भूर् भारपरिभूताङ्गी हरिं शरणम् एष्यति । कान्ता दस्युपराभूता दीना पतिम् इव प्रियम्
हरिर् देहद्वयेनाथ महीम् अवतरिष्यति । देवांशैर् अखिलैस् सार्धं नरनायकतां गतैः
वसुदेवसुतस् त्व् एको वासुदेव इति श्रुतः । देहो भविष्यति हरेर् द्वितीयः पाण्डवो ऽर्जुनः
युधिष्ठिर इति ख्यातो धर्मपुत्रो भविष्यति । अम्भोधिमेखलाभूपः पाण्डोः पुत्रस् स धर्मवित्
दुर्योधन इति ख्यातस् तस्य भ्राता पितृव्यजः । भविष्यति दृढद्वन्द्वो भीमो बभ्रुर् अहेर् इव
अन्योऽन्यं हरतोर् उर्वीं तयोस् सङ्ग्रामलालसाः । अष्टादशाक्षौहिण्यो हि घटिष्यन्त्य् अत्र भीषणाः
तत्क्षयेण विभारत्वं भुवो विष्णुः करिष्यति । राघवार्जुनदेहेन बृहद्गाण्डीवधन्वना
विष्णोर् अर्जुननामासौ प्राकृतं भावम् आस्थितः । हर्षामर्षान्वितो देहो नरधर्मा भविष्यति
सेनाद्वयगतान् दृष्ट्वा स्वजनान् मरणोन्मुखान् । विषादम् एष्यत्य् उद्योगं युद्धाय न करिष्यति
तम् अर्जुनाभिधं देहं प्राप्तकार्यैकसिद्धये । हरिर् बुद्धेन देहेन बोधयिष्यति राघव
त्वं मानुषेणोपहतान्तरात्मा विषादमोहाभिभवाद् विसञ्ज्ञः । नष्टस् स्वम् उत्सृज्य परं प्रकाशं तदात्मतत्त्वं ननु राजसिंह
अनन्तम् अव्यक्तम् अनादिमध्यम् आत्मानम् आलोकय संविदात्मन् । संविद्वपुस् स्फारम् अलग्नदोषम् अजो ऽसि नित्यो ऽसि निरामयो ऽसि
न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः । अजो नित्यश् शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे
य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते
अनन्तस्यैकरूपस्य सतस् सूक्ष्मस्य खाद् अपि । आत्मनः परमेशस्य किं कथं केन हन्यते
नार्जुनस् त्वं न हन्ता त्वम् अभिमानम् अलं त्यज । जरामरणनिर्मुक्तस् स्वयम् आत्मासि शाश्वतः
यस्य नाहङ्कृतो भावो यस्य बुद्धिर् न लिप्यते । हत्वापि स इमांल् लोकान् न हन्ति न निबध्यते
यैव सञ्जायते संविद् अन्तस् सैवानुभूयते । अयं सो ऽहम् इदं तन् मे इत्य् अतस् संविदं त्यज
अनयैव च युक्तो ऽस्मि नष्टो ऽस्मीति च भारत । अभितस् सुखदुःखाभ्याम् अवशः परिकृष्यसे
स्वात्मांशैः क्रियमाणानि गुणैः कर्माणि भागशः । अहङ्कारविमूढात्मा कर्ताहम् इति मन्यते
चक्षुः पश्यतु कर्णश् च शृणोतु त्वक् स्पृशत्व् इयम् । रसना च रसं यातु को ऽत्रैको ऽहम् इति स्थितः
कलनाकर्मनिरते मनस्य् अपि महामते । न कश्चिद् अत्राहम् इति क्लेशभागी क एव ते
बहुभिस् समवायेन यत् कृतं तत्र भारत । एको ऽभिमानदुःखेन हासायैव हि गृह्यते
कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मसिद्धये
अहन्त्वविषचूर्णेन येषां कायो न भावितः । कुर्वन्तो ऽपि हरन्तो ऽपि त एते निर्विषूचिकाः
न क्वचिद् राजते कायो ममत्वामेध्यदूषितः । प्राज्ञो ऽप्य् अतिबहुज्ञो ऽपि दुश्शील इव मानवः
निर्ममो निरहङ्कारस् समदुःखसुखः क्षमी । यस् स कार्यम् अकार्यं वा कुर्वन्न् अपि न लिप्यते
इदं च ते पाण्डुसुत स्वकर्म क्षात्रम् उत्तमम् । अतिक्रूरम् अपि श्रेयस् सुखायैवोदयाय च
अपि कुत्सितम् अप्य् अन्त्यम् अप्य् अधर्ममयं कृशम् । श्रेयसे स्वं यथा कर्म न तथेहामृतासवः
मूर्खस्यापि स्वकर्मैव श्रेयसे किम् उ सन्मतेः । मतिर् गलदहङ्कारा पतितापि न लिप्यते