सन्तोषो हि परं श्रेयस् सन्तोषस् सुखम् उच्यते । सन्तुष्टः परम् अभ्येति विश्रामम् अरिसूदन
सन्तोषैश्वर्यसुखिनां चिरविश्रान्तचेतसाम् । साम्राज्यम् अपि साधूनां जरत्तृणलवायते
सन्तोषशालिनी बुद्धी राम संसारवृत्तिषु । विषमास्व् अप्य् अनुद्विग्ना न कदाचन दूयते
सन्तोषामृतपानेन ये परां तृप्तिम् आगताः । भोगश्रीर् अतुला तेषाम् एषा प्रतिविषायते
न तथा तर्पयन्त्य् एताः पीयूषरसवीचयः । यथा हि मधुरास्वादस् सन्तोषो दोषनाशनः
अप्राप्तवाञ्छाम् उत्सृज्य सम्प्राप्ते समतां गतः । अदृष्टखेदाखेदो ऽन्तस् स सन्तुष्ट इहोच्यते
आत्मनात्मनि सन्तोषं यावद् याति न मानसम् । उद्भवन्त्य् आपदस् तावल् लता इव मनोवनात्
सन्तोषशीतलं चेतश् शुद्धविज्ञानदृष्टिभिः । भृशं विकासम् आयाति सूर्यांशुभिर् इवाम्बुजम्
आशावैवश्यविवशे चित्ते सन्तोषवर्जिते । म्लाने वक्त्रम् इवादर्शे न ज्ञानं प्रतिबिम्बति
अज्ञानघनयामिन्या सङ्कोचं न नराम्बुजम् । यात्य् असाव् उदितो यस्य नित्यं सन्तोषभास्करः
अकिञ्चनो ऽप्य् असौ जन्तुस् साम्राज्यसुखम् अश्नुते । आधिव्याधिविनिर्मुक्तं सन्तुष्टं यस्य मानसम्
नाभिवाञ्छत्य् असम्प्राप्तं प्राप्तं भुङ्क्ते यथाक्रमम् । यस् स सोम्यस् सदाचारस् सन्तुष्ट इति कथ्यते
सन्तोषपरितृप्तस्य महतः पूर्णचेतसः । क्षीराब्धेर् इव शुद्धस्य मुखे लक्ष्मीर् विराजते
पूर्णताम् अलम् आश्रित्य स्वात्मन्य् एवात्मना स्वयम् । पौरुषेण प्रयत्नेन तृष्णां सर्वत्र वर्जयेत्
सन्तोषामृतपूर्णस्य स्वान्तश् शीतलता स्वयम् । स्थैर्यम् आयात्य् अरिक्तस्य शीतांशोर् इव शाश्वतम्
सन्तोषपुष्टमनसं भृत्या इव महर्द्धयः । राजानम् उपतिष्ठन्ते किङ्करत्वम् उपागताः
आत्मनैवात्मनि स्वच्छे सन्तुष्टे पुरुषे स्थिते । प्रशाम्यन्त्य् आधयस् सर्वे प्रावृषीवाशु पांसवः
नित्यं शीतलया नाम कलङ्कपरिहीनया । पुरुषश् शुद्धया वृत्त्या भाति पूर्णतयेन्दुवत्
समतासुन्दरं वक्त्रं पुरुषस्यावलोकयन् । तोषम् एति यथा लोको न तथा धनसङ्गमैः
समतया मतया गुणशालिनां पुरुषराड् इह यस् समलङ्कृतः । तम् अमलं प्रणमन्ति नभश्चरा अपि महामुनयो रघुनन्दन
विशेषेण महाबुद्धे संसारोत्तरणे नृणाम् । सर्वत्रोपकरोतीह साधुस् साधुसमागमः
साधुसङ्गतरोर् जातं विवेककुसुमं शुभम् । रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः
शून्यम् आकीर्णताम् एति मृतिर् अप्य् उत्सवायते । आपत् सम्पद् इवाभाति विद्वज्जनसमागमे
हिमम् आपत्सरोजिन्या मोहनीहारमारुतः । जयत्य् एको जगत्य् अस्मिन् साधुस् साधुसमागमः
परं विवर्धनं बुद्धेर् अज्ञानतरुशातनम् । समुत्सरणम् आधीनां विद्धि साधुसमागमम्
विवेकः परमो दीपो जायते साधुसङ्गमात् । मनोहरोज्ज्वलो नूनम् अशोकाद् इव गुच्छकम्
निरपायां निराबाधां निर्वृतिं नित्यपीवरीम् । अनुत्तमां प्रयच्छन्ति साधुसङ्गविभूतयः
अपि कष्टतरां प्राप्तैर् दशां विवशतां गतैः । मनाग् अपि न सन्त्याज्या मानवैस् साधुसङ्गतिः
साधुसङ्गतयो लोके सन्मार्गशुभदीपिकाः । हार्दान्धकारहारिण्यो भासो ज्ञानविवस्वतः
यस् स्नातश् शीतसितया साधुसङ्गतिगङ्गया । किं तस्य दानैः किं तीर्थैः किं तपोभिः किम् अध्वरैः