निर्मानमोहा जीतसङ्गदोषा अध्यात्मविद्या विनिवृत्तकामाः । द्वन्द्वैर् विमुक्तास् सुखदुःखसञ्ज्ञैर् गच्छन्त्य् अमूढाः पदम् अव्ययं तत्
भूय एव महाबाहो शृणु मे परमं वचः । यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया
मात्रास्पर्शास् तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनो ऽनित्यास् तांस् तितिक्षस्व भारत
ते तु नैकात्मनश् चान्ये क्वातो दुःखं क्व वा सुखम् । अनाद्यन्ते ऽनवयवे कुतः पूरणखण्डने
संस्थिता स्पर्शमात्राख्या कलास्मिन् परमात्मनि । अनन्ते ऽसन्निवेशादौ हेम्नीव कटकादिता
यं हि न व्यथयन्त्य् एते मात्रास्पर्शा भ्रमात्मकाः । समदुःखसुखो धीरस् सो ऽमृतत्वाय कल्पते
सर्वत्वाद् आत्मनस् त्व् एते आभासास् संस्थिता इव । असद्रूपास् त्व् असद्रूपं कथं सोढुं न शक्यते
मनाग् अपि न विद्येते सुखदुःखे असर्वगे । सर्वत्वाद् आत्मतत्त्वस्य सत्ता कथम् इवानयोः
नासतो विद्यते भावो नाभावो विद्यते सतः । नास्त्य् एव सुखदुःखादि परमात्मास्ति सर्वगः
सत्त्वासत्त्वमती त्यक्त्वैवैतयोर् जगदात्मनोः । त्यक्त्वा नकिञ्चिन् मध्यं च शेषे बद्धपदो भव
न हृष्यति सुखेनात्मा दुःखैर् ग्लायति नार्जुन । दृषद्वच् चेतनात्मापि शरीरान्तर्गतो ऽपि सन्
जडं चित्तादि दुःखस्य भाजनं देहतां गतम् । न चैतस्मिन् क्षते क्षीणे किञ्चिद् एवात्मनः क्षतम्
जडं देहादि दुःखादेर् यद् इदं भोक्त्र् इति स्थितम् । तन् मायाभ्रमम् एवाङ्ग विद्ध्य् अबोधवशोत्थितम्
न किञ्चिद् एव देहादि न च दुःखादि विद्यते । आत्मनो यत् पृथग्भूतं किं केनातो ऽनुभूयते
यद् इदं कथयाम्य् अत्र तेनैषा ते विनश्यति । भ्रान्तिर् दुरवबोधोत्था सम्यग्बोधेन भारत
यथा रज्ज्वाम् अहिभयं बोधान् नश्यत्य् अबोधजम् । तथा देहादि दुःखादि बोधान् नश्यत्य् अबोधजम्
विष्वग् विश्वम् अजं ब्रह्म न नश्यति न जायते । इति सत्यं परं विद्धि बोधः परम एष सः
ब्रह्मार्णवतरङ्गस् त्वं किञ्चिद् भूत्वा विलीयसे । ब्रह्मावर्ते स्फुरस्य् अद्य ब्रह्मैवासि निरामयम्
जगत् कालः क्रिया देशस् त्वम् अहं सैनिका इति । ब्रह्मण्य् एवं परिस्पन्दो नात्र स्तस् सदसत्क्रमौ
जहि मानं मदं शोकं भयम् ईर्ष्यां सुखासुखे । द्वैतम् एतद् असद्रूपम् एकस् सद्रूपवान् भव
पुरुषाक्षौहिणीनां त्वं क्षयेणानुभवात्मना । ब्रह्मणा बृंहितं युद्धं ब्रह्म ब्रह्ममयं कुरु
असंविदन् सुखं दुःखं लाभालाभौ जयाजयौ । युद्धब्रह्मैकतां गच्छ ब्रह्मादिस्तम्भ भारत
लाभालाभसमो भूत्वा भूत्वा नूनं नकिञ्चन । जडो वात इव स्पन्दी प्रसृतं कार्यम् आचर
यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् । यत् करिष्यसि कौन्तेय तद् आत्मेति स्थिरो भव
यन्मयो यो भवत्य् अन्तस् स तद् आप्नोत्य् असंशयम् । ब्रह्मसत्यम् अवाप्तुं त्वं ब्रह्मसत्यमयो भव
अनपेक्ष्य फलं ब्रह्म भूत्वा ब्रह्मेति भावितम् । क्रियते केवलं कर्म ब्रह्मज्ञेन यथागतम्
कर्मण्य् अकर्म यः पश्यत्य् अकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स चोक्तस् सर्वकर्मकृत्
मा कर्मफलहेतुर् भूर् मा ते सङ्गो ऽस्त्व् अकर्मणि । योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय
कर्मासक्तिम् अनाश्रित्य तथा नाश्रित्य मूढताम् । नैष्कर्म्यम् अप्य् अनाश्रित्य समस् तिष्ठ यथास्थितम्
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्य् अभिप्रवृत्तो ऽपि नैव किञ्चित् करोति सः