त्रैलोक्यचेतसाम् अन्तर् आलोको यः प्रकाशजः । अनुभूतिम् उपारूढस् सो ऽयम् आत्मेति निश्चयः
त्रैलोक्यपयसाम् अन्तर् यो रसानुभवस् स्थितः । गव्यानाम् अब्धिजानां च सो ऽयम् आत्मास्मि भारत
अन्तस् सर्वशरीराणां यस् सूक्ष्मो ऽनुभवस् स च । मुक्तो ऽनुभवनीयेन सो ऽयम् आत्मास्मि सर्वगः
समग्रपयसाम् अन्तर् यथा घृतम् अवस्थितम् । तथा सर्वपदार्थानां देहानां च स्थितः परः
सर्वाम्भोनिधिरत्नानां सबाह्याभ्यन्तरे यथा । तेजस् तथास्मि देहानाम् असंस्थित इव स्थितः
यथा कुम्भसहस्राणां सबाह्याभ्यन्तरे नभः । जगत्त्रयशरीराणां तथात्माहम् अवस्थितः
मुक्ताफलशतौघानां तन्तुः प्रोतवपुर् यथा । तथाहं देहलक्षाणां स्थित आत्मास्म्य् अलक्षितः
ब्रह्मादौ तृणपर्यन्ते पदार्थनिकुरुम्बके । सत्तासामान्यम् एतद् यत् तम् आत्मानम् अजं विदुः
तद् ईषत्स्फुरिताकारं ब्रह्म ब्रह्मैव तिष्ठति । अहन्तादि जगत्तादि क्रमेण भ्रमकारिणा
आत्मैवेदं जगद्रूपं हन्यते हन्ति चात्र किम् । शुभाशुभैर् जगद्दुःखैः किम् अस्यार्जुन लिप्यते
प्रतिबिम्बेष्व् इवादर्शं समं साक्षिवद् आस्थितम् । नश्यत्सु न विनश्यन्तं यः पश्यति स पश्यति
इदं चाहम् इदं चाहम् इतीदं कथ्यते मया । एवम् आत्मासि सर्वात्मा माम् एवं विद्धि पाण्डव
इमास् सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः । आत्मतन्तोश् चितो ऽन्तस्स्थाः पयस्स्पन्दा इवाम्बुधौ
यथोपलत्वं शैलानां दारुत्वं च महीरुहाम् । तरङ्गाणां जलत्वं च पदार्थानां तथात्मता
सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि । यः पश्यति तथात्मानम् अकर्तारं स पश्यति
नानाकारविकारेषु तरङ्गेषु यथा पयः । कटकादिषु वा हेम भूतेष्व् आत्मा तथार्जुन
नानातरङ्गवृन्दानि यथा लोलानि वारिणि । कटकादीनि वा हेम्नि तथा भूतानि चात्मनि
पदार्थजातं भूतादि बृहद् ब्रह्म च भारत । एकम् एवाखिलं विद्धि पृथक्स्थं न मनाग् अपि
किं तद्भावविकाराणां गम्यम् अस्ति जगत्त्रये । क्व ते वापि जगत् किं वा किं मुधा परिमुह्यसि
इति श्रुत्वावगम्यान्तर् भावयित्वा सुनिश्चितम् । जीवन्मुक्ताश् चरन्तीह सन्तस् समरसाशयाः
निर्मानमोहा जीतसङ्गदोषा अध्यात्मविद्या विनिवृत्तकामाः । द्वन्द्वैर् विमुक्तास् सुखदुःखसञ्ज्ञैर् गच्छन्त्य् अमूढाः पदम् अव्ययं तत्
भूय एव महाबाहो शृणु मे परमं वचः । यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया
मात्रास्पर्शास् तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनो ऽनित्यास् तांस् तितिक्षस्व भारत
ते तु नैकात्मनश् चान्ये क्वातो दुःखं क्व वा सुखम् । अनाद्यन्ते ऽनवयवे कुतः पूरणखण्डने
संस्थिता स्पर्शमात्राख्या कलास्मिन् परमात्मनि । अनन्ते ऽसन्निवेशादौ हेम्नीव कटकादिता
यं हि न व्यथयन्त्य् एते मात्रास्पर्शा भ्रमात्मकाः । समदुःखसुखो धीरस् सो ऽमृतत्वाय कल्पते
सर्वत्वाद् आत्मनस् त्व् एते आभासास् संस्थिता इव । असद्रूपास् त्व् असद्रूपं कथं सोढुं न शक्यते
मनाग् अपि न विद्येते सुखदुःखे असर्वगे । सर्वत्वाद् आत्मतत्त्वस्य सत्ता कथम् इवानयोः
नासतो विद्यते भावो नाभावो विद्यते सतः । नास्त्य् एव सुखदुःखादि परमात्मास्ति सर्वगः
सत्त्वासत्त्वमती त्यक्त्वैवैतयोर् जगदात्मनोः । त्यक्त्वा नकिञ्चिन् मध्यं च शेषे बद्धपदो भव