चक्षुः पश्यतु कर्णश् च शृणोतु त्वक् स्पृशत्व् इयम् । रसना च रसं यातु को ऽत्रैको ऽहम् इति स्थितः
कलनाकर्मनिरते मनस्य् अपि महामते । न कश्चिद् अत्राहम् इति क्लेशभागी क एव ते
बहुभिस् समवायेन यत् कृतं तत्र भारत । एको ऽभिमानदुःखेन हासायैव हि गृह्यते
कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मसिद्धये
अहन्त्वविषचूर्णेन येषां कायो न भावितः । कुर्वन्तो ऽपि हरन्तो ऽपि त एते निर्विषूचिकाः
न क्वचिद् राजते कायो ममत्वामेध्यदूषितः । प्राज्ञो ऽप्य् अतिबहुज्ञो ऽपि दुश्शील इव मानवः
निर्ममो निरहङ्कारस् समदुःखसुखः क्षमी । यस् स कार्यम् अकार्यं वा कुर्वन्न् अपि न लिप्यते
इदं च ते पाण्डुसुत स्वकर्म क्षात्रम् उत्तमम् । अतिक्रूरम् अपि श्रेयस् सुखायैवोदयाय च
अपि कुत्सितम् अप्य् अन्त्यम् अप्य् अधर्ममयं कृशम् । श्रेयसे स्वं यथा कर्म न तथेहामृतासवः
मूर्खस्यापि स्वकर्मैव श्रेयसे किम् उ सन्मतेः । मतिर् गलदहङ्कारा पतितापि न लिप्यते
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । निस्सङ्गस् त्वं यथाप्राप्तकर्मासि चेन् न बध्यसे
शान्तब्रह्मवपुर् भूत्वा कर्म ब्रह्ममयं कुरु । ब्रह्मार्पितसमाचारो ब्रह्मैव भवसि क्षणात्
ईश्वरार्पितसर्वार्थ ईश्वरात्मा निरामयः । ईश्वरस् सर्वभूतात्मा भव भूषितभूतलः
सन्न्यस्तसर्वसङ्कल्पस् समश् शान्तमना मुनिः । सन्न्यासयोगयुक्तात्मा कुर्वन् मुक्तमतिर् भव
सङ्गत्यागस्य भगवंस् तथा ब्रह्मार्पणस्य च । ईश्वरार्पणरूपस्य सन्न्यासस्य च सर्वग
तथा ज्ञानस्य योगस्य विभागः कीदृशः प्रभो । क्रमेण कथयैतन् मे महामोहनिवृत्तिदम्
सर्वसङ्कल्पसंशान्ताव् एकान्तघनवेदनम् । नकिञ्चिद्भावनाकारं यत् तद् ब्रह्म परं विदुः
तदुद्योगं विदुर् ज्ञानं योगं च कृतबुद्धयः । ब्रह्म सर्वं जगद् अहं चेति ब्रह्मार्पणं विदुः
अन्तश्शून्यं बहिश्शून्यं पाषाणहृदयोपमम् । शान्तम् आकाशकोशाच्छं न शून्यं न दृषत् परम्
तत ईषद् यद् उत्थानम् ईषद् अन्यतयोदये । स जगत्प्रतिभासो ऽयम् आकाश इव शून्यता
भागो ऽहम् इति को ऽप्य् एष प्रत्येकम् उदितश् चितेः । कोटिकोट्यंशकलितः क इवैनं प्रति ग्रहः
विकल्पभेदे स्फुरिते संवित्सारमयात्मनि । वैचित्र्येणाविचित्रे ऽपि किम् एकत्रापि वो ग्रहः
अपृथग्भूत एवैष पृथग्भूत इव स्थितः । पृथग् अब्धिर् अपर्यन्तो नाहम् इत्य् अवगच्छति
यथेहाहं तथेहासि घटादीहास्ति मर्कटः । खम् इहैवं तथाम्ब्वादि किम् अहन्तां प्रति ग्रहः
इति ज्ञानाद् विभागस्य यो द्वैतस्य परिक्षयः । त्यागस् सङ्कल्पजालानाम् असंसङ्गस् स कथ्यते
समस्तकल्पनाजालस्येश्वरैकत्वभावनम् । गलितद्वैतनिर्भासम् एतद् एवेश्वरार्पणम्
अभेदवशतो भेदो नाम्नैवैषां चिदात्मनि । बोधात्माखिलशब्दार्थं जगद् एकं न संशयः
अहम् आशा जगद् अहं खम् अहं कर्म चाप्य् अहम् । कालो ऽहम् अहम् अद्वैतं द्वैतं चाहम् अहं जगत्
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । माम् एवैष्यसि मत्वैवम् आत्मानं मत्परायणः
द्वे रूपे तव देवेश परं चापरम् एव च । कीदृशं तत् कदा रूपं तिष्ठाम्य् आश्रित्य सिद्धये