नेह सन्त्यज्यते किञ्चिन् नेह किञ्चन गृह्यते । बाह्यान्तरकलाकारश् चिदात्मैकः प्रकाशते
त्रिजगच् चिच्चमत्कारस् त्व् अलं भेदविकल्पनैः । चेतितास् स्मश् चिति चिता बाह्याद्य् अन्यन् न विद्महे
अब्धेर् यथामलम् अपास्तसमस्तभेदं स्वाद्व् अच्छम् एव सकलं द्रवम् एकशुद्धम् । सर्वं तथेदम् अपहस्तितभेदजातम् आद्यं परं पदम् अनामयम् एव बुद्धम्
यो जीवस्योदितस् स्वप्नो नानाकलनकोमलः । तम् इमं विद्धि संसारं न सत्यं नाप्य् असन्मयम्
न पुंस इव जीवस्य स्वप्नस् सम्भवति क्वचित् । तेनैते जागता भावा जाग्रत्स्वप्नैकतात्र हि
जीवस्वप्नम् इदं दीर्घं क्षिप्रं च प्रतिभासते । असत्यम् अप्य् अवस्तुत्वाद् विद्धि वेद्यविदां वर
स्वप्नात् स्वप्नान्तरम् इव गच्छन्तो जीवजीवकाः । असत्यम् एव पश्यन्ति घनसत्यतया चिरम्
अजडा जडतां याता जाड्ये चाजाड्यतोदिता । असत्ये सत्यता जाता जीवानुभवमोहतः
स्थाणोर् अप्य् अन्तर् अखिलं पश्यन्तस् त्रिजगद्भ्रमम् । भ्रमन्ति स्वप्नसम्भ्रान्ता इह जीवाहिराशयः
सर्वगत्वाद् अनन्तस्य स्वस्य जीवस्य वै चितेः । यद् भावयन्ति चेतन्ति तद् एवाश्व् एति सत्यताम्
पुण्डरीकाक्षगदिताम् असंसङ्गगतिं शुभाम् । याम् आलिङ्ग्य महाबाहो जीवन्मुक्तो महामुनिः
पाण्डोः पुत्रो ऽर्जुनो नाम सुखं जीवितम् आत्मनः । क्षपयिष्यति निर्दुःखं तथा क्षपय जीवितम्
भविष्यति कदा ब्रह्मन्न् अर्जुनः पाण्डुनन्दनः । कीदृशीं च हरिस् तस्य कथयिष्यत्य् असक्तताम्
अस्ति सन्मात्रम् आत्मेति परिकल्पितनामकम् । स्थितम् आत्मन्य् अनाद्यन्ते नभसीव महानभः
दृश्यते विमले तस्मिन्न् अयं संसारविभ्रमः । कटकादि यथा हेम्नि तरङ्गादि यथाम्भसि
चतुर्दशविधा भूतजातयः प्रस्फुरन्त्य् अलम् । तस्मिन् संसारजाले ऽस्मिञ् जाले शकुनयो यथा
तत्र ते यमचन्द्रार्कशक्राद्यास् संसृतिक्रमाः । भूतपञ्चकसंस्थाना लोकपालत्वम् आगताः
इदं पुण्यम् उपादेयं हेयं पापम् इदं त्व् इति । तैस् स्वसङ्कल्पघटिता वेदेन स्थापिता स्थितिः
एवं प्रौढिं प्रयातायां वहन्त्यां च चिरं चिरम् । अच्छिन्नायां विनाशिन्यां नद्याम् इव जगत्स्थितौ
वैवस्वतो यमो नाम लोकपालः प्रतापवान् । मरणाङ्कितसत्ताकप्रजासंयमने स्थितः
तस्याद्य यावद् अनघ प्रवाहापतिते निजे । कर्मण्य् अचलसङ्काशं स्थिरं चित्तम् अवस्थितम्
भगवान् स यमः किञ्चिद् व्रतं प्रतिचतुर्युगम् । तथापि कुरुते भूतदलनोत्थाघशङ्कया
कदाचिद् अष्टौ वर्षाणि दश द्वादश वापि च । कदाचित् पञ्च सप्तापि कदाचित् षोडशापि वा
उदासीनवद् आसीने तस्मिन् नियमम् आस्थिते । न हिनस्ति जगज्जाले मृत्युर् भूतानि कानिचित्
तेन नीरन्ध्रभूतौघं निस्सञ्चारं महीतलम् । भवति प्रावृषि स्वेदी कुञ्जको मषकैर् इव
अथ तानि विचित्राणि भूतानि बहुयुक्तिभिः । क्षपयन्ति सुरा राम भुवो भारनिवृत्तये
एवं यमसहस्राणि व्यवहारशतानि च । समतीतान्य् अनन्तानि भूतानि च जगन्ति च
वैवस्वतो ऽद्य तु यमो य एव पितृनायकः । अनेन त्व् अधुना साधो परिक्षीणेषु केषुचित्
युगेष्व् अघविघाताय वर्षाणि द्वादशात्मना । व्रतचर्येह कर्तव्या दूरास्तक्रूरकर्मणा
तेनेयम् उर्वी नीरन्ध्रा भूतैर् मर्तैर् अमृत्युभिः । दीना प्रघनगुल्मेव भारभूतैर् भविष्यति