सामान्यं परमं चैव द्वे रूपे विद्धि मे ऽनघ । पाण्यादियुक्तं सामान्यं शङ्खचक्रगदाधरम्
परं रूपम् अनाद्यन्तं यन् ममैकम् अनामयम् । ब्रह्मात्मपरमात्मादिशब्दैर् एतद् उदीर्यते
यावद् अप्रतिबुद्धस् त्वम् अनात्मज्ञतया स्थितः । तावच् चतुर्भुजाकारदेवपूजापरो भव
तत्क्रमात् सम्प्रबुद्धस् त्वं ततो ज्ञास्यसि तत् परम् । मम रूपम् अनाद्यन्तं येन भूयो न जायसे
यदि वा वेद्यविज्ञातो भवांस् तद् अरिमर्दन । तं ममात्मानम् आत्मानम् आत्मनश् चाशु संश्रय
इदं चाहम् इदं चाहम् इति यत् प्रवदाम्य् अहम् । तद् एतद् आत्मतत्त्वं तन् मुहुर् व्यपदिशाम्य् अलम्
मन्ये साधो प्रबुद्धो ऽसि पदे विश्रान्तवान् असि । सङ्कल्पैर् अवमुक्तो ऽसि सत्यैकात्ममयो भव
सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि । पश्य त्वं योगयुक्तात्मा सर्वत्र समदर्शनः
सर्वभूतस्थम् आत्मानं यो भजत्य् ऐक्यम् आस्थितः । सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते
एकत्वं सर्वशब्दार्थ एकशब्दार्थ आत्मता । आत्मापि च न सन् नासद् गतो यस्याशु तत् स सत्
त्रैलोक्यचेतसाम् अन्तर् आलोको यः प्रकाशजः । अनुभूतिम् उपारूढस् सो ऽयम् आत्मेति निश्चयः
त्रैलोक्यपयसाम् अन्तर् यो रसानुभवस् स्थितः । गव्यानाम् अब्धिजानां च सो ऽयम् आत्मास्मि भारत
अन्तस् सर्वशरीराणां यस् सूक्ष्मो ऽनुभवस् स च । मुक्तो ऽनुभवनीयेन सो ऽयम् आत्मास्मि सर्वगः
समग्रपयसाम् अन्तर् यथा घृतम् अवस्थितम् । तथा सर्वपदार्थानां देहानां च स्थितः परः
सर्वाम्भोनिधिरत्नानां सबाह्याभ्यन्तरे यथा । तेजस् तथास्मि देहानाम् असंस्थित इव स्थितः
यथा कुम्भसहस्राणां सबाह्याभ्यन्तरे नभः । जगत्त्रयशरीराणां तथात्माहम् अवस्थितः
मुक्ताफलशतौघानां तन्तुः प्रोतवपुर् यथा । तथाहं देहलक्षाणां स्थित आत्मास्म्य् अलक्षितः
ब्रह्मादौ तृणपर्यन्ते पदार्थनिकुरुम्बके । सत्तासामान्यम् एतद् यत् तम् आत्मानम् अजं विदुः
तद् ईषत्स्फुरिताकारं ब्रह्म ब्रह्मैव तिष्ठति । अहन्तादि जगत्तादि क्रमेण भ्रमकारिणा
आत्मैवेदं जगद्रूपं हन्यते हन्ति चात्र किम् । शुभाशुभैर् जगद्दुःखैः किम् अस्यार्जुन लिप्यते
प्रतिबिम्बेष्व् इवादर्शं समं साक्षिवद् आस्थितम् । नश्यत्सु न विनश्यन्तं यः पश्यति स पश्यति
इदं चाहम् इदं चाहम् इतीदं कथ्यते मया । एवम् आत्मासि सर्वात्मा माम् एवं विद्धि पाण्डव
इमास् सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः । आत्मतन्तोश् चितो ऽन्तस्स्थाः पयस्स्पन्दा इवाम्बुधौ
यथोपलत्वं शैलानां दारुत्वं च महीरुहाम् । तरङ्गाणां जलत्वं च पदार्थानां तथात्मता
सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि । यः पश्यति तथात्मानम् अकर्तारं स पश्यति
नानाकारविकारेषु तरङ्गेषु यथा पयः । कटकादिषु वा हेम भूतेष्व् आत्मा तथार्जुन
नानातरङ्गवृन्दानि यथा लोलानि वारिणि । कटकादीनि वा हेम्नि तथा भूतानि चात्मनि
पदार्थजातं भूतादि बृहद् ब्रह्म च भारत । एकम् एवाखिलं विद्धि पृथक्स्थं न मनाग् अपि
किं तद्भावविकाराणां गम्यम् अस्ति जगत्त्रये । क्व ते वापि जगत् किं वा किं मुधा परिमुह्यसि
इति श्रुत्वावगम्यान्तर् भावयित्वा सुनिश्चितम् । जीवन्मुक्ताश् चरन्तीह सन्तस् समरसाशयाः