् अप्य् अनाश्रित्य समस् तिष्ठ यथास्थितम्
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्य् अभिप्रवृत्तो ऽपि नैव किञ्चित् करोति सः
आसक्तिम् आहुः कर्तृत्वम् अकर्तुर् अपि तद् भवेत् । मौर्ख्ये स्थिते हि मनसि तस्मान् मौर्ख्यं परित्यजेत्
परं तज्ज्ञत्वम् आश्रित्य निरासक्तेर् महात्मनः । सर्वकर्मरतस्यापि कर्तृतोदेति न क्वचित्
अकर्तृत्वाद् अभोक्तृत्वम् अभोक्तृत्वात् समैकता । समैकत्वाद् अनन्तत्वं ततो ब्रह्मत्वम् आततम्
नानाताम् अलम् उत्सृज्य परमात्मैकतां गतः । कुर्वन् कार्यम् अकार्यं च नैव कर्ता त्वम् अर्जुन
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तम् आहुः पण्डितं बुधाः
समस् सोम्यस् स्थिरस् स्वस्थश् शान्तस् सर्वार्थनिस्स्पृहः । यस् तिष्ठति स सुव्यग्रो ऽप्य् अलम् अव्यग्रतां गतः
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् । यथाप्राप्तानुवर्ती च भव भूषितभूतलः
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारस् स उच्यते
यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽर्जुन । कर्मेन्द्रियैः कर्मयोगम् असक्तस् स विशिष्यते
आपूर्यमाणं त्व् अचलप्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् । तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न कामकामी
न कुर्याद् भोगसन्त्यागं न कुर्याद् भोगभावनम् । स्थातव्यं सुसमेनैव यथाप्राप्तानुवर्तिना
अनात्मन्य् आत्मतां देहे मा भावय भवात्मनि । आत्मन्य् एवात्मतां सत्ये भावयाभावरूपिणि
देहनाशे महाबाहो न किञ्चिद् अपि नश्यति । आत्मनाशे हि नाशस् स्यान् न चात्मा नश्यति क्वचित्
अविनाशम् अनाद्यन्तम् आत्मानम् अजरं विदुः । नश्यत्य् आत्मेति दुर्बोधो मा तवास्त्व् अतिदुःखदः
न कदाचन नश्यन्ति विदितात्मान उत्तमाः । नश्यन्त्य् अविदितात्मानो ह्य् अनात्मन्य् आत्ममानिनः
एवं चेत् तज् जगन्नाथ मूढानाम् अपि मानद । देहनाशे समुत्पन्ने मन्ये नष्टं न किञ्चन
एवम् एव महाबाहो न किञ्चिन् नश्यति क्वचित् । आत्मैवास्त्य् अविनाशात्मा किं तस्य क्व विनश्यति
इदं नष्टम् इदं युक्तम् इति मोहाद् भ्रमाद् ऋते । अन्यत् तथा न पश्यामि वन्ध्यास्त्रीतनयं यथा
नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्वदर्शिभिः
अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् । विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति